ऋग्वेदः सूक्तं १०.६५

(ऋग्वेद: सूक्तं १०.६५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.६४ ऋग्वेदः - मण्डल १०
सूक्तं १०.६५
वसुकर्णो वासुक्रः।
सूक्तं १०.६६ →
दे. विश्वे देवाः। जगती, १५ त्रिष्टुप्।


अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ।
आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥१॥
इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा ।
अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् ॥२॥
तेषां हि मह्ना महतामनर्वणां स्तोमाँ इयर्म्यृतज्ञा ऋतावृधाम् ।
ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥३॥
स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा ।
पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥४॥
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः ।
ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ ॥५॥
या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः ।
सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते ॥६॥
दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते ।
द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥७॥
परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा ।
द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः ॥८॥
पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा ।
देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥९॥
त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये ।
बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥१०॥
ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः ।
सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥११॥
भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् ।
कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥१२॥
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः ।
विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या ॥१३॥
विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ऋतज्ञाः ।
रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥१४॥
देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥१५॥


सायणभाष्यम्

‘ अग्निरिन्द्रः' इति पञ्चदशर्चं पञ्चमं सूक्तं वसुक्रपुत्रस्य वसुकर्णस्यार्षं वैश्वदेवम् । पञ्चदशी त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रम्यते --- अग्निरिन्द्रः पञ्चोना वासुक्रो वसुकर्णस्त्रिष्टुबन्तं तु ' इति ।


अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।

आ॒दि॒त्या विष्णु॑र्म॒रुत॒ः स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पति॑ः ॥१

अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः ।

आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥१

अग्निः । इन्द्रः । वरुणः । मित्रः । अर्यमा । वायुः । पूषा । सरस्वती । सऽजोषसः ।

आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥१

अग्न्यादय आदित्यादयः “बृहत् बृहती “स्वः द्यौश्च सोमादय एते देवाः “सजोषसः संगताः सन्तोऽन्तरिक्षं स्वमहिम्नापूरयन्तीत्युत्तरेण संबन्धः ॥


इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा ।

अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥२

इ॒न्द्रा॒ग्नी इति॑ । वृ॒त्र॒ऽहत्ये॑षु । सत्प॑ती॒ इति॒ सत्ऽप॑ती । मि॒थः । हि॒न्वा॒ना । त॒न्वा॑ । सम्ऽओ॑कसा ।

अ॒न्तरि॑क्षम् । महि॑ । आ । प॒प्रुः॒ । ओज॑सा । सोमः॑ । घृ॒त॒ऽश्रीः । म॒हि॒मान॑म् । ई॒रय॑न् ॥२

इन्द्राग्नी इति । वृत्रऽहत्येषु । सत्पती इति सत्ऽपती । मिथः । हिन्वाना । तन्वा । सम्ऽओकसा ।

अन्तरिक्षम् । महि । आ । पप्रुः । ओजसा । सोमः । घृतऽश्रीः । महिमानम् । ईरयन् ॥२

“वृत्रहत्येषु वृत्रहननेषु युद्धेषु । यद्वा । कर्मणि छान्दसः क्यप् । वृत्राणि शत्रवो हन्यन्तेऽत्रेति वृत्रहत्या युद्धानि । तेषु “मिथः परस्परं “तन्वा शरीरेण तत्रस्थेन बलेन शत्रून् “हिन्वाना प्रेरयन्तौ “सत्पती सतां पती “समोकसा समानस्थानौ “इन्द्राग्नी “घृतश्रीः उदकं वसतीवर्याख्यं श्रयमाणः “महिमानम् आत्मीयम् “ईरयन सर्वत्रोदीरयन्नुद्गमयन् “सोमः च एते सर्वे च “महि महत् “अन्तरिक्षम् “ओजसा स्वबलेन “आ “पपुः आपूरयन्ति । ‘प्रा पूरणे' ॥


तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।

ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥३

तेषा॑म् । हि । म॒ह्ना । म॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् ।

ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥३

तेषाम् । हि । मह्ना । महताम् । अनर्वणाम् । स्तोमान् । इयर्मि । ऋतऽज्ञाः । ऋतऽवृधाम् ।

ये । अप्सवम् । अर्णवम् । चित्रऽराधसः । ते । नः । रासन्ताम् । महये । सुऽमित्र्याः ॥३

