← सूक्तं १०.३७ ऋग्वेदः - मण्डल १०
सूक्तं १०.३८
मुष्कवानिन्द्रः
सूक्तं १०.३९ →
दे. इन्द्रः। जगती


अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये ।
यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये ॥१॥
स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् ।
स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि ॥२॥
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति ।
अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥३॥
यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये ।
तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥४॥
स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् ।
प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते ॥५॥


सायणभाष्यम्

‘ अस्मिन्नः' इति पञ्चर्चं नवमं सूक्तं जागतमैन्द्रम् । मुष्कविशिष्ट इन्द्राख्य ऋषिः । तथा चानुक्रान्तम्-' अस्मिन्नः पञ्च मुष्कवानिन्द्रः' इति । गतो विनियोगः । अपरे तु ताण्ड्यशाट्यायनका अस्य सूक्तस्य मुष्कवानिन्द्रो देवता लुश ऋषिरिति वर्णयन्ति ॥


अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये॑ ।

यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत॑न्ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥१

अ॒स्मिन् । नः॒ । इ॒न्द्र॒ । पृ॒त्सु॒तौ । यश॑स्वति । शिमी॑ऽवति । क्रन्द॑सि । प्र । अ॒व॒ । सा॒तये॑ ।

यत्र॑ । गोऽसा॑ता । धृ॒षि॒तेषु॑ । खा॒दिषु॑ । विष्व॑क् । पत॑न्ति । दि॒द्यवः॑ । नृ॒ऽसह्ये॑ ॥१

अस्मिन् । नः । इन्द्र । पृत्सुतौ । यशस्वति । शिमीऽवति । क्रन्दसि । प्र । अव । सातये ।

यत्र । गोऽसाता । धृषितेषु । खादिषु । विष्वक् । पतन्ति । दिद्यवः । नृऽसह्ये ॥१

हे "इन्द्र त्वं “यशस्वति कीर्तिमति "शिमीवति परस्परप्रहारलक्षणकर्मवति “अस्मिन् उपस्थिते “पृत्सुतौ संग्रामे “क्रन्दसि सिंहनादं करोषि । “सातये धनलाभाय “प्राव “नः अस्मान् प्ररक्षसि च । कस्मिन्नित्यत्राह। “यत्र यस्मिन् “गोषाता गोसातौ लब्धपशुके "नृषाह्ये नृणामभिभावुके च संग्रामे “खादिषु परस्परखादकेषु च योद्धृषु “धृषितेषु धृष्टेषु सत्सु “दिद्यवः आयुधानि “विष्वक् सर्वतः “पतन्ति ।


स न॑ः क्षु॒मन्तं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमि॑न्द्र श्र॒वाय्य॑म् ।

स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥२

सः । नः॒ । क्षु॒ऽमन्त॑म् । सद॑ने । वि । ऊ॒र्णु॒हि॒ । गोऽअ॑र्णसम् । र॒यिम् । इ॒न्द्र॒ । श्र॒वाय्य॑म् ।

स्याम॑ । ते॒ । जय॑तः । श॒क्र॒ । मे॒दिनः॑ । यथा॑ । व॒यम् । उ॒श्मसि॑ । तत् । व॒सो॒ इति॑ । कृ॒धि॒ ॥२

सः । नः । क्षुऽमन्तम् । सदने । वि । ऊर्णुहि । गोऽअर्णसम् । रयिम् । इन्द्र । श्रवाय्यम् ।

स्याम । ते । जयतः । शक्र । मेदिनः । यथा । वयम् । उश्मसि । तत् । वसो इति । कृधि ॥२

हे “इन्द्र “सः सर्वानुग्राहकत्वेन प्रसिद्धस्त्वं “नः अस्माकं “सदने गृहे “क्षुमन्तम् अन्नवन्तं शब्दवन्तं वा “गोअर्णसम् । गावोऽर्णं उदकमिव प्रवृद्धा यस्मिन् । तं “श्रवाय्यं श्रवणीयं “रयिं धनं “व्यूर्णुहि विविधमाच्छादय । किंच हे “वसो वासक “शक्र इन्द्र “जयतः शत्रुं "ते तव प्रसादाद्वयं “मेदिनः मेदसा युक्ता बलवन्तः “स्याम भवेम । किं बहूक्त्या । “यथा यत् "वयमुश्मसि कामयामहे “तत् सर्वं “कृधि कुरु ॥


यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति ।

अ॒स्माभि॑ष्टे सु॒षहा॑ः सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥३

यः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त॒ । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति ।

अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥३

यः । नः । दासः । आर्यः । वा । पुरुऽस्तुत । अदेवः । इन्द्र । युधये । चिकेतति ।

अस्माभिः । ते । सुऽसहाः । सन्तु । शत्रवः । त्वया । वयम् । तान् । वनुयाम । सम्ऽगमे ॥३

