ऋग्वेदः सूक्तं १०.६२

(ऋग्वेद: सूक्तं १०.६२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.६१ ऋग्वेदः - मण्डल १०
सूक्तं १०.६२
नाभानेदिष्ठो मानवः
सूक्तं १०.६३ →
दे. विश्वे देवाः, १-६ अङ्गिरसो वा, ८-११ सावर्णेर्दानम्। जगती, ५,८,९ अनुष्टुप्, प्रगाथ- - ६ बृहती, 7 सतोबृहती, १० गायत्री, ११ त्रिष्टुप्


ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश ।
तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥१॥
य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् ।
दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥२॥
य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि ।
सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥३॥
अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन ।
सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥४॥
विरूपास इदृषयस्त इद्गम्भीरवेपसः ।
ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥५॥
ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि ।
नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥६॥
इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् ।
सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥७॥
प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।
यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥८॥
न तमश्नोति कश्चन दिव इव सान्वारभम् ।
सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥९॥
उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।
यदुस्तुर्वश्च मामहे ॥१०॥
सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा ।
सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् ॥११॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्याय प्रथमं विद्वानष्टमस्याष्टकस्य सः ।

अध्यायं सायणामात्यो द्वितीयं व्याचिकीर्षति ।।

तत्र ‘ ये यज्ञेन' इत्येकादशर्चमनुवाकापेक्षया द्वितीयं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षम् । आदितश्चतस्रो जगत्यः । पञ्चम्यनुष्टुप् । षष्ठी बृहती। सप्तमी सतोबृहती । अष्टमीनवम्यावनुष्टुभौ । दशमी गायत्री । एकादशी त्रिष्टुप् । आदितः षण्णां विश्वे देवा अङ्गिरसो वा देवता । सप्तमी वैश्वदेवी । अष्टम्याद्यासु चतसृषु सावर्णेर्महाराजस्य दानं स्तूयते । अतस्तास्तद्देवताकाः । तथा चानुक्रम्यते---- ‘ ये यज्ञेनैकादशाद्याः षळङ्गिरसां स्तुतिर्वान्त्या त्रिष्टुप्पञ्चम्यनुष्टुप्प्रगाथोऽनुष्टुभौ गायत्री चतस्रोऽन्त्याः सावर्णेर्दानस्तुतिः' इति । षष्ठेऽहनि वैश्वदेवशस्त्र एतत्सूक्तम् । सूत्रितं च -- ' इदमित्था रौद्रमिति प्रागुपोत्तमाया ये यज्ञेनेत्यावपते ' ( आश्व. श्रौ. ८. १ ) इति ॥


ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श ।

तेभ्यो॑ भ॒द्रम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥१

ये । य॒ज्ञेन॑ । दक्षि॑णया । सम्ऽअ॑क्ताः । इन्द्र॑स्य । स॒ख्यम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श ।