“मह्ना स्वमहत्त्वेन “महतामनर्वणाम् अन्यस्मिन्नप्रत्यृतानां शत्रुभिरनभिगन्तव्यानाम् “ऋतावृधां सत्यभूतेन यज्ञेन वृद्धानां “तेषाम् अग्न्यादीनां देवानामेव “ऋतज्ञाः यज्ञस्य ज्ञाताहं “स्तोमान् “इयर्मि प्रेरयामि । ‘ऋ गतिप्रापणयोः '। जौहोत्यादिकः । “चित्रराधसः चायनीयधनोपेता यद्वा पश्वादिलक्षणबहुधना: “ये देवाः “अप्सवम् । अप्स इति रूपनाम । रूपवन्तम् “अर्णवम् । अर्णसः सलोपश्च ' ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः । उदकवन्तं मेघं वर्षन्ति ते “सुमित्र्याः शोभनसखिकर्माणः “ते देवाः “नः अस्मभ्यं “महये जनेषु मध्ये पूजार्थं धनं “रासन्तां प्रयच्छन्तु । ‘रासृ दाने ' ।।


स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।

पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रय॑ः ॥४

स्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा ।

पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥४

स्वःऽनरम् । अन्तरिक्षाणि । रोचना । द्यावाभूमी इति । पृथिवीम् । स्कम्भुः । ओजसा ।

पृक्षाःऽइव । महयन्तः । सुऽरातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः ॥४

“स्वर्णरं सर्वस्य स्वस्वकर्मणि नेतारमादित्यम् “अन्तरिक्षाणि । द्यावापृथिव्योरन्तरा मध्ये क्षियन्ति निवसन्तीत्यन्तरिक्षाणि । मध्यस्थितानि “रोचना आरोचमानानि तेजांसि “द्यावाभूमी द्यावापृथिव्यौ “पृथिवीं विस्तीर्णमन्तरिक्षं च एतानादित्यादीन् “ओजसा स्वबलेनैव देवाः “स्कम्भुः धारयन्ति । स्कम्भु इति सौत्रो धातुः । लिटि रूपम् । किंच “पृक्षाइव दरिद्रेषु धनानि संपर्चयन्त इव अत एव “महयन्तः स्तोतॄन् धनादिभिः पूजयन्तः “सुरातयः सुदानाः “मनुषाय मनुष्याय “सूरयः धनानां प्रेरका एते “देवाः “स्तवन्ते अस्मिन्यज्ञे स्तूयन्ते ।।


मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।

ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥५

मि॒त्राय॑ । शि॒क्ष॒ । वरु॑णाय । दा॒शुषे॑ । या । स॒म्ऽराजा॑ । मन॑सा । न । प्र॒ऽयुच्छ॑तः ।

ययोः॑ । धाम॑ । धर्म॑णा । रोच॑ते । बृ॒हत् । ययोः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । नाध॑सी॒ इति॑ । वृतौ॑ ॥५

मित्राय । शिक्ष । वरुणाय । दाशुषे । या । सम्ऽराजा । मनसा । न । प्रऽयुच्छतः ।

ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी इति । नाधसी इति । वृतौ ॥५

“दाशुषे धनानि स्तोतृभ्यः प्रयच्छते “मित्राय “वरुणाय च “शिक्ष हवींषि प्रयच्छ । शिक्षतिर्दानकर्मा । “सम्राजा सम्राजौ सर्वस्य “या यौ मित्रावरुणौ “मनसा अन्तःकरणेनापि “न “प्रयुच्छतः न प्रमाद्यतः किमुत बाह्येन व्यापारेण । ‘ युच्छ प्रमादे '। भौवादिकः । “ययोः मित्रावरुणयोः “बृहत् महत् “धाम शरीरं “धर्मणा आत्मीयेन लोकप्रकाशनादिलक्षणेन कर्मणा “रोचते सम्यग्दीप्यते । “ययोः च नाधसी । णाधृ याच्ञोपतापैश्वर्याशीःषु '। याचमाने “उभे “रोदसी द्यावापृथिव्यौ “वृतौ वर्तमाने भवतः । यद्वा । नाधसी देवमनुष्यैः समृद्धे द्यावापृथिव्यौ तयोर्वृतौ वर्तमाने भवतः । तदधीने भवत इत्यर्थः ॥ ॥ ९ ॥