हे “पुरुष्टुत बहुस्तुत “इन्द्र “यः "दासः कर्मकरः शूद्रः “आर्यः त्रैवर्णिको “वा “अदेवः देवादन्योऽसुरो वा “नः अस्मान् “युधये युद्धाय “चिकेतति जानाति ते सर्वे “शत्रवः अस्मदरयः “ते तव प्रसादात् “अस्माभिः “सुसहाः स्वभिभवाः “सन्तु भवन्तु । किंच “वयं “त्वया सहायेन “तान् शत्रून् “संगमे संग्रामे “वनुयाम हन्याम ॥


यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।

तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ॥४

यः । द॒भ्रेभिः॑ । हव्यः॑ । यः । च॒ । भूरि॑ऽभिः । यः । अ॒भीके॑ । व॒रि॒वः॒ऽवित् । नृ॒ऽसह्ये॑ ।

तम् । वि॒ऽखा॒दे । सस्नि॑म् । अ॒द्य । श्रु॒तम् । नर॑म् । अ॒र्वाञ्च॑म् । इन्द्र॑म् । अव॑से । क॒रा॒म॒हे॒ ॥४

यः । दभ्रेभिः । हव्यः । यः । च । भूरिऽभिः । यः । अभीके । वरिवःऽवित् । नृऽसह्ये ।

तम् । विऽखादे । सस्निम् । अद्य । श्रुतम् । नरम् । अर्वाञ्चम् । इन्द्रम् । अवसे । करामहे ॥४

"नृसह्ये नृणामभिभावुके “विखादे विशेषेण भक्षके “अभीके संग्रामे “वरिवोवित् धनस्य लम्भकः “यः इन्द्रः “दभ्रेभिः स्वल्पैः "हव्यः ह्वातव्यः “यश्च “भूरिभिः बहुभिः “हव्यः “तं “सस्निं शुचिं “श्रुतं सर्वत्र विख्यातं “नरं नेतारम् “इन्द्रम् “अद्य अस्मिन्नहनि “अवसे अस्मद्रक्षणाय “अर्वाञ्चम् अस्मदभिमुखं “करामहे कुर्मः ॥


स्व॒वृजं॒ हि त्वाम॒हमि॑न्द्र शु॒श्रवा॑नानु॒दं वृ॑षभ रध्र॒चोद॑नम् ।

प्र मु॑ञ्चस्व॒ परि॒ कुत्सा॑दि॒हा ग॑हि॒ किमु॒ त्वावा॑न्मु॒ष्कयो॑र्ब॒द्ध आ॑सते ॥५

स्व॒ऽवृज॑म् । हि । त्वाम् । अ॒हम् । इ॒न्द्र॒ । शु॒श्रव॑ । अ॒न॒नु॒ऽदम् । वृ॒ष॒भ॒ । र॒ध्र॒ऽचोद॑नम् ।

प्र । मु॒ञ्च॒स्व॒ । परि॑ । कुत्सा॑त् । इ॒ह । आ । ग॒हि॒ । किम् । ऊं॒ इति॑ । त्वाऽवा॑न् । मु॒ष्कयोः॑ । ब॒द्धः । आ॒स॒ते॒ ॥५

स्वऽवृजम् । हि । त्वाम् । अहम् । इन्द्र । शुश्रव । अननुऽदम् । वृषभ । रध्रऽचोदनम् ।

प्र । मुञ्चस्व । परि । कुत्सात् । इह । आ । गहि । किम् । ऊं इति । त्वाऽवान् । मुष्कयोः । बद्धः । आसते ॥५

हे “वृषभ कामानां वर्षक “इन्द्र "स्ववृजं स्वयमेव च्छेत्तारम् “अननुदम् अनपेक्षितबलानुप्रदानं “रध्रचोदनं राधकस्य चोदकं प्रेरकं “त्वाम् “अहं लुशः “शुश्रव अश्रौषं “हि यस्मात् तस्मात् “प्र “मुञ्चस्व । कुत्सेन वार्धीशतेनाण्डयोर्बद्धमात्मानं बन्धनाद्विमुञ्च । अथ “परि सर्वतः परिवृतस्त्वं “कुत्सात् कुत्साख्यादृषेः "इह अस्मद्यागे “आ “गहि आगच्छ। "किमु “त्वावान् त्वत्सदृशोऽन्यः कश्चित् “मुष्कयोर्बद्ध “आसते । न कोऽप्येतादृशो निर्लज्जस्त्वत्तोऽन्योऽस्तीत्यभिप्रायः । तत्र शाट्यायनकं---- ‘ कुत्सश्च लुशश्चेन्द्रं व्यह्वयेतां स कुत्सस्याहवमागच्छत् तं शतेन वार्धीभिराण्डयोरबध्नात् तं लुशोऽभ्यवदत् स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनं प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसत इति ताः सर्वाः संलुप्य लुशमभि प्रादुद्रवत्' इति । छन्दोगब्राह्मणमपि- कुत्सश्च लुशश्च युगपदिन्द्रमाहूतवन्तौ स्वं स्वं यज्ञं प्रत्यङ्गभावाय सखित्वादिन्द्रः कुत्सं प्रति जगाम तं तु गतं वशित्वात्कुत्सो वार्ध्रीशतेनाण्डयोरबध्नात् । इति ॥ ॥ १४ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३८&oldid=195047" इत्यस्माद् प्रतिप्राप्तम्