ऋग्वेदः सूक्तं १०.१८०
← सूक्तं १०.१७९ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८० जय ऐन्द्रः। |
सूक्तं १०.१८१ → |
दे. इन्द्रः । त्रिष्टुप् । |
प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॥१॥
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळ्हि वि मृधो नुदस्व ॥२॥
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥३॥
सायणभाष्यम्
‘प्र ससाहिषे ' इति तृचमेकोनत्रिंशं सूक्तमिन्द्रपुत्रस्य जयस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं - प्र ससाहिषे जय ऐन्द्रः' इति । गतः सूक्तविनियोगः । दर्शे इन्द्रस्य हविषः ‘ प्र ससाहिषे ' इत्येषा याज्या । सूत्रितं च -- ‘ प्र ससाहिषे पुरुहूत शत्रून् महाँ इन्द्रो य ओजसा' (आश्व. श्रौ. १.६ इति । एकादशिन ऐन्द्रपशौ पुरोडाशस्येयमेव याज्या। सूत्रितं च- ‘ प्र ससाहिषे पुरुहूत शत्रून् स्वस्तये वाजिभिश्च प्रणेतः ' (आश्व. श्रौ. ३. ७) इति । देवसुवां हविःषु इन्द्रस्येयमेवानुवाक्या । सूत्रितं च – प्र ससाहिषे पुरुहूत शत्रून् भुवस्त्वमिन्द्र ब्रह्मणा महान् ' ( आश्व. श्रौ. ४.११ ) इति ॥
प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु ।
इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒ः सिन्धू॑नामसि रे॒वती॑नाम् ॥१
प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ ।
इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥१
प्र । ससहिषे । पुरुऽहूत । शत्रून् । ज्येष्ठः । ते । शुष्मः । इह । रातिः । अस्तु ।
इन्द्र । आ । भर । दक्षिणेन । वसूनि । पतिः । सिन्धूनाम् । असि । रेवतीनाम् ॥१
हे "पुरुहूत बहुभिराहूतेन्द्र “शत्रून् वैरिणः “प्र “ससाहिषे प्रकर्षेणाभिभवसि । “ते तव “शुष्मः शोषकं बलं “ज्येष्ठः प्रशस्यतमं वृद्धतमं वा भवति । “इह अस्मिन् कर्मणि “रातिः तव दानम् “अस्तु अस्मभ्यं भवतु । तदर्थं हे “इन्द्र “दक्षिणेन हस्तेन “वसूनि धनानि “आ “भर आहर आनय । त्वं “रेवतीनां रयिमतीनां बहुधनानां “सिन्धूनां स्यन्दनशीलानां नदीनां “पतिः “असि स्वामी भवसि ॥ रयिशब्दान्मतुपि ‘ रयेर्मतौ बहुलम्' इति संप्रसारणम् । ‘ छन्दसीरः इति मतुपो वत्वम् । रेशब्दाच्च°' (का. ६.१.१७६.१ ) इति तस्योदात्तत्वम् ॥
वैमृधस्य हविषः ‘मृगो न' इत्येषा याज्या । सूत्रितं च -- वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्ठाः' ( आश्व. श्रौ. २. १० ) इति
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः ।
सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताळ्हि॒ वि मृधो॑ नुदस्व ॥२
मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । प॒रा॒ऽवतः॑ । आ । ज॒ग॒न्थ॒ । पर॑स्याः ।
सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ळ्हि॒ । वि । मृधः॑ । नु॒द॒स्व॒ ॥२
मृगः । न । भीमः । कुचरः । गिरिऽस्थाः । पराऽवतः । आ । जगन्थ । परस्याः ।
सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताळ्हि । वि । मृधः । नुदस्व ॥२
“कुचरः कुत्सितचरणः “गिरिष्ठाः पर्वतनिवासी “मृगो “न सिंह इव हे इन्द्र त्वं “भीमः भयंकरोsसि । स त्वं “परस्याः “परावतः अतिशयेन दूरात् द्युलोकात “आ “जगन्थ आगच्छ । गमेश्छान्दसे लिट कादिनियमप्राप्तस्येटः ‘ उपदेशेऽत्वत: ' ( पा. सू. ७.२.६२ ) इति प्रतिषेधः ।। आगत्य च “सृकं सरणशीलं “तिग्मं तीक्ष्णं “पविं वज्रं “संशाय सम्यक् तीक्ष्णीकृत्य “शत्रून् अस्मदीयान् वैरिणो हे “इन्द्र तेन वज्रेण “वि “ताळिह विशेषेण ताडय । विनाशयेत्यर्थः ॥ ‘ तड आघाते' । अस्माल्लोटि ण्यन्ताद्रूपमेतत् ॥ तथा “मृधः संग्रामोद्युक्तान् युयुत्सूनन्यानपि “वि “नुदस्व विशेषेण तिरस्कुरु ॥
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् ।
अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥३
इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊं॒ इति॑ । लो॒कम् ॥३
इन्द्र । क्षत्रम् । अभि । वामम् । ओजः । अजायथाः । वृषभ । चर्षणीनाम् ।
अप । अनुदः । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊं इति । लोकम् ॥३
हे “इन्द्र “क्षत्रं क्षतात्त्रायकं “वामं वननीयं “ओजः बलमभिलक्ष्य "अजायथाः उत्पन्नोऽसि । हे “वृषभ कामानां वर्षितः “चर्षणीनां मनुष्याणामस्माकम् ॥ ‘नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥ “अमित्रयन्तम् । अमित्रः शत्रुः । स इवाचरन्तं "जनम् “अपानुदः अपागमयः । “देवेभ्यः च “उरुं विस्तीर्णं “लोकं स्वर्गाख्यम् “अकृणोः अकार्षीः । उशब्दः समुच्चये ॥ ॥ ३८ ॥
मण्डल १० | ||||
---|---|---|---|---|