या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रत॑ः ।

सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥६

या । गौः । व॒र्त॒निम् । प॒रि॒ऽएति॑ । निः॒ऽकृ॒तम् । पयः॑ । दुहा॑ना । व्र॒त॒ऽनीः । अ॒वा॒रतः॑ ।

सा । प्र॒ऽब्रु॒वा॒णा । वरु॑णाय । दा॒शुषे॑ । दे॒वेभ्यः॑ । दा॒श॒त् । ह॒विषा॑ । वि॒वस्व॑ते ॥६

या । गौः । वर्तनिम् । परिऽएति । निःऽकृतम् । पयः । दुहाना । व्रतऽनीः । अवारतः ।

सा । प्रऽब्रुवाणा । वरुणाय । दाशुषे । देवेभ्यः । दाशत् । हविषा । विवस्वते ॥६

“या इयं मदीया “पयः क्षीरादिकं “दुहाना “व्रतनीः आश्रयणपयःप्रदानेन कर्मणो नेत्री “गौः “निष्कृतं संस्कृतं “वर्तनिम् अवासस्थानं यज्ञम् “अवारतः अवरणेन अप्रार्थनेनैव “पर्येति परिगच्छति स्वयमेवागच्छति “प्रबुवाणा मया प्रस्तूयमाना “सा गौः “दाशुषे हविर्दत्तवते “वरुणाय “देवेभ्यः अन्येभ्य इन्द्रादिभ्यश्च “हविषा अन्नेन “विवस्वते देवान् परिचरते मह्यं मां रक्षितुं “दाशत् पयः प्रयच्छतु । ‘दाशृ दाने ' । लेट्यडागमः । यद्वा । गौरिति माध्यमिका वाक् या पय ऊर्जं दुहाना ‘ सा नो मन्द्रेषमूर्जं दुहाना' (ऋ. सं. ८. १००. ११) इत्यादिषु दृष्टत्वात्। तत्परतया पूर्ववद्योज्यम् ॥


दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।

द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥७

दि॒वक्ष॑सः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तस्य॑ । योनि॑म् । वि॒ऽमृ॒शन्तः॑ । आ॒स॒ते॒ ।

द्याम् । स्क॒भि॒त्वी । अ॒पः । आ । च॒क्रुः॒ । ओज॑सा । य॒ज्ञम् । ज॒नि॒त्वी । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥७

दिवक्षसः । अग्निऽजिह्वाः । ऋतऽवृधः । ऋतस्य । योनिम् । विऽमृशन्तः । आसते ।

द्याम् । स्कभित्वी । अपः । आ । चक्रुः । ओजसा । यज्ञम् । जनित्वी । तन्वि । नि । ममृजुः ॥७

“दिवक्षसः स्वतेजसा दिवं व्याप्नुवन्तः । ‘ अक्षू व्याप्तौ । असुनि रूपम् । यद्वा दिवो वोढारः । “अग्निजिह्वाः अग्न्यास्याः । अग्निना हवींषि लिहन्त्यास्वादयन्तीति तन्मुखाः । “ऋतावृधः यज्ञवृद्धा यज्ञस्य वर्धयितारो वा देवाः “ऋतस्य सत्यभूतस्य यज्ञस्य “योनिं स्थानं “विमृशन्तः विचारयन्तः प्रतीक्षमाणाः सन्तः “आसते सर्वत्र तिष्ठन्ति । त इमे “द्यां द्युलोकं “स्कभित्वी स्कभित्वा तां धारयित्वा “ओजसा स्वबलेन “अपः अपेक्षितान्युदकानि “आ “चक्रुः आकुर्वन्ति । ततः “यज्ञं यजनीयं हविश्व “जनित्वी जनयित्वा “तन्वि स्वशरीरे “नि मामृजुः निमृजन्ति नितरामलंकुर्वन्ति । हविर्भक्षयन्तीत्यर्थः ॥


प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयत॒ः समो॑कसा ।

द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥८

प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री । ऋ॒तस्य॑ । योना॑ । क्ष॒य॒तः॒ । सम्ऽओ॑कसा ।

द्यावा॑पृथि॒वी इति॑ । वरु॑णाय । सव्र॑ते॒ इति॒ सऽव्र॑ते । घृ॒तऽव॑त् । पयः॑ । म॒हि॒षाय॑ । पि॒न्व॒तः॒ ॥८

परिऽक्षिता । पितरा । पूर्वजावरी इति पूर्वऽजावरी । ऋतस्य । योना । क्षयतः । सम्ऽओकसा ।

