ऋग्वेदः सूक्तं १०.१८९
← सूक्तं १०.१८८ | ऋग्वेदः - मण्डल १० सूक्तं १०.१८९ सार्पराज्ञी। |
सूक्तं १०.१९० → |
दे. आत्मा, सूर्यो वा। गायत्री। |
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
पितरं च प्रयन्स्वः ॥१॥
अन्तश्चरति रोचनास्य प्राणादपानती ।
व्यख्यन्महिषो दिवम् ॥२॥
त्रिंशद्धाम वि राजति वाक्पतंगाय धीयते ।
प्रति वस्तोरह द्युभिः ॥३॥
सायणभाष्यम्
‘ आयं गौः' इति तृचमष्टात्रिंशं सूक्तं गायत्रम् । सार्पराज्ञी नामर्षिका । सैव देवता सूर्यो वेति । तथा चानुक्रान्तम्- आयं गौः सार्पराज्ञ्यात्मदैवतं सौर्यं वा ' इति । अविवाक्येऽहनि मानसग्रह एतत्सूक्तं शंसनीयम् । सूत्रितं च- आयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा' (आश्व. श्रौ. ८. १३ ) इति ॥
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥१
आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः ।
पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१॒॑रिति॑ स्वः॑ ॥१
आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः ।
पितरम् । च । प्रऽयन् । स्वरिति स्वः ॥१
“गौः गमनशीलः “पृश्निः प्राष्टवर्णः प्राप्ततेजाः “अयं सूर्यः “आ “अक्रमीत् आक्रान्तवान् । उदयाचलं प्राप्तवानित्यर्थः । आक्रम्य च “पुरः पुरस्तात् पूर्वस्यां दिशि “मातरं सर्वस्य भूतजातस्य निर्मात्रीं पृथिवीम् “असदत् आसीदति प्राप्नोति । सदेश्छन्दसो लुङ्। लुदित्त्वाच्च्रलेरङादेशः । ततः “पितरं पालकं द्युलोकं चशब्दादन्तरिक्षं च प्रयन् प्रकर्षेण शीघ्रं गच्छन् “स्वः स्वरणः शोभनगमनो भवति । यद्वा । पितरं स्वर्गलोकं प्रयन् वर्तते ॥
अं॒तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।
व्य॑ख्यन्महि॒षो दिवं॑ ॥२
अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती ।
वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥२
अन्तरिति । चरति । रोचना । अस्य । प्राणात् । अपऽअनती ।
वि । अख्यत् । महिषः । दिवम् ॥२
अस्य सूर्यस्य “रोचना रोचमाना दीप्तिः “अन्तः शरीरमध्ये मुख्यप्राणात्मना “चरति वर्तते । किं कुर्वती । “प्राणादपानती। मुख्यप्राणस्य प्राणाद्याः पञ्च वृत्तयः । तत्र प्राणनं नाडीभिरूर्ध्वं वायोर्निर्गमनम् । तथाविधात् प्राणात् प्राणनादनन्तरमपानती । अपाननं नाडीभिरवाङ्मुखं वायोर्नथनम् । तत्कुर्वती ॥ अपपूर्वादनितेर्लटः शतृ । अदादित्वाच्छपो लुक् ।' उगितश्च ' इति ङीप् । ‘शतुरनुमः इति नद्या उदात्तत्वम् ॥ यद्वा । अन्तर्द्यावापृथिव्योर्मध्ये अस्य सूर्यस्य रोचना रोचमाना दीप्तिः चरति गच्छति ॥ ‘ रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः' ( पा. सू. ३. २. १४९ ) इति युच् ॥ किं कुर्वती । प्राणात्प्राणनादुदयानन्तरमपानती सायंसमयेऽस्तं गच्छन्ती । ईदृश्या दीप्त्या युक्तः । अत एव “महिषः महान् सूर्यो “दिवम् अन्तरिक्षमुदयास्तमययोर्मध्ये “व्यख्यत् विचष्टे । प्रकाशयति ॥ महेः ‘अविमह्योष्टिषच् ' ( उ. सू. १. ४६ ) इत्यौणादिकष्टिषच्प्रत्ययः । चक्षिङः ख्याञ् । छान्दसे लुङि ‘ श्रस्यतिवक्ति' इत्यादिना च्लेरङादेशः ॥
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते ।
प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३
त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ ।
प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥३
त्रिंशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते ।
प्रति । वस्तोः । अह । द्युऽभिः ॥३
“त्रिंशद्धाम धामानि स्थानानि । वचनव्यत्ययः। “वस्तोः वासरस्याहोरात्रस्यावयवभूतानि । अहशब्दोऽवधारणे । “द्युभिः सूर्यस्य दीप्तिभिरेव “वि राजति विराजन्ते विशेषेण दीप्यन्ते । व्यस्ययेनैकवचनम् । मुहूर्तान्यत्र धामान्युच्यन्ते । पञ्चदश रात्रेः पञ्चदशाह्नः । “पतङ्गाय । पतति गच्छतीति पतङ्गः सूर्यः । तस्मै स्तुतिरूपा “वाक् प्रति “धीयते प्रतिमुखं स्तोतृभ्यः क्रियते । यद्वा । वस्तोरहनि त्रिंशद्धामानि । घटिकाभिप्रायमेतत् । त्रिंशद्घटिकाः । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालं “द्युभिः दीप्तिभिरसौ सूर्यो वि राजति । विशेषेण दीप्यते । तस्मिंश्च समये वाक् त्रयीरूपा तस्मै सूर्यरूपाय पतङ्गाय प्रति धीयते प्रतिमुखं धार्यते । सूर्यं सेवत इत्यर्थः । श्रूयते हि -- ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः' (तै. ब्रा. ३. १२. ९. १ ) इत्यादि । यदा त्विदं सूक्तं सर्पराज्ञ्या आत्मस्तुतिः तदा सूर्यात्मना स्तूयत इत्यवगन्तव्यम् ॥ ॥ ४७ ॥
मण्डल १० | ||||
---|---|---|---|---|