ऋग्वेदः सूक्तं १०.७०

(ऋग्वेद: सूक्तं १०.७० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.६९ ऋग्वेदः - मण्डल १०
सूक्तं १०.७०
सुमित्रो वाध्र्यश्वःऐन्द्रो विमदः, प्राजापत्यो वा,वासुक्रो वसुकृद्वा।
सूक्तं १०.७१ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ नराशंसः, ३ इळा, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, 8 तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः) । त्रिष्टुप्


इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् ।
वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥१॥
आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः ।
ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥२॥
शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् ।
वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता ॥३॥
वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे ।
अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवान् ॥४॥
दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् ।
उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम् ॥५॥
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ ।
आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥६॥
ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे ।
पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥७॥
तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वः स्योनम् ।
मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त ॥८॥
देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः ।
स देवानां पाथ उप प्र विद्वाँ उशन्यक्षि द्रविणोदः सुरत्नः ॥९॥
वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् ।
स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥१०॥
आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् ।
सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥११॥


सायणभाष्यम्

‘ इमां मे ' इत्येकादशर्चं द्वितीयं सूक्तं वाध्र्यश्वस्य सुमित्रस्यार्षं त्रैष्टुभम् । तनूनपाद्वर्जिताः सनराशंसाः समिदादयः प्रत्यृचं देवताः । तथा चानुक्रान्तं -- ‘ इमां म एकादशाप्रम् ' इति । वध्र्यश्वगोत्राणां पशाविदमाप्रीसूक्तम् । सूत्रितं च----‘समिद्धो अद्येति सर्बेषां यथर्षि वा ' ( आश्व. श्रौ. ३. ३ ) इति ।।


इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् ।

वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥१

इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् ।

वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥१

इमाम् । मे । अग्ने । सम्ऽइधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् ।

वर्ष्मन् । पृथिव्याः । सुदिनऽत्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इति सुऽक्रतो । देवऽयज्या ॥१

हे “अग्ने “इळस्पदे इळायास्पदे । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः' (ऐ. ब्रा. १. २८ ) इति ब्राह्मणम् । उत्तरवेद्याम् “इमां “मे मदीयां “समिधं “जुषस्व सेवस्व । तथा “घृताचीं घृतमञ्चन्तीं स्रुचं “प्रति “हर्य प्रतिकामयस्व । किंच हे “सुक्रतो सुप्रज्ञ “पृथिव्याः “वर्ष्मन् वर्ष्मणि समुच्रिस्ते पूर्वोक्ते देशे “अह्नां “सुदिनत्वे तन्निमित्तं “देवयज्या देवयागेन हेतुना “ऊर्ध्वः ज्वालाभिरुन्नतः “भव ।


आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वै॑ः ।

ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥२

आ । दे॒वाना॑म् । अ॒ग्र॒ऽयावा॑ । इ॒ह । या॒तु॒ । नरा॒शंसः॑ । वि॒श्वऽरू॑पेभिः । अश्वैः॑ ।

ऋ॒तस्य॑ । प॒था । नम॑सा । मि॒येधः॑ । दे॒वेभ्यः॑ । दे॒वऽत॑मः । सु॒सू॒द॒त् ॥२

आ । देवानाम् । अग्रऽयावा । इह । यातु । नराशंसः । विश्वऽरूपेभिः । अश्वैः ।

ऋतस्य । पथा । नमसा । मियेधः । देवेभ्यः । देवऽतमः । सुसूदत् ॥२

“देवानामग्रयावा अग्रे गन्ता “नराशंसः । ' उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । नरैः शंसनीय एतन्नामकोऽग्निः “विश्वरूपेभिः नानारूपैः “अश्वैः रोहिदाख्यैः सह “इह अस्मिन् यज्ञे “आ “यातु । आगत्य च “मियेधः मेध्यो यज्ञहितः स्तुतियोग्यो वा “देवतमः देवानां मुख्यः सोऽग्निः हविर्नयनयोग्येन “ऋतस्य यज्ञस्य “पथा मार्गेण “नमसा स्तोत्रेण सह “देवेभ्यः इन्द्रादिभ्यः “सुषूदत् हविः प्रेरयतु ॥


