ऋग्वेदः सूक्तं १०.१४८
← सूक्तं १०.१४७ | ऋग्वेदः - मण्डल १० सूक्तं १०.१४८ पृथुर्वैन्यः |
सूक्तं १०.१४९ → |
दे. इन्द्रः। त्रिष्टुप् । |
सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् ।
आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः ॥१॥
ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येण सह्याः ।
गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥२॥
अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः ।
ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥३॥
इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।
तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥४॥
श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः ।
आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥५॥
सायणभाष्यम्
‘सुष्वाणासः' इति पञ्चर्चं विंशं सूक्तं वेनपुत्रस्य पृथोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च-- ‘ सुष्वाणासः पृथुर्वैन्यः' इति । गतो विनियोगः ॥
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् ।
आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोता॑ः ॥१
सु॒स्वा॒नासः॑ । इ॒न्द्र॒ । स्तु॒मसि॑ । त्वा॒ । स॒स॒ऽवांसः॑ । च॒ । तु॒वि॒ऽनृ॒म्ण॒ । वाज॑म् ।
आ । नः॒ । भ॒र॒ । सु॒वि॒तम् । यस्य॑ । चा॒कन् । त्मना॑ । तना॑ । स॒नु॒या॒म॒ । त्वाऽऊ॑ताः ॥१
सुस्वानासः । इन्द्र । स्तुमसि । त्वा । ससऽवांसः । च । तुविऽनृम्ण । वाजम् ।
आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऽऊताः ॥१
हे “इन्द्र “सुष्वाणासः सोममभिषुतवन्तो वयं त्वां “स्तुमसि स्तुमः । हे “तुविनृम्ण बहुबल बहुधन वा “वाजं चरुपुरोडाशादिलक्षणमन्नं “ससवांसः संभक्तवन्तः “च वयं त्वां स्तुमः । यत एवमतो हेतोः “नः अस्मभ्यं “सुवितं सुष्ठु प्राप्तव्यं शोभनं धनम् “आ “भर आहर प्रयच्छ । “यस्य यद्धनमतिप्रियत्वेन “चाकन् त्वं कामयसे तद्धनमा भरेत्यर्थः । वयं च “त्वोताः त्वया रक्षिताः सन्तः “तना । धननामैतत् । विस्तृतानि धनानि “त्मना आत्मना स्वयमेवान्यनैरपेक्ष्येणैव “सनुयाम तव प्रसादाल्लभेमहि ॥
ऋ॒ष्वस्त्वमि॑न्द्र शूर जा॒तो दासी॒र्विश॒ः सूर्ये॑ण सह्याः ।
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम॑म् ॥२
ऋ॒ष्वः । त्वम् । इ॒न्द्र॒ । शू॒र॒ । जा॒तः । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ।
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । बि॒भृ॒मसि॑ । प्र॒ऽस्रव॑णे । न । सोम॑म् ॥२
ऋष्वः । त्वम् । इन्द्र । शूर । जातः । दासीः । विशः । सूर्येण । सह्याः ।
गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । बिभृमसि । प्रऽस्रवणे । न । सोमम् ॥२
हे “शूर शौर्यवान् “इन्द्र “ऋष्वः महान् दर्शनीयो वा “त्वं “जातः जातमात्र एव “दासीः । उपक्षयकारिणो दासा असुराः । तत्संबन्धिनीः “विशः प्रजाः “सूर्येण सूर्यात्मना "सह्याः अभ्यभवः । तथा “गुहा गुहायां “हितं निहितमत एव “गुह्यम् अदृश्यं वलाख्यमसुरम् “अप्सु उदकेषु "गूढं निगूढं कुयवाख्यं च त्वमभिभूतवानसि । वयमपि “प्रस्रवणे प्रवर्षणे सति । नः संप्रत्यर्थे । संप्रति “सोमं बिभृमसि त्वदर्थं बिभृमः धारयामः ।।
अ॒र्यो वा॒ गिरो॑ अ॒भ्य॑र्च वि॒द्वानृषी॑णां॒ विप्र॑ः सुम॒तिं च॑का॒नः ।
ते स्या॑म॒ ये र॒णय॑न्त॒ सोमै॑रे॒नोत तुभ्यं॑ रथोळ्ह भ॒क्षैः ॥३
अ॒र्यः । वा॒ । गिरः॑ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी॑णाम् । विप्रः॑ । सु॒ऽम॒तिम् । च॒का॒नः ।
ते । स्या॒म॒ । ये । र॒णय॑न्त । सोमैः॑ । ए॒ना । उ॒त । तुभ्य॑म् । र॒थ॒ऽओ॒ळ्ह॒ । भ॒क्षैः ॥३