तेभ्यः॑ । भ॒द्रम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥१

ये । यज्ञेन । दक्षिणया । सम्ऽअक्ताः । इन्द्रस्य । सख्यम् । अमृतऽत्वम् । आनश ।

तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥१

नाभानेदिष्ठः स्वपित्रा मनुनाभ्यनुज्ञातः सत्रमासीनानङ्गिरसोऽभ्येत्य मां प्रतिगृह्णीत युष्मभ्यं यज्ञं प्रज्ञापयामीति यदुक्तवान् तदुच्यते । इतिहासस्तु इदमित्थेति पूर्वसूक्ते ' नाभानेदिष्ठं शंसति नाभानेदिष्ठं वै मानवम्' ( ऐ. ब्रा. ५. १४ ) इति ब्राह्मणानुसारेण ‘ मनुः पुत्रेभ्यो दायं व्यभजत् ' ( तै. सं. ३. १. ९. ४ ) इति तैत्तिरीयब्राह्मणानुसारेण च सप्रपञ्चमभिहितः । तथा चास्या ऋचोऽयमर्थः । “यज्ञेन यजनीयेन हविषा “दक्षिणया ऋत्विग्भ्यो देयया “समक्ताः संगताः “ये अहीनैकाहसत्राणि कुर्वन्तो यूयम् “इन्द्रस्य “सख्यं सखिकर्म अत एव “अमृतत्वम् अमरणधर्मं देवत्वम् “आनश आनशिध्वे प्राप्ताः स्थ । अश्नोतेर्लिटि मध्यमे व्यत्ययेन बहुवचनम् । ‘अश्नोतेश्च' इति नुडागमः । यद्वृत्तयोगादनिघातः । हे “अङ्गिरसः “तेभ्यः “वः युष्मभ्यं “भद्रं कल्याणं कर्म “अस्तु । हे “सुमेधसः सुप्रज्ञा हे अङ्गिरसः ते यूयमिदानीमागत “मानवं मनोः पुत्रं मां “प्रति “गृभ्णीत प्रतिगृह्णीत । मयि प्रतिगृहीते सति यज्ञं साधु करिष्यामीति तदर्थं प्रतिगृह्णीत ॥


य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभि॑न्दन्परिवत्स॒रे व॒लम् ।

दी॒र्घा॒यु॒त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥२

ये । उ॒त्ऽआज॑न् । पि॒तरः॑ । गो॒ऽमय॑म् । वसु॑ । ऋ॒तेन॑ । अभि॑न्दन् । प॒रि॒व॒त्स॒रे । व॒लम् ।

दी॒र्घा॒यु॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥२

ये । उत्ऽआजन् । पितरः । गोऽमयम् । वसु । ऋतेन । अभिन्दन् । परिवत्सरे । वलम् ।

दीर्घायुऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥२

हे “अङ्गिरसः “पितरः अस्माकं पूर्वजत्वेन पितृभूताः “ये यूयं “गोमयं गवात्मकं पणिभिरपहृतं “वसु धनम् “उदाजन् तैरधिष्ठितात्पर्वतादुदगमयन् । किंच “ऋतेन सत्यभूतेन यज्ञेन “परिवत्सरे पर्यागते वत्सरे संपूर्णे । सत्रान्त इत्यर्थः । तत्र “वलं वलनामानं गवामपहर्तारमसुरम् “अभिन्दन् व्यनाशयन् तेभ्यः “वः युष्मभ्यं “दीर्घायुत्वं प्रभूतजीवनम् “अस्तु । शेषं पूर्ववत् ॥


य ऋ॒तेन॒ सूर्य॒मारो॑हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि ।

सु॒प्र॒जा॒स्त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥३

ये । ऋ॒तेन॑ । सूर्य॑म् । आ । अरो॑हयन् । दि॒वि । अप्र॑थयन् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ।

सु॒प्र॒जाः॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥३

ये । ऋतेन । सूर्यम् । आ । अरोहयन् । दिवि । अप्रथयन् । पृथिवीम् । मातरम् । वि ।

सुप्रजाःऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥३

हे “अङ्गिरसः “ये भवन्तः “ऋतेन सत्यभूतेन यज्ञेन “दिवि द्युलोके “सूर्यं सुष्ठु सर्वस्य प्रेरकमादित्यम् “आरोहयन् अस्थापयन् किंच “मातरं सर्वेषां निर्मात्रीं “पृथिवीं “वि “अप्रथयन् प्रसिद्धामकुर्वन् सत्रादिकर्मकरणेन तेभ्यः युष्मभ्यं “सुप्रजास्त्वं सुपुत्रत्वम् “अस्तु ॥ ‘ नित्यमसिच् प्रजामेधयोः' इत्यसिच् समासान्तः । तस्माद्भावप्रत्ययः ॥


अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन ।

सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥४

अ॒यम् । नाभा॑ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव॑ऽपुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ ।

