प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १०.८२

(ऋग्वेद: सूक्तं १०.८२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.८१ ऋग्वेदः - मण्डल १०
सूक्तं १०.८२
विश्वकर्मा भौवनः
सूक्तं १०.८३ →
दे. विश्वकर्मा। त्रिष्टुप्


चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने ।
यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥१॥
विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् ।
तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥२॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥३॥
त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥४॥
परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति ।
कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥५॥
तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥६॥
न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥७॥


सायणभाष्यम्

‘ चक्षुषः' इति सप्तर्चं चतुर्दशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘चक्षुषः' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥


चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।

य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥१

चक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ इति॑ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ ।

य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥१

चक्षुषः । पिता । मनसा । हि । धीरः । घृतम् । एने इति । अजनत् । नम्नमाने इति ।

यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥१

“चक्षुषः चक्षुरुपलक्षितस्येन्द्रियसंघात्मकस्य शरीरस्य “पिता उत्पादयिता । यद्वा । चक्षुः व्यापकं तेजः । तस्योत्पादयिता । “मनसा न हि मत्समोऽस्ति कश्चिदिति बुद्ध्या “हि खलु “धीरः धृष्टो विश्वकर्मा प्रथमं “घृतम् उदकम् “अजनत् अजनयत् । ‘ आपो वा इदमग्रे' (तै. सं. ७. १. ५. १) ‘ अप एव ससर्जादौ ' (मनु. १. ८) इत्यादिश्रुतिस्मृती स्याताम् । पश्चात् “एने द्यावापृथिव्यौ “नम्नमाने तस्मिन्नुदक इतस्ततश्चलन्त्यौ योऽजनयत्। अथ “यदेत् यदैव “अन्ताः पर्यन्तप्रदेशाः “पूर्वे पुराणा द्यावापृथिव्योः संबन्धिनः “अददृहन्त दृढा अभवन् । विश्वकर्मणा दृढाः संपादिता इत्यर्थः । “आदित् अनन्तरमेव “द्यावापृथिवी द्यावापृथिव्यौ “अप्रथेतां यथाकामं प्रथिते अभूताम् ॥


वैश्वकर्मणस्य पशोर्हविष एषानुवाक्या। ‘विश्वकर्मा विमना आद्विहायाः किं स्विदासीदधिष्ठानम् ' ( आश्व. श्रौ. ३. ८) इति सूत्रितम् ॥

वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।

तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥२

वि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् ।

तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥२

विश्वऽकर्मा । विऽमनाः । आत् । विऽहायाः । धाता । विऽधाता । परमा । उत । सम्ऽदृक् ।

तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऽऋषीन् । परः । एकम् । आहुः ॥२

अयं मन्त्रोऽधियज्ञाध्यात्मयोर्भेदेन द्विधा व्याख्येयः । तत्र प्रथमं दैवतमधिकृत्योच्यते । “विश्वकर्मा बहुविधप्रकाशवृष्टिप्रदानादिकर्मणां कर्तादित्यः स च “विमनाः विभूतमनाः । “आत् इत्यनर्थकः सर्वत इत्यर्थे वा । “विहायाः विविधमाप्ता महानित्यर्थः । “धाता वृष्ट्यादिकर्ता च “विधाता जगतः कर्ता व “परमा परमः “संदृक् संद्रष्टा व भूतानाम् । “तेषां सप्तर्षीणाम् । ज्योतिषां रश्मीनामित्यर्थः । चरमपादे वक्ष्यमाणत्वात् । “इष्टानि स्थानानि शरीराणि वा “इषा उदकेन “सं “मदन्ति संमोदन्ते “यत्र यस्मिन्नादित्ये तं देवं “सप्तर्षीन् । सप्तर्षिभ्य इत्यर्थः । तेभ्यः “परः परस्तात् “एकम् एव आदित्यम् “आहुः मन्त्रविदः । अध्यात्मपक्ष उच्यते । विश्वकर्मा यः परमात्मा प्राणप्रकाशाभ्यामुपेतः सन् बहुकर्मा भवति । स च विमना विभूतमना विहाया वस्तुतो महान् विशेषेण सुकृतदुष्कृतफलस्याप्ता धाता विधाता च परमोत संदृक् परमश्च संद्रष्टेन्द्रियाणाम् । तेषां सप्तर्षीणां द्रष्टॄणामिन्द्रियाणामिष्टानि स्वरूपाणीषान्नेन सह सं मदन्ति संमोदन्ते यत्र यस्मिन्नात्मनि तमात्मानं सप्तर्षीन् सप्तसंख्याकेभ्यः सर्पणस्वभावेभ्यो वा परः परस्ताद्वर्तमानमिन्द्रियाद्यतीतमेकं परमात्मानमाहुस्तत्त्वविदः । अत्र विश्वकर्मा विभूतमना व्याप्ता ' ( निरु. १०. २६ ) इत्यादि निरुक्तमनुसंधेयम् ।।