अर्यः । वा । गिरः । अभि । अर्च । विद्वान् । ऋषीणाम् । विप्रः । सुऽमतिम् । चकानः ।
ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथऽओळ्ह । भक्षैः ॥३
“विप्रः मेधावी “ऋषीणां मन्त्रदर्शिनां “सुमतिं सुष्टुतिं “चकानः कामयमानः “विद्वान् जानन् “अर्यो “वा स्वामी च भवन् हे इन्द्र ईदृशस्त्वं “गिरः स्तोतॄन् स्तुतीर्वा “अभ्यर्च । सम्यक्स्तुतमित्यभिपूजय । अपि च “ते वयं “स्याम सर्वदा भवेम “ये “सोमैः त्वां “रणयन्त रमयन्ति । “उत अपि च हे “रथोळ्ह रथैरभ्युह्यमान ॥आ ऊढ ओढः । रथेन ओढो रथोढः । ओमाङोश्च' (पा. सू. ६. १. ९५ ) इति पररूपम् ॥ ईदृशेन्द्र “भक्षैः भक्षणीयैश्चरुपुरोडाशादिभिः सार्धम् “एना इमानि स्तोत्राणि "तुभ्यं त्वदर्थं क्रियन्ते ॥
इ॒मा ब्रह्मे॑न्द्र॒ तुभ्यं॑ शंसि॒ दा नृभ्यो॑ नृ॒णां शू॑र॒ शव॑ः ।
तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा॑यस्व गृण॒त उ॒त स्तीन् ॥४
इ॒मा । ब्रह्म॑ । इ॒न्द्र॒ । तुभ्य॑म् । शं॒सि॒ । दाः । नृऽभ्यः॑ । नृ॒णाम् । शू॒र॒ । शवः॑ ।
तेभिः॑ । भ॒व॒ । सऽक्र॑तुः । येषु॑ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥४
इमा । ब्रह्म । इन्द्र । तुभ्यम् । शंसि । दाः । नृऽभ्यः । नृणाम् । शूर । शवः ।
तेभिः । भव । सऽक्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन् ॥४
हे “इन्द्र त्वदर्थम् “इमा इमानि पुरोवर्तीनि “ब्रह्म ब्रह्माणि परिवृढानि स्तोत्राणि “शंसि अशंसिषत । शस्यन्ते । शंसेश्छान्दसे कर्मणि लुङि व्यत्ययेनैकवचनम्। हे “शूर शौर्यवन्निन्द्र त्वं “नृणां मनुष्याणां मध्ये “नृभ्यः स्तुत्यादेः नेतृभ्यः “शवः बलं “दाः देहि । अपि च “तेभिः तैः “सक्रतुः समानकर्मा समानप्रज्ञो वा “भव “येषु स्तोतृषु “चाकन् हविरादि कामयसे ॥ ‘कन दीप्तिकान्तिगतिषु' । अस्माद्यङ्लुगन्ताच्छान्दसे लङि सिपि रूपमेतत् । कमेर्वा पूर्ववत् । सिपि ‘मो नो धातोः' इति नत्वम् ॥ “उत अपि च “गृणतः स्तोतॄन “त्रायस्व पालय । “उत अपि च “स्तीन् । स्त्यायतेरेतद्रूपम् । संघीभूय स्थितान् यजमानानपि त्रायस्व ।।
श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः ।
आ यस्ते॒ योनिं॑ घृ॒तव॑न्त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वा॑ः ॥५
श्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒से॒ । वे॒न्यस्य॑ । अ॒र्कैः ।
आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥५
श्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवसे । वेन्यस्य । अर्कैः ।
आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥५
हे “शूर “इन्द्र “पृथ्याः पृथोर्ऋषेर्मम “हवम् आह्वानं “श्रुधि शृणु । "उत अपि च "वेन्यस्य वेनपुत्रस्य मम “अर्कैः मन्त्रैः “स्तवसे स्तूयसे । यकि प्राप्ते व्यत्ययेन शप् । “यः स्तोता “घृतवन्तम् उदकवन्तं “ते तव "योनिं निवासभूमिम् “आ “अस्वाः अभ्यस्वार्षीत् अभ्यष्टौत् ॥ ‘ स्वृ शब्दोपतापयोः' । अस्माल्लुङि तिपि ‘ बहुलं छन्दसि' इतीडभावे हल्याः दिलोपे च रात्सस्य इति सलोपः॥ यद्वा । घृतवन्तमाज्यादिना हविषोपेतं योनिम्। गृहनामैतत् । यज्ञगृहं प्राप्य ते त्वां योऽभिष्टौति तस्य वेन्यस्य अर्कैरित्यन्वयः। अपि च “वक्वाः वक्वानः । वचेः ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । अन्त्यविकारश्छान्दसः । जसि पृषोदरादित्वाद्वर्णलोपः । अन्येऽपि सर्वे स्तोतारः “निम्नैः प्रवणैर्मार्गैः “ऊर्मिर्न उदकसंघ इव “द्रवयन्त । स्तुतिभिस्त्वामेवाभिद्रवन्ति अभिगच्छन्ति ॥ ॥६॥
मण्डल १० | ||||
---|---|---|---|---|