श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् ।

वहि॑ष्ठै॒रश्वै॑ः सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥३

श॒श्व॒त्ऽत॒मम् । ई॒ळ॒ते॒ । दू॒त्या॑य । ह॒विष्म॑न्तः । म॒नु॒ष्या॑सः । अ॒ग्निम् ।

वहि॑ष्ठैः । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । आ । दे॒वान् । व॒क्षि॒ । नि । स॒द॒ । इ॒ह । होता॑ ॥३

शश्वत्ऽतमम् । ईळते । दूत्याय । हविष्मन्तः । मनुष्यासः । अग्निम् ।

वहिष्ठैः । अश्वैः । सुऽवृता । रथेन । आ । देवान् । वक्षि । नि । सद । इह । होता ॥३

“शश्वत्तमम् अत्यन्तं नित्यम् “अग्निं “हविष्मन्तः संभृतहविष्काः “मनुष्यासः मनुष्याः यजमानाः “दूत्याय। ‘दूतस्य भागकर्मणी ' इति यत्प्रत्ययः । दूतकर्मणे हविर्वहनलक्षणाय तन्निमित्तम् “ईळते स्तुवन्ति । स त्वमेवं स्तुतः “वहिष्ठैः वोढृतमैः “अश्वैः “सुवृता सुवर्तनेन “रथेन च सह “देवान् इन्द्रादीन “आ “वक्षि अस्मदीयं यज्ञं प्रत्यावह प्रापय । ततस्त्वं “होता भवन् “इह अस्मिन् यज्ञे “नि “षद निषीद ॥


वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।

अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥४

वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ ।

अहे॑ळता । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥४

वि । प्रथताम् । देवऽजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति ।

अहेळता । मनसा । देव । बर्हिः । इन्द्रऽज्येष्ठान् । उशतः । यक्षि । देवान् ॥४

हे बर्हिर्नामकाग्ने “देवजुष्टं देवैः सेवितं “तिरश्चा तिरश्चीनं तिर्यगञ्चनमिदं बर्हिः “वि “प्रथतां विशेषेण विस्तृतं भवतु । तथा “दीर्घं चेदं “द्राघ्मा द्वाघिम्ना । दीर्घशब्दस्येमनिचि ‘प्रियस्थिर इत्यादिना द्राघिरादेशः । अकारस्येकारो वर्णव्यापत्त्या । पश्चादल्लोपः । द्राघिम्ना युक्तं भवतु । “अस्मे अस्मदीयं बर्हिः “सुरभि सोमादिहविर्निधानेन सुगन्धं “भूतु भवतु । हे “देव द्योतमान हे “बर्हिः एतन्नामकाग्ने “अहेळता । हेल इति क्रोधनाम । अक्रुध्यता “मनसा “उशतः हवींषि कामयमानान् “इन्द्रज्येष्ठान् इन्द्रप्रधानान् “देवान् “यक्षि यज पूजय ॥


दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् ।

उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥५

दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् ।

उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥५

दिवः । वा । सानु । स्पृशत । वरीयः । पृथिव्या । वा । मात्रया । वि । श्रयध्वम् ।

उशतीः । द्वारः । महिना । महत्ऽभिः । देवम् । रथम् । रथऽयुः । धारयध्वम् ॥५

हे “द्वारः एतन्नामधेया देव्यः यूयं “दिवो “वा । वाशब्दश्चार्थे । दिवश्च “सानु समुच्छ्रितं “वरीयः उरुतरं स्थानं “स्पृशत उन्नता भवतेत्यर्थः । ‘ चवायोगे प्रथमा ' इति न निघातः । “पृथिव्याः च यावती मात्रास्ति तावत्या “मात्रया “वि “श्रयध्वं विस्तृता भवत । "उशतीः देवान् कामयमाना यूयं “रथयुः । ‘सुपां सुलुक्° ' इति जसः सुः । रथकामाः सत्यः “महिना महिम्ना महद्भिः देवैरधिष्ठितम् अत एव “देवं द्योतमानं “रथं रमणसाधनं “धारयध्वं धारयत ॥ ॥२१॥


दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।

आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥६

दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।

आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥६

देवी इति । दिवः । दुहितरा । सुशिल्पे इति सुऽशिल्पे । उषसानक्ता । सदताम् । नि । योनौ ।

आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगे इति सुऽभगे । उपऽस्थे ॥६

“देवी द्योतमाने “दिवः द्युलोकस्य “दुहितरा दुहितरौ “सुशिल्पे शोभनरूपे “उषासानक्ता उषाश्च नक्तं चाहोरात्रौ “योनौ यज्ञस्य स्थाने “नि “सदताम् निषीदताम् । हे “उशती उशत्यौ कामयमाने है “सुभगे शोभनधने हे देव्यौ “वां युवयोः “उरौ विस्तीर्णे “उपस्थे समीपस्थे स्थाने “उशन्तः हवींषि कामयमानाः “देवासः देवाः “आ “सीदन्तु उपविशन्तु ॥


ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।

पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥७

ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ ।

पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥७

ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्ऽइद्धः । प्रिया । धामानि । अदितेः । उपऽस्थे ।

पुरःऽहितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुःऽतरा । द्रविणम् । आ । यजेथाम् ॥७

“ग्रावा सोमाभिषवाय यदा “ऊर्ध्वः उन्नतो भवति यदा च “बृहत् महान् “अग्निः “समिद्धः हविर्भिः सम्यग्दीप्तो भवति तथा प्रियाणि देवानां सोमादिहविष्प्रदानेन प्रीणयितॄणि “धामानि हविषां धारकाणि यज्ञपात्राणि “अदितेः पृथिव्याः “उपस्थे यज्ञसदने यदासादितानि भवन्ति तदानीं हे ऋत्विजौ दैव्यौ “पुरोहितौ होतारौ पुरतो निहितौ “विदुष्टरा। छान्दसं संप्रसारणम् । विद्वत्तमौ युवाम् “अस्मिन् “यज्ञे “द्रविणं धनम् “आ “यजेथाम् । यजिर्दानार्थः । अस्मभ्यमाभिमुख्येन प्रयच्छतम् ।।


तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा व॑ः स्यो॒नम् ।

म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ॥८

तिस्रः॑ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी॑यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् ।

म॒नु॒ष्वत् । य॒ज्ञम् । सुऽधि॑ता । ह॒वींषि॑ । इळा॑ । दे॒वी । घृ॒तऽप॑दी । जु॒ष॒न्त॒ ॥८

तिस्रः । देवीः । बर्हिः । इदम् । वरीयः । आ । सीदत । चकृम । वः । स्योनम् ।

मनुष्वत् । यज्ञम् । सुऽधिता । हवींषि । इळा । देवी । घृतऽपदी । जुषन्त ॥८

हे तिस्रो “देवीः इळाद्यास्तिस्रो देव्यः “वरीयः उरुतरम् “इदं “बर्हिः “आ “सीदत । कालाध्वनोः° ' इति द्वितीया । अत्यन्तं तस्मिन्निषीदत । कुत एतत् तत्राह । “वः युष्मदर्थं “स्योनं विस्तीर्णमिदं “चकृम वयं कृतवन्तः । वाक्यभेदादनिघातः। “इळा एतन्नामिका “देवी द्योतमाना सरस्वती “घृतपदी दीप्तपदोपेता भारती च एताः “मनुष्वत् मनोर्यज्ञे यथा हवींष्यसेवन्त तद्वदस्मदीयं “यज्ञं “सुधिता सुष्ठु निहितानि “हवींषि च “जुषन्त सेवन्ताम् ।


त्वाष्ट्रस्य पशोर्वपायागस्य ‘ देव त्वष्टः' इति याज्या । सूत्रितं च -- देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधा: ' ( आश्व. श्रौ. ३. ८) इति ।।

देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः ।

स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्न॑ः ॥९

देव॑ । त्व॒ष्टः॒ । यत् । ह॒ । चा॒रु॒ऽत्वम् । आन॑ट् । यत् । अङ्गि॑रसाम् । अभ॑वः । स॒चा॒ऽभूः ।

