ऋग्वेदः सूक्तं १०.१८४
← सूक्तं १०.१८३ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८४ त्वष्टा गर्भकर्ता, विष्णुर्वा प्राजापत्यः |
सूक्तं १०.१८५ → |
दे. १ विष्णु-त्वष्टृ-प्रजापति-धातारः, २ सिनीवालीसरस्वत्यश्विनः, ३ अश्विनौ । अनुष्टुप् । |
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥१॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥२॥
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥३॥
सायणभाष्यम्
‘ विष्णुः' इति तृचं त्रयस्त्रिशं सूक्तमानुष्टुभम् । गर्भाणां कर्ता त्वष्टा नामर्षिः प्रजापतिपुत्रो विष्णुर्वा । लिङ्गोक्ता विष्णुत्वष्टृप्रजापतिसिनीवालीसरस्वत्यश्विन इति देवताः । तथा चानुक्रान्तं - विष्णुस्त्वष्टा गर्भकर्ता विष्णुर्वा प्राजापत्यो गर्भार्थाशीर्लिङ्गोक्तदैवतमानुष्टुभम् ' इति । लैङ्गिको विनियोगः ॥
विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु ।
आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥ १
विष्णुः॑ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्वष्टा॑ । रू॒पाणि॑ । पिं॒श॒तु॒ ।
आ । सि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भ॑म् । द॒धा॒तु॒ । ते॒ ॥१
विष्णुः । योनिम् । कल्पयतु । त्वष्टा । रूपाणि । पिंशतु ।
आ । सिञ्चतु । प्रजाऽपतिः । धाता । गर्भम् । दधातु । ते ॥१
विष्णुः व्यापको देवः "योनिं गर्भाधानस्थानं "कल्पयतु करोतु । “त्वष्टा तनुकर्ता एतत्संज्ञको देवश्च “रूपाणि निरूपकाणि स्त्रीत्वपुंस्त्वाभिव्यञ्जकानि चिह्नानि “पिंशतु अवयवीकरोतु ॥ ‘ पिश अवयवे । मुचादित्वान्नुम् ॥ एवं प्रक्लृप्तायां योन्यां प्रजापतिः रेतः “आ “सिञ्चतु निषिञ्चतु । विसृजत्वित्यर्थः । “धाता धारको देवो हे जाये "ते तव “गर्भं गर्भरूपेण परिणतं तद्रेतः "दधातु ।। तत्रैव धारयतु । स्रावपातापप्रसवा मा भूवन्नित्यर्थः ॥
गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति ।
गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥ २
गर्भ॑म् । धे॒हि॒ । सि॒नी॒वा॒लि॒ । गर्भ॑म् । धे॒हि॒ । स॒र॒स्व॒ति॒ ।
गर्भ॑म् । ते॒ । अ॒श्विनौ॑ । दे॒वौ । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२
गर्भम् । धेहि । सिनीवालि । गर्भम् । धेहि । सरस्वति ।
गर्भम् । ते । अश्विनौ । देवौ । आ । धत्ताम् । पुष्करऽस्रजा ॥२
हे “सिनीवालि एतत्संज्ञे देवि “गर्भं “धेहि । निषिक्तं गर्भं धारय । हे “सरस्वति त्वं च निषिक्तं गर्भं धारय । हे जाये “पुष्करस्रजा पुष्करमालिनौ स्वर्णकमलाभरणौ “अश्विनौ देव "ते तव "गर्भम् “ “धत्तां प्रक्षिपताम् । कुरुतामित्यर्थः ॥
हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ ।
तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥ ३
हि॒र॒ण्ययी॒ इति॑ । अ॒रणी॒ इति॑ । यम् । निः॒ऽमन्थ॑तः । अ॒श्विना॑ ।
तम् । ते॒ । गर्भ॑म् । ह॒वा॒म॒हे॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥३
हिरण्ययी इति । अरणी इति । यम् । निःऽमन्थतः । अश्विना ।
तम् । ते । गर्भम् । हवामहे । दशमे । मासि । सूतवे ॥३
“हिरण्ययी हिरण्मय्यौ "अरणी "यं गर्भमुद्दिश्य "अश्विना अश्विनौ देवौ "निर्मन्थतः निर्मथितवन्तौ हे जाये "ते तुभ्यं त्वदर्थं “तं “गर्भं "हवामहे आह्वयामहे । “दशमे "मासि "सूतवे प्रसोतुम् ॥ पद्दन् इत्यादिना मासशब्दस्य मास्भावः । सूते: “तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः ॥ ॥४२॥
टिप्पणी
१०.१८४.१ विष्णुर्योनिं कल्पयतु इति
तु. संवत्सरो वा एष यद् अग्निस् तस्य त्रेधाविहिता इष्टकाः प्राजापत्या वैष्णवीः वैश्वकर्मणीः । अहोरात्राण्य् एवास्य प्राजापत्याः । यद् उख्यम् बिभर्ति प्राजापत्या एव तद् उप धत्ते यत् समिध आदधाति वैष्णवा वै वनस्पतयः । वैष्णवीर् एव तद् उप धत्ते यद् इष्टकाभिर् अग्निं चिनोतीयं वै विश्वकर्मा वैश्वकर्मणीर् एव तद् उप धत्ते तस्माद् आहुस् त्रिवृद् अग्निर् इति – तै.सं. ५.६.९.३
मण्डल १० | ||||
---|---|---|---|---|