पूर्वोक्त एव पशौ पुरोडाशस्य ‘ यो नः पिता ' इत्येषा याज्या । सूत्रितं च - ‘ यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावमा ' (आश्व. श्रौ. ३. ८) इति ॥

यो न॑ः पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।

यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥३

यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ ।

यः । दे॒वाना॑म् । ना॒म॒ऽधाः । एकः॑ । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । अ॒न्या ॥३

यः । नः । पिता । जनिता । यः । विऽधाता । धामानि । वेद । भुवनानि । विश्वा ।

यः । देवानाम् । नामऽधाः । एकः । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । अन्या ॥३

“यः विश्वकर्मा “नः अस्माकं “पिता पालयिता । न केवलं पालकः किंतु “जनिता उत्पादकः। किमनेनास्माकमुत्पादक इति संकोचेन । “यो “विधाता सर्वस्य जगत उत्पादको यो विश्वकर्मा नोऽस्माकमुत्पन्नानि “धामानि देवानां तेजःस्थानानि “वेद वेत्ति । किं बहुना । “विश्वा विश्वानि “भुवना भूतजातानि वेद वेत्ति । “यः च “देवानाम् अग्निवाय्वादीनां “नामधाः नाम्नां धाता इन्द्रादीन्निर्माय तेषामिन्द्रादि नाम कृत्वा तत्तत्पदेषु स्थापयिता “एक “एव । “तं देवम् “अन्या अन्यानि “भुवना भूतजातानि “प्रश्नं कः परमेश्वर इति पृच्छां “यन्ति प्राप्नुवन्ति ॥


त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑य॒ः पूर्वे॑ जरि॒तारो॒ न भू॒ना ।

अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥४

ते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना ।

अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥४

ते । आ । अयजन्त । द्रविणम् । सम् । अस्मै । ऋषयः । पूर्वे । जरितारः । न । भूना ।

असूर्ते । सूर्ते । रजसि । निऽसत्ते । ये । भूतानि । सम्ऽअकृण्वन् । इमानि ॥४

“ते “पूर्वे “ऋषयः “अस्मै विश्वकर्मणे “द्रविणं चरुपुरोडाशादिलक्षणं धनं “सं सम्यक् “आयजन्त सर्वतो यजन्ते । “जरितारो “न “भूना स्तोतारो यथा भूम्ना महता स्तोत्रेण यजन्ति तद्वत् । “ये महर्षयः “असूर्ते सरणवर्जिते “सूर्ते सरणसहिते स्थावरजङ्गमात्मके “रजसि लोके “निषत्ते निषण्णे निश्चलमवस्थिते “इमानि “भूतानि भुवनानि । प्राणिन इत्यर्थः । “समकृण्वन् सम्यग्धनादिनापूजयन् । अथवायमर्थः । ये स्थावरजङ्गमात्मके जगति वर्तमानानेतान् प्राणिनस्तेजसा समकृण्वन् ते पूर्व ऋषयो द्रष्टारो रश्मयोऽस्मा अदित्यात्मकाय विश्वकर्मणे द्रविणं तेज आयजन्त ।।


प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।

कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥५

प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । यत् । अस्ति॑ ।

कम् । स्वि॒त् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअप॑श्यन्त । विश्वे॑ ॥५

परः । दिवा । परः । एना । पृथिव्या । परः । देवेभिः । असुरैः । यत् । अस्ति ।

कम् । स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअपश्यन्त । विश्वे ॥५

यदीश्वरतत्त्वं “दिवा “परः द्युलोकादपि परस्ताद्वर्तमानं तथा “एना अस्याः “पृथिव्याः “परः परस्ताद्वर्तमानं तथा “देवेभिः देवैः परस्ताद्वर्तमानम् “असुरैः परस्ताद्वर्तमानं च “यदस्ति तद्गुहायामवस्थितं “कं “स्विद्गर्भं गर्भवत्सर्वस्य ग्राहकं तत्त्वम् “आपः “प्रथमं “दध्रे धृतवत्यः । “यत्र यस्मिन् गर्भे “देवाः इन्द्रादयः “विश्वे सर्वेऽपि “समपश्यन्त संगताः परस्परं पश्यन्ति । एवं जानन्नेव कश्चित्तत्त्ववित्प्रश्नं करोति ॥


तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।

अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥६

तम् । इत् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअग॑च्छन्त । विश्वे॑ ।

अ॒जस्य॑ । नाभौ॑ । अधि॑ । एक॑म् । अर्पि॑तम् । यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥६

तम् । इत् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअगच्छन्त । विश्वे ।

अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः ॥६

अनया पूर्वमन्त्रोक्तस्य प्रश्नस्योत्तरमभिधीयते । “तमित् तमेव विश्वकर्माणं “गर्भं गर्भस्थानीयं “प्रथमम् इतरसृष्टेः पूर्वम् "आपः “दध्रे धृतवत्यः । “यत्र गर्भे विश्वे सर्वे “देवाः इन्द्रादयः “समगच्छन्त संगता भवन्ति । तस्य “अजस्य “नाभावधि नाभौ । अधीति सप्तम्यर्थानुवादी । “एकमर्पितम् इत्यण्डाभिप्रायेणोक्तम् । अण्डं हि प्राक्सर्गान्नाभिस्थाने तिष्ठति । “यस्मिन् अण्डे “विश्वानि “भुवनानि सर्वाणि भूतजातानि “तस्थुः तिष्ठन्ति । अथवा । अजस्य जन्मरहितस्य ब्रह्मणः स्वसृष्टे जले शयानस्य नाभौ सर्वजगद्बन्धक उदक एकं ब्रह्माण्डमर्पितं स्थापितम्। शिष्टं समानम् । अथास्मिन्नर्थे स्मृतिः - ‘ अप एव ससर्जादौ तासु वीर्यमवाकिरत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ' (मनु. १.८-९ ) इति ।


न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।

नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥७

न । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ ।

नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशसः॑ । च॒र॒न्ति॒ ॥७

न । तम् । विदाथ । यः । इमा । जजान । अन्यत् । युष्माकम् । अन्तरम् । बभूव ।

नीहारेण । प्रावृताः । जल्प्या । च । असुऽतृपः । उक्थऽशसः । चरन्ति ॥७

हे नराः “तं विक्षकर्माणं “न “विदाथ न जानीथ “य “इमा इमानि भूतानि “जजान उत्पादितवान्' । देवदत्तोऽहं यज्ञदत्तोऽहमिति वयमात्मानं विश्वकर्माणं जानीम इति यदुच्येत तदसत् न ह्यहंप्रत्ययगम्यं जीवरूपं विश्वकर्मणः परमेश्वरस्य तत्त्वं किंतु “युष्माकम् अहंप्रत्ययगम्यानां जीवानाम् “अन्तरम् “अन्यत् अहंप्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमीश्वरतत्त्वं “बभूव भवति विद्यते । जीवरूपवत्तदपि कुतो न विद्म इति चेत् श्रूयताम् । “नीहारेण “प्रावृताः यूयं नीहारसदृशेनाज्ञानेनाच्छन्नाः। अतो न जानीथ । यथा नीहारो नात्यन्तमसन् दृष्टेरावरकत्वात नाप्यत्यन्तं सन् काष्ठपाषाणादिरूपान्तरेण संबद्धुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसदीश्वरतत्त्वावरकत्वात् नापि सत् बोधमात्रनिवर्त्यत्वात् । ईदृशेनाज्ञानेन भवन्तः सर्वे जीवा: प्रावृताः । न केवलं प्रावृतत्वं किंतु “जल्प्या “च देवोऽहं मनुष्योहमित्याद्यनृतजल्पनेन प्रावृताः । किंच “असुतृपः केनाप्युपायेन असून्प्राणांस्तृप्यन्तः । उदरंभरा इत्यर्थः । न तु पारमेश्वरं तत्त्वं विचारितवन्तः । न केवलमिहलोकभोगमात्रतृप्ताः “उक्थशासः नानाविधेषु यज्ञेषु उक्थं प्रउगनिष्केवल्यादिकं शंसन्तः “चरन्ति पृथिव्यां वर्तन्ते । केवलमैहिकामुष्मिकभोगपरा वर्तध्वेऽतो विश्वकर्माणं देवं न जानीथेत्यर्थः ॥ ॥ १७ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८२&oldid=202716" इत्यस्माद् पुनः प्राप्तिः