ऋग्वेदः सूक्तं १०.२४
← सूक्तं १०.२३ | ऋग्वेदः - मण्डल १० सूक्तं १०.२४ ऐन्द्रोविमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा। |
सूक्तं १०.२५ → |
दे. इन्द्रः, ४-६ अश्विनौ। आस्तारपङ्क्तिः, ४-६ अनुष्टुप् |
इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् ।
अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥१॥
त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे ।
शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥२॥
यस्पतिर्वार्याणामसि रध्रस्य चोदिता ।
इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥३॥
युवं शक्रा मायाविना समीची निरमन्थतम् ।
विमदेन यदीळिता नासत्या निरमन्थतम् ॥४॥
विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः ।
नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥५॥
मधुमन्मे परायणं मधुमत्पुनरायनम् ।
ता नो देवा देवतया युवं मधुमतस्कृतम् ॥६॥
सायणभाष्यम्
‘इन्द्र सोमम्' इति षडृचमष्टमं सूक्तम् । चतुर्थ्याद्यास्तिस्रोऽनुष्टुभोऽश्विदेवत्याः । आदितस्तिस्र ऐन्द्र्य आस्तारपङ्क्तिच्छन्दस्काः । आदितो द्वौ गायत्रौ ततो द्वौ जागतौ सास्तारपङ्क्तिः । ऋषिः पूर्ववत् । तथा चानुक्रान्तम् - ‘इन्द्र सोमं षळास्तारपाङ्क्तं त्वाश्विन्योऽन्त्यास्तिस्रोऽनुष्टुभः' इति । गतो विनियोगः ॥
इंद्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मंतं च॒मू सु॒तं ।
अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥१
इन्द्र॑ । सोम॑म् । इ॒मम् । पि॒ब॒ । मधु॑ऽमन्तम् । च॒मू इति॑ । सु॒तम् ।
अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विव॑क्षसे ॥१
इन्द्र । सोमम् । इमम् । पिब । मधुऽमन्तम् । चमू इति । सुतम् ।
अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इति पुरुऽवसो । विवक्षसे ॥१
हे “इन्द्र त्वम् “इमम् ईदृशं “सोमं पिब । कीदृशम् । “मधुमन्तं मधुररसोपेतं “चमू चम्वोः अधिषवणफलकयोः “सुतम् अभिषुतम् । तदनन्तरं “पुरुवसो बहुधन हे इन्द्र “वः तव “विमदे विशेषेण सोमजन्यमदे सति “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय । कीदृशम् । “सहस्रिणं सहस्रसंख्यायुक्तम् । प्रभूतमित्यर्थः । त्वया दत्तेन धनेन यस्माद्वयं पुनरपि त्वदर्थं यागं कुर्मः तस्मादस्मासु धनं निधेहीत्यर्थः । अतः कारणात् “विवक्षसे । महन्नामैतत् । त्वं महान् भवसि ॥
त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे ।
शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥२
त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ ।
शची॑ऽपते । श॒ची॒ना॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥२
त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे ।
शचीऽपते । शचीनाम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥२
हे इन्द्र वयं “यज्ञेभिः यज्ञैः सोमयागादिभिः “उक्थैः शस्त्रलक्षणैः स्तोत्रैः "हव्येभिः हव्यैः पुरोडाशादिभिश्च । उपेत्युपसर्गश्रुतेर्योग्यपदाध्याहारः । “त्वाम् उपेत्य “ईमहे अभिलषितं धनं याचामहे । अतो हे “शचीपते कर्मणां पालयितः त्वं कैषांचित्कर्मणां पालको न भवसीति न किंतु “शचीनां सर्वेषां कर्मणां पालको भवसीत्यर्थः । एवं याचितस्त्वं “नः अस्मभ्यं वा वरणीयं “श्रेष्ठं प्रशस्ततमं पश्वादिधनं “धेहि देहि । शिष्टं स्पष्टम् ॥
यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता ।
इंद्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥३
यः । पति॑म् । वार्या॑णाम् । असि॑ । र॒ध्रस्य॑ । चो॒दि॒ता ।
