← सूक्तं १०.५३ ऋग्वेदः - मण्डल १०
सूक्तं १०.५४
बृहदुक्थो वामदेव्यः
सूक्तं १०.५५ →
दे. इन्द्रः। त्रिष्टुप् ।


तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् ।
प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥१॥
यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।
मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥२॥
क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः ।
यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥३॥
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति ।
त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥४॥
त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि ।
काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥५॥
यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि ।
अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥६॥


सायणभाष्यम्

‘ तां सु ते' इति षडृचं द्वादशं सूक्तं वामदेवगोत्रस्य बृहदुक्थस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं – तां सु षड् बृहदुक्थो वामदेव्यः' इति । समूळ्हस्य दशरात्रस्य द्वितीये छन्दोम एतत्सूक्तम् । सूत्रितं च - ‘ अपूर्व्या पुरुतमानि तां सु ते कीर्तिं त्वं महाँ इन्द्र' (आश्व. श्रौ. ८, ७) इति । महाव्रते निष्केवल्य एतत्सूक्तम् । सूत्रितं च -- तां सु ते कीर्तिं मघवन्महित्वा भूय इद्वावृधे वीर्याय' (ऐ. आ. ५. १. ६ ) इति ॥


तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् ।

प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑ः प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥१

ताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् ।

प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इ॒न्द्र॒ ॥१

ताम् । सु । ते । कीर्तिम् । मघऽवन् । महिऽत्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् ।

प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥१

हे "इन्द्र "मघवन् धनवन् “ते तव संबन्धिनीं "महित्वा महत्त्वेनागतां “कीर्तिं “सु सुष्ठु कीर्तयामीति शेषः । किंच "यत् यदा “त्वा त्वां प्रति "भीते असुरैर्भयं प्राप्ते "रोदसी द्यावापृथिव्यौ "अह्वयेतां अवेत्यब्रूतां तदानीं "देवान् "प्रावः प्रारक्षः। तथा “दासं देवानामुपक्षयकर्तारमसुरम् “आतिरः व्यनाशयः। असुरान् हत्वा देवानां रक्षणेन द्यावापृथिव्योः भीतिं पर्यहर इति यदस्ति किंच “त्वस्यै एकस्यै "प्रजायै यजमानरूपायै "यत् बलम् ”अशिक्षः प्रायच्छः । तां कीर्तिं कीर्तयामीत्यर्थः।


यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रुवा॒णो जने॑षु ।

मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥२

यत् । अच॑रः । त॒न्वा॑ । व॒वृ॒धा॒नः । बला॑नि । इ॒न्द्र॒ । प्र॒ऽब्रु॒वा॒णः । जने॑षु ।

मा॒या । इत् । सा । ते॒ । यानि॑ । यु॒द्धानि॑ । आ॒हुः । न । अ॒द्य । शत्रु॑म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥२

यत् । अचरः । तन्वा । ववृधानः । बलानि । इन्द्र । प्रऽब्रुवाणः । जनेषु ।

माया । इत् । सा । ते । यानि । युद्धानि । आहुः । न । अद्य । शत्रुम् । ननु । पुरा । विवित्से ॥२

हे “इन्द्र "तन्वा शरीरेण स्तोत्रेण वा “वावृधानः वर्धमानः “जनेषु प्राणिषु "बलानि "प्रब्रुवाणः वृत्रवधादिरूपाणि सामर्थ्यानि प्रकर्षेण कथयन् "अचरः इति "यत् संचारं कृतवानिति यदस्ति "ते तव “सा गतिः “मायेत् मायैव । मृषेत्यर्थः। किंच "यानि "युद्धानि शत्रुविषयाणि “आहुः ब्रुवते पुराविद ऋषयः तान्यपि मायैव । कुत इति आह । "अद्य इदानीं "शत्रुं हन्तव्यं "न “विवित्से न लभसे। अद्य मा भूत् पूर्वं हतवानस्मीति यत् ब्रूषे तदपि नेत्याह । "ननु इति प्रश्ने। किं "पुरा शत्रुमलभथाः । तदपि नेत्यर्थः ॥


क उ॒ नु ते॑ महि॒मन॑ः समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः ।

यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्व१॒॑ः स्वाया॑ः ॥३

के । ऊं॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ ।

यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥३

के । ऊं इति । नु । ते । महिमनः । समस्य । अस्मत् । पूर्वे । ऋषयः । अन्तम् । आपुः ।

यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः ॥३

हे इन्द्र "ते तव "महिमनः महिम्नः "समस्य सर्वस्यापि “अन्तं पारम् "अस्मत् अस्मत्तः “पूर्व “ऋषयः “के “आपुः प्राप्नुवन् । न केऽपीत्यर्थः । यद्यपि महत्त्वं प्रख्यापयन्ति तथापि न कार्त्स्न्येनेति । तत्र कारणमाह । “यत् यस्मात् "मातरं "च "पितरं "च ।' द्यौः पिता पृथिवी माता ! ( तै. ब्रा. ३.७.५,४-५ ) इति हि श्रुतम् । अतो द्यावापृथिव्यावित्यर्थः । ते उभे अपि "साकं सहैव "स्वायाः “तन्वः स्वकीयाच्छरीरात् "अजनयथाः उदपादयः । अतो नापुरिति संबन्धः ॥