सु॒ऽब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥४

अयम् । नाभा । वदति । वल्गु । वः । गृहे । देवऽपुत्राः । ऋषयः । तत् । शृणोतन ।

सुऽब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥४

हे “देवपुत्राः देवानां पुत्रा अग्नेः पुत्राः “ऋषयः अतीन्द्रियार्थस्य द्रष्टारो हे “अङ्गिरसः "अयं “नाभा नाभानेदिष्ठः पुरोवर्ती जनः “वः युष्माकं “गृहे गृहभूते यज्ञे “वल्गु कल्याणं वचः “वदति । “तत् वाक्यं यूयं “शृणोतन महतादरेण शृणुत । श्रु श्रवणे' । ' तप्तनप्तनथनाश्च' इति तनबादेशः । तेभ्यो युष्मभ्यं “सुब्रह्मण्यं शोभनं ब्रह्मवर्चसम् “अस्तु । इदानीमागतं "मानवं मां “प्रति “गृभ्णीत प्रतिगृह्णीत ॥


विरू॑पास॒ इदृष॑य॒स्त इद्ग॑म्भी॒रवे॑पसः ।

ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥५

विऽरू॑पासः । इत् । ऋष॑यः । ते । इत् । ग॒म्भी॒रऽवे॑पसः ।

ते । अङ्गि॑रसः । सू॒नवः॑ । ते । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे॒ ॥५

विऽरूपासः । इत् । ऋषयः । ते । इत् । गम्भीरऽवेपसः ।

ते । अङ्गिरसः । सूनवः । ते । अग्नेः । परि । जज्ञिरे ॥५

परोक्षतयर्षिराह । “ऋषयः कर्मणां द्रष्टार एत ऋषयः “विरूपास “इत् अन्योन्यं वर्णतो रूपतश्च नानारूपा भवन्ति । “त “इत् त एवामी अङ्गिरसः “गम्भीरवेपसः । वेप इति कर्मनाम । गम्भीरकर्माणो भवन्ति । “ते इमे “अङ्गिरसः “सूनवः पुत्राः खलु । तदेवाह । “ते इमे अङ्गिरसः “अग्नेः “परि “जज्ञिरे सर्वतो जाताः प्रादुर्भूताः । ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्' (ऐ. ब्रा. ३. ३४) इति ब्राह्मणम् । अत्र निरुक्तं च द्रष्टव्यम् ( निरु. ३. १७ ) ॥ ॥ १ ॥


ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ ।

नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तमो॒ सचा॑ दे॒वेषु॑ मंहते ॥६

ये । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे । विऽरू॑पासः । दि॒वः । परि॑ ।

नव॑ऽग्वः । नु । दश॑ऽग्वः । अङ्गि॑रःऽतमः । सचा॑ । दे॒वेषु॑ । मं॒ह॒ते॒ ॥६

ये । अग्नेः । परि । जज्ञिरे । विऽरूपासः । दिवः । परि ।

नवऽग्वः । नु । दशऽग्वः । अङ्गिरःऽतमः । सचा । देवेषु । मंहते ॥६

“विरूपासः विविधरूपाः “ये अङ्गिरसः “दिवस्परि द्युलोकात् “अग्नेः “परि “जज्ञिरे परितो जाताः । यद्वा । दिवस्परि। परिः पञ्चम्यर्थद्योतकः । स्वतेजसा दीप्यमानादग्नेर्जाताः । तेषां मध्ये “नवग्वः “दशग्वः च “अङ्गिरस्तमः अङ्गिरसां वरिष्ठः । सत्रमासीनानामङ्गिरसां मध्ये केचन नवसु मास्सु कर्मं कृत्वोदतिष्ठन् केचन दशसु मास्स्वित्येवमङ्गिरसामयनमुक्तम् । तेषामग्निर्नवग्वश्च दशग्वश्चोक्तः । तादृशः “देवेषु "सचा सहावस्थितः सोऽग्निः “मंहते मह्यं धनं प्रयच्छति । मंहतिर्दानकर्मा ॥