इन्द्र॑ । स्तो॒तॄ॒णाम् । अ॒वि॒ता । वि । वः॒ । मदे॑ । द्वि॒षः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥३
यः । पतिम् । वार्याणाम् । असि । रध्रस्य । चोदिता ।
इन्द्र । स्तोतॄणाम् । अविता । वि । वः । मदे । द्विषः । नः । पाहि । अंहसः । विवक्षसे ॥३
हे इन्द्र “यः त्वं “वार्याणां वरणीयानां धनानां “पतिः “असि स्वामी भवसि । “रध्रस्य राधकस्य स्तोतुश्च “चोदिता धनदानेन कर्मसु नियोक्ता च भवसि । किंच हे “इन्द्र यस्त्वं “स्तोतॄणामविता रक्षकोऽसि स त्वं “वि “वो “मदे तव विविधे सोमजन्यमदे सति “द्विषः द्वेष्टुः सकाशात् “नः अस्मान् “पाहि रक्ष। “अंहसः पापाच्च रक्ष । कस्मादेवमुच्यसे । यस्मात्त्वं “विवक्षसे महान् भवसि ॥
यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मंथतं ।
वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रमं॑थतं ॥४
यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् ।
वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥४
युवम् । शक्रा । मायाऽविना । समीची इति सम्ऽईची । निः । अमन्थतम् ।
विऽमदेन । यत् । ईळिता । नासत्या । निःऽअमन्थतम् ॥४
हे “शक्रा शक्रौ शत्रुवधादिकर्मसु समर्थौ हे अश्विनौ “मायाविना मायाविनौ प्रज्ञावन्तौ शत्रुवञ्चनकुशलौ वा “युवं युवां “समीची परस्परं संगतौ “निरमन्थतम् अग्निं निरमथ्नीतम् । ‘अश्विनावध्वर्यू' (ऐ. ब्रा. १. १८) इति ब्राह्मणोक्तत्वादग्निमन्थनमप्यश्विनोरुपपन्नमिति । कदाश्विनौ निर्मथितवन्तौ उच्यते । “यत् यदा “नासत्या नासत्यौ युवां “विमदेन मया “ईळिता ईळितौ स्तुतौ “निरमन्थतं निरमथ्नीतं तदानीं युवां परस्पर संगतौ निर्मथितवन्तौ स्थ इत्यर्थः ॥
विश्वे॑ दे॒वा अ॑कृपंत समी॒च्योर्नि॒ष्पतं॑त्योः ।
नास॑त्यावब्रुवंदे॒वाः पुन॒रा व॑हता॒दिति॑ ॥५
विश्वे॑ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्ऽई॒च्योः । निः॒ऽपत॑न्त्योः ।
नास॑त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः॑ । आ । व॒ह॒ता॒त् । इति॑ ॥५
विश्वे । देवाः । अकृपन्त । सम्ऽईच्योः । निःऽपतन्त्योः ।
नासत्यौ । अब्रुवन् । देवाः । पुनः । आ । वहतात् । इति ॥५
हे अश्विनौ युवाभ्यामग्निमन्थनकाले प्रेर्यमाणयोः “समीच्योः परस्परेण संयुक्तयोररण्योः “निष्पतन्त्योः विस्फुलिङ्गान् निर्गमयन्त्योः सत्योः “विश्वे सर्व इन्द्रादयो “देवाः “अकृपन्त युवामस्तुवन् । किंच “देवाः “नासत्यौ अश्विनौ युवाम् "अब्रुवन् अवोचन् । किमिति । “पुनरा “वहतादिति । पुनःपुनरीदृशानि जगत्स्थिति हेतुभूतानि कर्माणि युवामाभिमुख्येन स्थित्वावहतम् । यद्वा । युवाभ्यामुत्पाद्यमानः पुनश्चायमग्निरस्मदीयानि हवींष्यावहत्विति देवा नासत्यावब्रुवन् ॥
मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नं ।
ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतं ॥६
मधु॑ऽमत् । मे॒ । प॒रा॒ऽअय॑नम् । मधु॑ऽमत् । पुनः॑ । आऽअय॑नम् ।
ता । नः॒ । दे॒वा॒ । दे॒वत॑या । यु॒वम् । मधु॑ऽमतः । कृ॒त॒म् ॥६
मधुऽमत् । मे । पराऽअयनम् । मधुऽमत् । पुनः । आऽअयनम् ।
ता । नः । देवा । देवतया । युवम् । मधुऽमतः । कृतम् ॥६
हे अश्विनौ “मे मदीयं “परायणं गृहात्परागमनं “मधुमत् । अत्र रसविशेषवाचिना मधुशब्देन तद्गता प्रीतिर्लक्ष्यते । युवयोः प्रसादात् प्रीतियुक्तं भवत्विति शेषः। “पुनरायनं गृहं प्रत्यागमनं “मधुमत् प्रीतियुक्तं भवतु । अपि च हे “देवा देवौ द्योतमानौ “ता तौ “युवं युवां “नः अस्मान् “मधुमतः प्रीतियुक्तान् “कृतं कुरुतम् । केनेति उच्यते । “देवतया देवत्वेन । अणिमादिदेवतैश्वर्ययोगेनेत्यर्थः ॥ ॥ १० ॥
मण्डल १० | ||||
---|---|---|---|---|