द्यावापृथिवी इति । वरुणाय । सव्रते इति सऽव्रते । घृतऽवत् । पयः । महिषाय । पिन्वतः ॥८

“परिक्षिता परितो निवसन्त्यौ सर्वत्र व्यापिन्यौ “पितरा सर्वेषां मातापितृभूते अत एव “पूर्वजावरी पूर्वं जाते “समोकसा समाननिवासस्थाने एते द्यावापृथिव्यौ “ऋतस्य यज्ञस्य “योना योनौ स्थाने “क्षयतः आहुत्यधिकरणत्वेन निवसतः । हविर्धानरूपे वा क्षियतः । किंच “सव्रते समानकर्मणी ते “महिषाय महते पूज्याय वा “वरुणाय तं यष्टुम् । उपलक्षणमेतत् । अन्यान् देवानपि “घृतवत् क्षरणवत् “पयः उदकं “पिन्वतः सिञ्चतः । उदकेन ह्यन्नं जायते ॥


प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।

दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥९

प॒र्जन्या॒वाता॑ । वृ॒ष॒भा । पु॒री॒षिणा॑ । इ॒न्द्र॒वा॒यू इति॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

दे॒वान् । आ॒दि॒त्यान् । अदि॑तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि॑वासः । दि॒व्यासः॑ । अ॒प्ऽसु । ये ॥९

पर्जन्यावाता । वृषभा । पुरीषिणा । इन्द्रवायू इति । वरुणः । मित्रः । अर्यमा ।

देवान् । आदित्यान् । अदितिम् । हवामहे । ये । पार्थिवासः । दिव्यासः । अप्ऽसु । ये ॥९

“पर्जन्यावाता पर्जन्यावातौ पर्जन्यावायू “वृषभा वृषभौ कामानां सेक्तारौ “पुरीषिणा पुरीषिणौ । पुरीषमुदकम् । कर्तृत्वेन तद्वन्तौ तौ “इन्द्रवायू वरुणादयश्च एते स्वमहिम्ना सर्वत्र वर्तन्ते । वायोः पर्जन्येनेन्द्रेण च तत्कार्यापेक्षया सहोपादानम् । एतान् “आदित्यान् “देवान् “अदितिं तेषां मातरं च “हवामहे अस्मिन् यज्ञे वयमाह्वयामः । किंच "ये देवाः “पार्थिवासः पार्थिवाः पृथिव्यां भवा ये च दिव्या दिवि जाताः “ये च "अप्सु अन्तरिक्षे समुत्पन्नाः तानाह्वयामहे ।।


त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।

बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥१०

त्वष्टा॑रम् । वा॒युम् । ऋ॒भ॒वः॒ । यः । ओह॑ते । दैव्या॑ । होता॑रौ । उ॒षस॑म् । स्व॒स्तये॑ ।

बृह॒स्पति॑म् । वृ॒त्र॒ऽखा॒दम् । सु॒ऽमे॒धस॑म् । इ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽसाः । ऊं॒ इति॑ । ई॒म॒हे॒ ॥१०

त्वष्टारम् । वायुम् । ऋभवः । यः । ओहते । दैव्या । होतारौ । उषसम् । स्वस्तये ।

बृहस्पतिम् । वृत्रऽखादम् । सुऽमेधसम् । इन्द्रियम् । सोमम् । धनऽसाः । ऊं इति । ईमहे ॥१०

हे “ऋभवः । ऋतेन सत्येन भान्तीत्यृभवः । उरु प्रभूतं स्वतेजसा भान्तीति वा । हे मेधाविनः “यः सोमः “स्वस्तये कल्याणाय युष्माकं मदाय त्वष्टृप्रभृतीन् “ओहते । ओहिर्गत्यर्थः । भौवादिकः । आवहति प्राप्नोति । तथा “बृहस्पतिं “सुमेधसं सुप्रज्ञं “वृत्रखादं वृत्रस्यासुरस्य खादितारमिन्द्रं च प्राप्नोति “धनसाः धनं संभजमाना वयम् “इन्द्रियम् इन्द्रजुष्टं तं “सोमम् “ईमहे धनं याचामहे । ईमह इति याच्ञाकर्मा। ‘ ईङ् गतौ । दैवादिकः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्।।१०॥


ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः ।

सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥११

ब्रह्म॑ । गाम् । अश्व॑म् । ज॒नय॑न्तः । ओष॑धीः । वन॒स्पती॑न् । पृ॒थि॒वीम् । पर्व॑तान् । अ॒पः ।