इन्द्रे॑ण यु॒जा निः सृ॑जन्त वा॒घतो॑ व्र॒जं गोम॑न्तम॒श्विन॑म् ।

स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्य१॒॑ः श्रवो॑ दे॒वेष्व॑क्रत ॥७

इन्द्रे॑ण । यु॒जा । निः । सृ॒ज॒न्त॒ । वा॒घतः॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

स॒हस्र॑म् । मे॒ । दद॑तः । अ॒ष्ट॒ऽक॒र्ण्यः॑ । श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥७

इन्द्रेण । युजा । निः । सृजन्त । वाघतः । व्रजम् । गोऽमन्तम् । अश्विनम् ।

सहस्रम् । मे । ददतः । अष्टऽकर्ण्यः । श्रवः । देवेषु । अक्रत ॥७

"वाघतः कर्मणां वोढारो विश्वे देवा अङ्गिरसो वा “इन्द्रेण “युजा सहायेन “निः “सृजन्त निरगमयन् । किम् । “गोमन्तं गोयुक्तम् “अश्विनम् अश्ववन्तं पणिभिरवरुद्धं “व्रजम् । ते “मे मां प्रति “सहस्रं सहस्रसंख्याकं धनं सत्रपरिवेषणम् “अष्टकर्ण्यः । अष्ट इति ‘ अशू व्याप्तौ' निष्ठायां रूपम् । विस्तृतकर्णाः । उपलक्षणमेतत् । व्याप्तसर्वावयवा गाश्च “ददतः मह्यं प्रयच्छन्तः “देवेषु इन्द्रादिषु “श्रवः हविर्लक्षणमन्नं कीर्तिं वा “अक्रत अकृषत । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । एवं नाभानेदिष्ठेनाङ्गिरसः स्तुतास्तस्मै धनं प्रादुः । तदुक्तं शौनकेन -‘ऋषयोऽङ्गिरसस्तुष्टा यद्ददुर्मानवाय तु । तत्पुण्याय च कर्माणि ये यज्ञेनेत्यकीर्तयत् ॥


उत्तराभिश्चतसृभिरस्मै मानवायर्षये सावर्णिना यद्दत्तं तत्प्रशस्यते । तदप्युक्तं शौनकेन -- ‘सावर्णिना च यद्दत्तं मानवाय महद्वसु । तदुक्तं सूक्तशेषेण प्र नूनं जायतामिति ॥

प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु ।

यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥८

प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः॑ । तोक्म॑ऽइव । रो॒ह॒तु॒ ।

यः । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥८

प्र । नूनम् । जायताम् । अयम् । मनुः । तोक्मऽइव । रोहतु ।

यः । सहस्रम् । शतऽअश्वम् । सद्यः । दानाय । मंहते ॥८

“अयं सावर्णिः “मनुः "नूनं क्षिप्रं “प्र “जायतां प्रजातो भवतु । धनादिभिः पुत्रादिभिश्च “रोहतु प्रादुर्भवतु । तत्र दृष्टान्तः । “तोक्मेव । यथा जलक्लिन्नं बीजं प्रादुर्भवति एवं कर्मफलसंयुक्तः स मनुः पुत्रादिभिः रोहतु । “यः अयं मनुः “शताश्वं बह्वश्वसंयुक्तं “सहस्रं गवां “सद्यः तदानीमेव “दानाय “मंहते अस्मा ऋषये दातुं प्रेरयति ॥


