ऋग्वेदः सूक्तं १०.१८२
← सूक्तं १०.१८१ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८२ तपुमूर्धा बार्हस्पत्यः |
सूक्तं १०.१८३ → |
दे. बृहस्पतिः। त्रिष्टुप् |
बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसाय मन्म ।
क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥१॥
नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु ।
क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥२॥
तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ ।
क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥३॥
सायणभाष्यम्
' बृहस्पतिः ' इति तृचमेकत्रिंशं सूक्तं बृहस्पतिदेवत्यं त्रैष्टुभम् । बृहस्पतिपुत्रस्तपुर्मूर्धा नामर्षिः । तथा चानुक्रान्तं-. बृहस्पतिस्तपुर्मूर्धा बार्हस्पत्यो बार्हस्पत्यम् ' इति । गतो विनियोगः ।
बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥ १
बृह॒स्पतिः॑ । न॒य॒तु॒ । दुः॒ऽगहा॑ । ति॒रः । पुनः॑ । ने॒ष॒त् । अ॒घऽशं॑साय । मन्म॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥१
बृहस्पतिः । नयतु । दुःऽगहा । तिरः । पुनः । नेषत् । अघऽशंसाय । मन्म ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥१
“बृहस्पतिः बृहतां देवानां पतिः पालयिता ।। ' तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च ' ( पा. म. ६.१. १५७) इति सुडागमस्तलोपश्च । ' उभे वनस्पत्यादिषु' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ।। “दुर्गहा दुर्गमनानां हन्ता स देवः “तिरः “नयतु तिरस्कर्तव्यानि पापान्यपसारयतु । “अघशंसाय अस्माकमनर्थमाशंसमानाय पुरुषाय “मन्म । मन्यतेर्दीप्तिकर्मणो मन्म । दीप्तमायुधं “पुनर्नेषत् नयतु । नयतेर्लेट्यडागमः । ' सिब्बहुलम् ' इति सिप् । अपि च “अशस्तिम् अयशस्विनं शत्रुं “क्षिपत् क्षिपतु अस्मत्तः प्रेरयतु । “दुर्मतिं दुर्बुद्धिं च “अप “हन् अपहन्तु । “अथ अनन्तरं “शं रोगाणां शमनं “योः भयानां यावनं च “करत् ।।
नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥ २
नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥२
नराशंसः । नः । अवतु । प्रऽयाजे । शम् । नः । अस्तु । अनुऽयाजः । हवेषु ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥२
पञ्चसु प्रयाजेषु द्वितीयः प्रयाजो नराशंसदेवताकः । तस्मिन् “प्रयाजे देवताभूतः “नराशंसः नरैः शंसनीयोऽग्निः “नः अस्मान् “अवतु रक्षतु । “हवेषु आह्वानेषु सत्सु “अनुयाजः । त्रयोऽनुयाजाः । द्वितीयोऽनुयाजो नराशंसः । तस्यानुयाजस्य देवताभूतो नराशंसोऽग्निश्च “नः अस्माकं “शं सुखकरः “अस्तु । बृहस्पतिश्च “अशस्तिं “क्षिपत् इत्यादि पूर्ववत् ।।
तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा उ॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥ ३
तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥३
तपुःऽमूर्धा । तपतु । रक्षसः । ये । ब्रह्मऽद्विषः । शरवे । हन्तवै । ऊं इति ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥३
“तपुर्मूर्धा तापकशिरस्को बृहस्पतिः “रक्षसः “ये “ब्रह्मद्विषः ब्राह्मणद्वेष्टारो राक्षसाः तान् राक्षसान “तपतु तापयतु । दहत्वित्यर्थः । किमर्थम् । “शरवे शरुं हिंसकं रक्षसामधिपतिं “हन्तवै हन्तुम् । अनुचरान् पूर्वं नाशयतु पश्चादेनमपि नाशयत्वित्यर्थः । । शॄ हिंसायाम् । इत्यस्मात् ‘ शॄस्वृस्निहि°' इत्यादिना उप्रत्ययः । ‘ नित् ' इत्यनुवृत्तेराद्युदात्तत्वम् । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । हन्तेः ‘ तुमर्थे सेसेन्” इति तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत् ' इत्याद्यन्तयोर्युगपदुदात्तत्वम् । उशब्दः पूरकः ॥ ॥ ४० ॥
टिप्पणी
नराशंसः - नाराशंसीः शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते य एवं वेद यदेव नाराशंसीः शन्सन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः शंसन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति - ऐतरेयब्राह्मणम् ६.३२
मण्डल १० | ||||
---|---|---|---|---|