सूर्य॑म् । दि॒वि । रो॒हय॑न्तः । सु॒ऽदान॑वः । आर्या॑ । व्र॒ता । वि॒ऽसृ॒जन्तः॑ । अधि॑ । क्षमि॑ ॥११

ब्रह्म । गाम् । अश्वम् । जनयन्तः । ओषधीः । वनस्पतीन् । पृथिवीम् । पर्वतान् । अपः ।

सूर्यम् । दिवि । रोहयन्तः । सुऽदानवः । आर्या । व्रता । विऽसृजन्तः । अधि । क्षमि ॥११

“ब्रह्म वर्धनसाधनमन्नम् । अन्नेन हि सर्वाः प्रजा वर्धन्ते । “गामश्वम् एतत्प्रभृतीन् पशून् तथा “ओषधीर्वनस्पतीन् च तथा “पृथिवीं विस्तीर्णां भूमिं “पर्वतान् शिलोच्चयान् वृष्ट्या जगदापूरकान् मेघान्वा “अपः उदकानि अन्तरिक्षं वा एतान् “जनयन्त: उत्पादयन्तः किंच “दिवि द्युलोके “सूर्यम् आदित्यं “रोहयन्तः “सुदानवः शोभनदानास्तेऽमी देवाः “अधि “क्षमि । आत इति योगविभागात् (पा. सू. ६.४, १४० ) आकारलोपः । क्षमायां पृथिव्याम् “आर्या श्रेष्ठानि कल्याणानि “व्रता ब्रतानि कर्माणि यागादीनि “विसृजन्तः प्रसारयन्तः सर्वत्र वर्तन्ते । तान् वयं धनं याचामह इति शेषः ॥


भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।

क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥१२

भु॒ज्युम् । अंह॑सः । पि॒पृ॒थः॒ । निः । अ॒श्वि॒ना॒ । श्याव॑म् । पु॒त्रम् । व॒ध्रि॒ऽम॒त्याः । अ॒जि॒न्व॒त॒म् ।

क॒म॒ऽद्युव॑म् । वि॒ऽम॒दाय॑ । ऊ॒ह॒थुः॒ । यु॒वम् । वि॒ष्णा॒प्व॑म् । विश्व॑काय । अव॑ । सृ॒ज॒थः॒ ॥१२

भुज्युम् । अंहसः । पिपृथः । निः । अश्विना । श्यावम् । पुत्रम् । वध्रिऽमत्याः । अजिन्वतम् ।

कमऽद्युवम् । विऽमदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः ॥१२

हे “अश्विना अश्ववन्तौ सर्वं व्याप्नुवन्तौ वैतन्नामकौ हे देवौ “अंहसः उपद्रवकारिणः समुद्रात् “भुज्युं तुग्रपुत्रमेतन्नामानं “निः “पिपृथः निष्पारयथः नितरां रक्षथः । पॄ पालनपूरणयोः । जौहोत्यादिकः। ‘निष्टौग्र्यं पारयथः समुद्रात् ' ( ऋ. सं. १ ०. ११८. ६) इति निगमः । तथा “श्यावं हिरण्यहस्तनामानं “पुत्रं “वध्रिमत्याः एतन्नामिकायाः “अजिन्वतम् अप्रीणयतम् अदत्तम् । ‘ हिरण्यहस्तमश्विना रराणा ' ( ऋ. सं. १. १ १७, ३४ ) इत्यादिनिगमः । तथा “कमद्युवं कामस्य दीपनीं वेनपुत्रीं जायां “विमदाय ऋषये “युवम् ऊहथुः प्रापयथः । 'युवं रथेन विमदाय ' ( ऋ. सं. १०.३९, ७ ) इति निगमः । तथा “विष्णाप्वम् एतन्नामानं विनष्टं पुत्रं “विश्वकाय ऋषये आनीय “अव “सृजथः अदत्तम् । पशुं न नष्टमिव दर्शनाय' ( ऋ. सं. १, ११६, २३ ) इति निगमः ॥


पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒राप॑ः समु॒द्रिय॑ः ।

विश्वे॑ दे॒वास॑ः शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥१३

पावी॑रवी । त॒न्य॒तुः । एक॑ऽपात् । अ॒जः । दि॒वः । ध॒र्ता । सिन्धुः॑ । आपः॑ । स॒मु॒द्रियः॑ ।