न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ॑म् ।

सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ॥९

न । तम् । अ॒श्नो॒ति॒ । कः । च॒न । दि॒वःऽइ॑व । सानु॑ । आ॒ऽरभ॑म् ।

सा॒व॒र्ण्यस्य॑ । दक्षि॑णा । वि । सिन्धुः॑ऽइव । प॒प्र॒थे॒ ॥९

न । तम् । अश्नोति । कः । चन । दिवःऽइव । सानु । आऽरभम् ।

सावर्ण्यस्य । दक्षिणा । वि । सिन्धुःऽइव । पप्रथे ॥९

“तं सावर्णिं मनुं “कश्चन कश्चिदपि “आरभम् आरब्धुं स्वकर्मणा “न “अश्नोति न व्याप्नोति । यथा मनुः प्रयच्छति तथान्यो दातुं न शक्नोतीत्यर्थः । कथं स्थितम् । “दिवइव द्युलोकस्य “सानु समुच्छ्रितं तेजसा कैश्चिदप्यप्रधृष्यमादित्यमिव स्थितम् । आरभम् । ‘ शकि णमुल्कमुलौ ' (पा. सू. ३. ४. १२) इति कमुल्। तस्य “सावर्ण्यस्य मनोरियं गवादिदक्षिणा “सिन्धुरिव स्यन्दमाना नदीव पृथिव्यां “पप्रथे विप्रथते । विस्तीर्णा भवति ॥


उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा ।

यदु॑स्तु॒र्वश्च॑ मामहे ॥१०

उ॒त । दा॒सा । प॒रि॒ऽविषे॑ । स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी । गोऽप॑रीणसा ।

यदुः॑ । तु॒र्वः । च॒ । म॒म॒हे॒ ॥१०

उत । दासा । परिऽविषे । स्मद्दिष्टी इति स्मत्ऽदिष्टी । गोऽपरीणसा ।

यदुः । तुर्वः । च । ममहे ॥१०

“उत अपि च "स्मद्दिष्टी कल्याणादेशिनौ “गोपरीणसा गोपरीणसौ गोभिः परिवृतौ बहुगवादियुक्तौ “दासा दासवत् प्रेष्यवत् स्थितौ तेनाधिष्ठितौ “यदुः च “तुर्वश्च एतन्नामकौ राजर्षी “परिविषे अस्य सावर्णेर्मनोर्भोजनाय "ममहे पशून्प्रयच्छतः । प्रत्येकमन्वयादेकवचनम् ॥


स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनु॒ः सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा ।

साव॑र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा॑न्ता॒ अस॑नाम॒ वाज॑म् ॥११

स॒ह॒स्र॒ऽदाः । ग्रा॒म॒ऽनीः । मा । रि॒ष॒त् । मनुः॑ । सूर्ये॑ण । अ॒स्य॒ । यत॑माना । ए॒तु॒ । दक्षि॑णा ।

साव॑र्णेः । दे॒वाः । प्र । ति॒र॒न्तु॒ । आयुः॑ । यस्मि॑न् । अश्रा॑न्ताः । अस॑नाम । वाज॑म् ॥११

सहस्रऽदाः । ग्रामऽनीः । मा । रिषत् । मनुः । सूर्येण । अस्य । यतमाना । एतु । दक्षिणा ।

सावर्णेः । देवाः । प्र । तिरन्तु । आयुः । यस्मिन् । अश्रान्ताः । असनाम । वाजम् ॥११

“सहस्रदाः गवादीनां सहस्रस्य दाता “ग्रामणीः ग्रामाणां नेता कर्ता जनपदानामयं “मनुः “मा “रिषत् न कैश्चिदपि रिष्टो हिंसितो भवतु । यद्वा । कर्मनेतॄनस्मान्मा हिनस्तु किंतु धनादिदानेन पूजयतु । “अस्य “यतमाना गच्छन्ती “दक्षिणा “सूर्येण सह “एतु संगच्छताम् । त्रिषु लोकेषु प्रसिद्धा भवत्वित्यर्थः । तस्यास्य “सावर्णेः सवर्णपुत्रस्य मनोः “देवाः इन्द्रादयः “आयुः जीवन “प्र “तिरन्तु प्रवर्धयन्तु । “अश्रान्ताः कर्मसु अनलसाः सर्वं कर्म कुर्वन्तो वयं “यस्मिन् मनौ “वाजं गोलक्षणमन्नम् “असनाम संभजेमहि । नाभानेदिष्ठोऽहमलभ इत्याशास्ते ॥ ॥ २ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६२&oldid=365250" इत्यस्माद् प्रतिप्राप्तम्