च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ सन्ति ।

त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभि॒ः कर्मा॑णि मघवञ्च॒कर्थ॑ ॥४

च॒त्वारि॑ । ते॒ । अ॒सु॒र्या॑णि । नाम॑ । अदा॑भ्यानि । म॒हि॒षस्य॑ । स॒न्ति॒ ।

त्वम् । अ॒ङ्ग । तानि॑ । विश्वा॑नि । वि॒त्से॒ । येभिः॑ । कर्मा॑णि । म॒घ॒ऽव॒न् । च॒कर्थ॑ ॥४

चत्वारि । ते । असुर्याणि । नाम । अदाभ्यानि । महिषस्य । सन्ति ।

त्वम् । अङ्ग । तानि । विश्वानि । वित्से । येभिः । कर्माणि । मघऽवन् । चकर्थ ॥४

हे इन्द्र "महिषस्य महतः पूज्यस्य “ते तव "चत्वारि "असुर्याणि असुरविघातीनि "अदाभ्यानि अन्यैरहिंस्यानि उत्तरसूक्त उपान्त्यवर्जिते ‘दूरे तन्नाम' इत्यादिषु प्रतिपादितानि यानि "नाम नामकानि शरीराणि "सन्ति “अङ्ग सखे “त्वं “तानि “विश्वानि सर्वाणि "वित्से वेत्सि जानासि । "येभिः यैः नामभिः "कर्माणि वृत्रवधादिरूपाणि "चकर्थ कुरुषे हे "मघवन् तानि वेत्सीति ॥


त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि ।

काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥५

त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि ।

काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥५

त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि ।

कामम् । इत् । मे । मघऽवन् । मा । वि । तारीः । त्वम् । आऽज्ञाता । त्वम् । इन्द्र । असि । दाता ॥५

हे इन्द्र “त्वं "विश्वा सर्वाणि "केवलानि अन्येषामसाधारणानि "वसूनि धनानि "दधिषे धारयसि । विश्वानीत्युक्तं कथं विश्वत्वमित्यत आह । “यान्याविः आविर्भूतानि सर्वैः प्रसिद्धानि वसूनि वासयोग्यानि धनानि सन्ति “या “च "गुहा गुहायां निगूढे प्रदेशे वर्तमानानि वसूनि सन्ति तानि विश्वानि दधिष इति । यस्मादेवं तस्मात् "मे मम "कामं काङ्क्षितं हे "मघवन् धनवन्निन्द्र "मा "वि “तारीः मा हिंसीः। “इत् इति पूरणः। वर्धयेति शेषः। हे “इन्द्र “त्वमाज्ञाता “असि प्रापयितासि अभिलषितं धनम् । तथा हे इन्द्र “त्वं "दाता असि ।।


यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि ।

अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥६

यः । अद॑धात् । ज्योति॑षि । ज्योतिः॑ । अ॒न्तः । यः । असृ॑जत् । मधु॑ना । सम् । मधू॑नि ।

अध॑ । प्रि॒यम् । शू॒षम् । इन्द्रा॑य । मन्म॑ । ब्र॒ह्म॒ऽकृतः॑ । बृ॒हत्ऽउ॑क्थात् । अ॒वा॒चि॒ ॥६

यः । अदधात् । ज्योतिषि । ज्योतिः । अन्तः । यः । असृजत् । मधुना । सम् । मधूनि ।

अध । प्रियम् । शूषम् । इन्द्राय । मन्म । ब्रह्मऽकृतः । बृहत्ऽउक्थात् । अवाचि ॥६

“यः इन्द्रः "ज्योतिषि द्योतमाने आदित्यादिके तेजसि “अन्तः "ज्योतिः तेजः “अदधात् धारितवान्। यदादित्याग्न्यादिषु तेजोऽस्ति तदिन्द्रकृतमित्यर्थः । "यः च "मधुना मधुरेण रसेन "मधूनि सोमादिमधुरद्रव्याणि "सम् "असृजत् समयोजयत्। यद्वा । मधुना । अत्र मधुशब्देन सर्वैः सेव्यमान आदित्य उच्यते । तेन सह मधूनि उदकानि समसृजत् । "अध संप्रति तस्मै “इन्द्राय “प्रियं प्रीतिजनकं “शूषं बलं शत्रूणां शोषकत्वाद्बलकरं "मन्म मननीयं स्तोत्रं "ब्रह्मकृतः मन्त्रकृतः "बृहदुक्थात् प्रभूतशस्त्रयुक्तादेतन्नामकादृषेर्मत्तः “अवाचि उक्तमभूत् ॥ ॥ १५ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५४&oldid=195209" इत्यस्माद् प्रतिप्राप्तम्