विश्वे॑ । दे॒वासः॑ । शृ॒ण॒व॒न् । वचां॑सि । मे॒ । सर॑स्वती । स॒ह । धी॒भिः । पुर॑म्ऽध्या ॥१३

पावीरवी । तन्यतुः । एकऽपात् । अजः । दिवः । धर्ता । सिन्धुः । आपः । समुद्रियः ।

विश्वे । देवासः । शृणवन् । वचांसि । मे । सरस्वती । सह । धीभिः । पुरम्ऽध्या ॥१३

“पावीरवी आयुधवती “तन्यतुः स्तनयित्री वाग्माध्यमिका तथा “दिवः द्युलोकस्य “धर्ता धारयिता “अजः “एकपात् एक एव पद्यते गच्छतीति न जायत इत्येतत्संज्ञको देवः “सिन्धुः च “समुद्रियः । समुद्रमन्तरिक्षम् । तत्र भवाः “आपः च । ‘ समुद्राभ्राद्धः' इति भवार्थे घप्रत्ययः । “विश्वे देवाश्च “धीभिः कर्मभिर्युक्ताः “पुरंध्या बहुविधया प्रज्ञया सहिता “सरस्वती च “मे मदीयानि “वचांसि वक्तव्यानि स्तोत्राणि “शृणवन् शृण्वन्तु । ‘ पविः शल्यो भवति यद्विपुनाति कायम् । ( निरु. १२.३० ) इत्यादि निरुक्तमनुसंधेयम् ।।


विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।

रा॒ति॒षाचो॑ अभि॒षाच॑ः स्व॒र्विद॒ः स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥१४

विश्वे॑ । दे॒वाः । स॒ह । धी॒भिः । पुर॑म्ऽध्या । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।

रा॒ति॒ऽसाचः॑ । अ॒भि॒ऽसाचः॑ । स्वः॒ऽविदः॑ । स्वः॑ । गिरः॑ । ब्रह्म॑ । सु॒ऽउ॒क्तम् । जु॒षे॒र॒त॒ ॥१४

विश्वे । देवाः । सह । धीभिः । पुरम्ऽध्या । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।

रातिऽसाचः । अभिऽसाचः । स्वःऽविदः । स्वः । गिरः । ब्रह्म । सुऽउक्तम् । जुषेरत ॥१४

“धीभिः कर्मभिः सहिताः “पुरंध्या प्रज्ञानेन युक्ताः “मनोः मनुष्यस्य यज्ञे “यजत्राः यष्टव्याः “अमृताः मरणधर्मरहिताः “ऋतज्ञाः सत्यविदः “रातिषाचः दीयमानं हविः सेवमानाः “अभिषाचः आभिमुख्येन यज्ञं समवयन्तः संगतवन्तः “स्वर्विदः सर्वस्य लम्भकाः “विश्वे सर्वे इन्द्रादयः “देवाः “स्वः सर्वाः “गिरः अस्मदीयाः स्तुतीः “ब्रह्म महच्चान्नं “सूक्तं सुष्ठु वक्तव्यं स्तोमं यद्वा सुष्ठु मन्त्रेण सह दत्तमन्नं “जुषेरत सेवन्ताम् । जुषी प्रीतिसेवनयोः । तौदादिकः । अनुदात्तेत् । लिङि झस्य रन्नादेशाभावश्छान्दसः । ‘ बहुलं छन्दसि ' इति रुडागमः ॥


दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।

ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१५

दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।

ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१५

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रऽतस्थुः ।

ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१५

“वसिष्ठः वसिष्ठकुलजोऽयमृषिः “अमृतान् मरणरहितान् “देवान् “ववन्दे एवमस्तावीत् । “ये देवाः “विश्वा विश्वानि भुवनानि लोकान् “अभि “प्रतस्थुः स्वतेजसाभिभवन्ति । अभितः प्रतिष्ठन्तीति वा । प्रपूर्वात्तिष्ठतेर्लिटि रूपम् । समासस्वरः। ते देवाः “अद्य अस्मिन्दिने “नः अस्मभ्यम् “उरुगायं प्रभूतयशस्कमन्नं “रासन्तां प्रयच्छन्तु । हे देवाः “यूयं “स्वस्तिभिः कल्याणीभिरूतिभिः “नः अस्मान् “सदा सर्वदा “पात रक्षत ॥ ॥ ११ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६५&oldid=202549" इत्यस्माद् प्रतिप्राप्तम्