ऋग्वेदः सूक्तं १०.१६४
← सूक्तं १०.१६३ | ऋग्वेदः - मण्डल १० सूक्तं १०.१६४ प्रचेता आङ्गिरसः। |
सूक्तं १०.१६५ → |
दे. दुःस्वप्ननाशनम् । अनुष्टुप्, ३ त्रिष्टुप्, ५ पङ्क्तिः । |
अपेहि मनसस्पतेऽप क्राम परश्चर ।
परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥१॥
भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥२॥
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः ।
अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥३॥
यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि ।
प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥४॥
अजैष्माद्यासनाम चाभूमानागसो वयम् ।
जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥५॥
सायणभाष्यम्
' अपेहि ' इति पञ्चर्चं त्रयोदशं सूक्तमाङ्गिरसस्य प्रचेतस आर्षम् । तृतीया त्रिष्टुप् पञ्चमी पङ्क्तिः । दुःस्वप्ननाशनं देवता । तथा चानुक्रान्तम्-अपेहि पञ्च प्रचेता दुःस्वप्नघ्नं पङ्य्त् न्तं त्रिष्टुम्मध्यम् ' इति । लैङ्गिको विनियोगः ।।
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।
प॒रो निरृ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥ १
अप॑ । इ॒हि॒ । म॒न॒सः॒ । प॒ते॒ । अप॑ । क्रा॒म॒ । प॒रः । च॒र॒ ।
प॒रः । निःऽऋ॑त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव॑तः । मनः॑ ॥१
अप । इहि । मनसः । पते । अप । क्राम । परः । चर ।
परः । निःऽऋत्यै । आ । चक्ष्व । बहुधा । जीवतः । मनः ॥१
हे “मनसस्यते स्वप्नावस्थस्य मनसः स्वामिन् दुःस्वप्नाधिदेव “अपेहि अपगच्छ । स्वप्नावस्थावतो मत्तो निर्गच्छ । निर्गत्य च “अप “क्राम । देशान्तरं गन्तुं पादौ विक्षिप । दूरदेशं गच्छेत्यर्थः । अपक्रम्य च “परः परस्ताद्विप्रकृष्टे देशे “चर यथेच्छं वर्तस्व । अपि च “निर्ऋत्यै पापदेवतायै “परः परस्ताद्वर्तमानायै “आ “चक्ष्व । वयं न बाधनीया इति प्रब्रूहि । “जीवतः मम “मनः “बहुधा बहुप्रकारं भवति । भोक्तव्येषु बहुषु विषयेषूत्सुकं सत् वर्तते । अतस्तद्विनाशकं दुःस्वप्नदर्शनं नश्यत्वित्यर्थः ।।
भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् ।
भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥ २
भ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् ।
भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥२
भद्रम् । वै । वरम् । वृणते । भद्रम् । युञ्जन्ति । दक्षिणम् ।
भद्रम् । वैवस्वते । चक्षुः । बहुऽत्रा । जीवतः । मनः ॥२
“भद्रं “वै शोभनमेव “वरं वरणीयं दुःस्वप्नविनाशरूपं फलं “वृणते सर्वे जनाः प्रार्थयन्ते । “दक्षिणं प्रवृद्धं “भद्रं शोभनं तत्फलं युञ्जन्ति प्राप्नुवन्ति च । “वैवस्वते विवस्वतः पुत्रे यमे विषये “भद्रं शोभनमेव “चक्षुः दर्शनमहं प्रार्थये । दुःस्वप्नाधिदेवो वैवस्वतोऽस्मान्मा वाधताम् । भद्रमेव दर्शनमिह लोकेऽवस्थानलक्षणं करोत्वित्यर्थः । “बहुत्रा बहुषु हि विषयेषु “जीवतः मम “मनः वर्तते ।।
यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ ।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥ ३
यत् । आ॒ऽशसा॑ । निः॒ऽशसा॑ । अ॒भि॒ऽशसा॑ । उ॒प॒ऽआ॒रि॒म । जाग्र॑तः । यत् । स्व॒पन्तः॑ ।
अ॒ग्निः । विश्वा॑नि । अप॑ । दुः॒ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥३
यत् । आऽशसा । निःऽशसा । अभिऽशसा । उपऽआरिम । जाग्रतः । यत् । स्वपन्तः ।
अग्निः । विश्वानि । अप । दुःऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥३
“यत् दुष्कृतम् “आशसा आशंसनेनाभिलाषेण “जाग्रतः जागरणावस्थायां वर्तमाना वयम् “उपारिम उपगतवन्तः स्म “यत् च “स्वपन्तः स्वप्नावस्थां प्राप्ता उपगतवन्तः स्म । तथा “निःशसा निःशंसनेन निर्गताभिलाषेण “अभिशसा अभिगताभिलाषेण च कारणेनावस्थाद्वये यद्दुष्कृतमुपागच्छेम । तानि “विश्वानि सर्वाणि “अजुष्टानि असेव्यान्यप्रियाणि वा “दुष्कृतानि दुष्कर्माणि “अग्निः “अस्मत् “आरे अस्मत्तो दूरदेशे “अप “दधातु अपकृष्य स्थापयतु ।।
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि ।
प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥ ४
यत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि ।
प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥४
यत् । इन्द्र । ब्रह्मणः । पते । अभिऽद्रोहम् । चरामसि ।
प्रऽचेताः । नः । आङ्गिरसः । द्विषताम् । पातु । अंहसः ॥४
हे "इन्द्र हे "ब्रह्मणस्पते युवयोर्विषये "यत् "अभिद्रोहम् अभितो द्रोहकं पापं दुःस्वप्नकारणं "चरामसि आचरामः कुर्मः तस्मादभिद्रोहादस्मात् रक्षतमिति शेषः । अपि च "आङ्गिरसः अङ्गिरोभिः स्तोतृभिः सबान्धवः "प्रचेताः प्रकृष्टज्ञानो वरुणश्च "द्विषतां द्वेष्टॄणाम् "अंहसः तत्कर्तृकादस्मद्विषयात्पापात् "नः अस्मान् "पातु रक्षतु । यद्वा । विभक्तिव्यत्ययः । आङ्गिरसमङ्गिरोगोत्रं प्रचेतसमृषिं नः । वचनव्यत्ययः । मां द्विषतामंहसः पातु । प्रकृतत्वादिन्द्र इति गम्यते ।।
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥ ५
अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।
जा॒ग्र॒त्ऽस्व॒प्नः । स॒म्ऽक॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वेष्टि॑ । तम् । ऋ॒च्छ॒तु॒ ॥५
अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् ।
जाग्रत्ऽस्वप्नः । सम्ऽकल्पः । पापः । यम् । द्विष्मः । तम् । सः । ऋच्छतु । यः । नः । द्वेष्टि । तम् । ऋच्छतु ॥५
"अद्य अस्मिन् काले "अजैष्म । जेतव्यानि सर्वाणि जितवन्तोऽभूम दुःस्वप्नस्य नष्टत्वात्। तदनन्तरम् "असनाम "च संभक्तव्यानि च समभजाम । तथा "वयम् "अनागसः अनपराधाश्च "अभूम । जाग्रत्स्वप्नावस्थयोः संबन्धी "पापः पापफलरूपः "सः "संकल्पः दुःस्वप्नाध्यवसायः "यं शत्रुं वयं "द्विष्मः "तम् "ऋच्छतु प्राप्नोतु । "यः च "नः अस्मान् "द्वेष्टि "तमृच्छतु प्राप्नोतु ।।।।२२ ।।
मण्डल १० | ||||
---|---|---|---|---|