सः । दे॒वाना॑म् । पाथः॑ । उप॑ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒ऽदः॒ । सु॒ऽरत्नः॑ ॥९

देव । त्वष्टः । यत् । ह । चारुऽत्वम् । आनट् । यत् । अङ्गिरसाम् । अभवः । सचाऽभूः ।

सः । देवानाम् । पाथः । उप । प्र । विद्वान् । उशन् । यक्षि । द्रविणःऽदः । सुऽरत्नः ॥९

हे “देव “त्वष्टः एतनामक त्वं “यत् “चारुत्वं हविर्भिः कल्याणरूपत्वम् “आनट् प्राप्तवानसि ।। अश्नोतेर्लिटि तप्रत्ययस्य लुक् । “यत् च त्वम् “अङ्गिरसाम् अस्माकं “सचाभूः सहभावी सहायः “अभवः । हे “द्रविणोदः धनस्य दातः अत एव “सुरत्नः सुधनः “सः त्वम् “उशन् हवींषि कामयमानः सन् “विद्वान् अस्येदमस्येदमिति प्रजानन् “देवानां “पाथः अन्नम् “उप “यक्षि उपयज । तेभ्यः प्रयच्छ ।


वनस्पतिस्तोमे निष्केवल्ये ‘ वनस्पते रशनया ' इत्येष सूक्तमुखीया । सूत्रित च----- देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः ' ( आश्व. श्रौ. ९. ५ ) इति ।।

वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् ।

स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥१०

वन॑स्पते । र॒श॒नया॑ । नि॒ऽयूय॑ । दे॒वाना॑म् । पाथः॑ । उप॑ । व॒क्षि॒ । वि॒द्वान् ।

स्वदा॑ति । दे॒वः । कृ॒णव॑त् । ह॒वींषि॑ । अव॑ताम् । द्यावा॑पृथि॒वी इति॑ । हव॑म् । मे॒ ॥१०

वनस्पते । रशनया । निऽयूय । देवानाम् । पाथः । उप । वक्षि । विद्वान् ।

स्वदाति । देवः । कृणवत् । हवींषि । अवताम् । द्यावापृथिवी इति । हवम् । मे ॥१०

हे “वनस्पते वनस्पतिविकार यूप “विद्वान् जानानस्त्वं “रशनया रज्ज्वा “नियूय बद्ध्वा परिव्याय “पाथः अन्नं “देवानाम् इन्द्रादीनाम् “उप “वक्षि उपवह प्रापय । ततः "देवः वनस्पतिः “स्वदाति हविष्प्रापणेन स्वदयतु । तथा “हवींषि अस्माभिर्दत्तानि “कृणवत् देवानां करोतु । तथा “मे मदीयं “हवं देवविषयाह्वानं “द्यावापृथिवी द्यावापृथिव्यौ “अवतां रक्षताम् ॥


आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् ।

सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्रा॒ः स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥११

आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् ।

सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥११

आ । अग्ने । वह । वरुणम् । इष्टये । नः । इन्द्रम् । दिवः । मरुतः । अन्तरिक्षात् ।

सीदन्तु । बर्हिः । विश्वे । आ । यजत्राः । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥११

हे “अग्ने त्वं “नः अस्माकम् “इष्टये यागाय “इन्द्रं “वरुणं च “मरुतः च “दिवः द्युलोकात् “अन्तरिक्षात् च अस्मदीयं यज्ञम् “आ “वह प्रापय । आगतास्ते “यजत्राः यष्टव्याः “विश्वे सर्वे “देवाः “बर्हिः “आ “सीदन्तु तत्रासन्ना भवन्तु । ततः “अमृताः मरणधर्मरहिताः “देवाः “स्वाहा स्वाहाकारेण दत्तैर्हविर्भिः "मादयन्ताम् आत्मानं मादयन्तु ॥ ॥ २२ ॥


टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७०&oldid=243916" इत्यस्माद् प्रतिप्राप्तम्