← सूक्तं १०.६० ऋग्वेदः - मण्डल १०
सूक्तं १०.६१
नाभानेदिष्ठो मानवः
सूक्तं १०.६२ →
दे. विश्वे देवाः। त्रिष्टुप्


इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ ।
क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् ॥१॥
स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम् ।
तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥२॥
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥३॥
कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् ।
वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥४॥
प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् ।
पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥५॥
मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम् ।
मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥६॥
पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् ।
स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥७॥
स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः ।
सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥८॥
मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः ।
सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥९॥
मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् ।
द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥१०॥
मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् ।
शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥११॥
पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः ।
वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥१२॥
तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् ।
वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥१३॥
भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः ।
अग्निर्ह नामोत जातवेदाः श्रुधी नो होतरृतस्य होताध्रुक् ॥१४॥
उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै ।
मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥१५॥
अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः ।
स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥१६॥
स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै ।
सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥१७॥
तद्बन्धुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन् ।
सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥१८॥
इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः ।
द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥१९॥
अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् ।
ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥२०॥
अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः ।
श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः ॥२१॥
अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः ।
रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥२२॥
अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः ।
विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥२३॥
अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु ।
सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥२४॥
युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।
विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥२५॥
स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः ।
वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥२६॥
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥२७॥

सायणभाष्यम्

पञ्चमेऽनुवाकेऽष्टौ सूक्तानि । तत्र ' इदमित्था ' इति सप्तविंशत्यृचं प्रथमं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षं त्रैष्टुभम् । इदमादीनि षट् सूक्तानि वैश्वदेवानि । तथा चानुक्रान्तम्--' इदमित्था सप्ताधिका नाभानेदिष्ठो मानवो वैश्वदेवं तत् ' इति । पृष्ठ्यस्य षष्ठेऽहनि वैश्वदेवशस्त्र आभिप्लविकातिदेशप्राप्तस्य उषासानक्ता इत्यस्य स्थाने इदं सूक्तम् । सूत्रितं च-'उद्धृत्य' चोत्तमं सूक्तं त्रीणीदमित्था रौद्रमिति ' ( आ. श्रौ. ८.१.२०) इति । अत्रैतरेयब्राह्मणं-' नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्त्सोऽब्रवीदेत्य किं मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवन् ' ( ऐ. ब्रा. ५.१४) इत्यादि । तत्र नाभानेदिष्ठो भ्रातृभिर्भागे निराकृतः पितृसामीप्यमागत्य किं मह्यं भागं च कल्पितवानसीत्यपृच्छत् । स च किमनेन भागेन । अङ्गिरसः स्वर्गार्थं सत्रमासीनाः षष्ठाहःपर्यन्तमनुष्ठाय मुह्यन्ति । तान् ' इदमित्था ' इति सूक्ते शंसय ते स्वर्गं यन्तो वसिष्ठा गाः सहस्रसंख्याकान् दास्यन्तीति पित्रा प्रेरितोऽङ्गिरसां समीपमागत्य तेभ्यः सत्रपरिवेषणं गोसहस्रमुत्कोचं परिकल्प्य तानेते सूक्ते षष्ठेऽहन्यशंसयत् । ते च तत्सूक्तसामर्थ्याद्यज्ञं पारं प्रापय्य स्वर्जिगमिषवोऽस्मै गोसहस्रं प्रादुः । तं च तद्गोसहस्रं स्वीकुर्वाणं कश्चन कृष्णशवासी पुरुष उत्तरत उत्थाय ब्राह्मण मदीयं यज्ञशेषभागं मा स्वीकुर्वित्यब्रवीत् । स च मह्यमङ्गिरसः प्रादुरिति प्रत्यब्रवीत् । तर्हि ब्राह्मण तव पितरमेव पृच्छ कस्मै भागः प्राप्नुयादित्युक्तः पितृसमीपमागत्य पित्रा रुद्रायायं न्याय्य इति तेनोक्तस्तवैवायं भाग इति मम पिताब्रवीदिति प्रत्युवाच । ततो यथार्थकथनेन तुष्टः पुरुषो नाभानेदिष्ठायैव स्वं भागं प्रादादित्युक्तम् । तथाध्वर्युब्राह्मणेऽपि ' मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठः ' ( तै. सं. ३.१.९.४) इत्यादिनायमर्थ उक्तः । तत्सर्वमत्रानुसंधेयम् ।।


इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑म॒न्तरा॒जौ ।

क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥१

इ॒दम् । इ॒त्था । रौद्र॑म् । गू॒र्तऽव॑चाः । ब्रह्म॑ । क्रत्वा॑ । शच्या॑म् । अ॒न्तः । आ॒जौ ।

क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा॑ । मं॒ह॒ने॒ऽस्थाः । पर्ष॑त् । प॒क्थे । अह॑न् । आ । स॒प्त । होतॄ॑न् ॥१

इदम् । इत्था । रौद्रम् । गूर्तऽवचाः । ब्रह्म । क्रत्वा । शच्याम् । अन्तः । आजौ ।

क्राणा । यत् । अस्य । पितरा । मंहनेऽस्थाः । पर्षत् । पक्थे । अहन् । आ । सप्त । होतॄन् ॥१

“गूर्तवचाः उद्यतवचनो नाभानेदिष्ठः “इदं “ब्रह्म स्तोत्रं “रौद्रं रुद्रप्रणीतम् “इत्था इत्थमिदानींक्रियमाणप्रकारं “क्रत्वा प्रज्ञानेन निष्पाद्यं स्तोत्रं “शच्यामन्तः कर्मणि सत्रमध्ये “आजौ अङ्गिरसां संघे करोतीति शेषः । “यत् स्तोत्रं “क्राणा भागं कुर्वाणा भागं कुर्वाणौ “अस्य “पितरा पितरावन्ये च “मंहनेष्ठाः भागप्रदाने वर्तमाना भ्रातरश्च गोलाभसाधनत्वेनाकल्पयन्निति शेषः । तेन नाभानेदिष्ठः “पक्थे पक्तव्ये “अहन् अहनि। षष्ठेऽहनीत्यर्थः । ‘ ते षष्ठंषष्ठमेवाहरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय ' ( ऐ. ब्रा. ५.१४ ) इत्युक्तत्वात् । “सप्त होतॄन् होतृप्रशास्तृब्राह्मणाच्छंस्यादिकान् “आ “पर्षत् सर्वतोऽपूरयत् । इदमित्थेति सूक्ताभ्यां यज्ञं पारं प्रापयामासेत्यर्थः ॥


स इद्दा॒नाय॒ दभ्या॑य व॒न्वञ्च्यवा॑न॒ः सूदै॑रमिमीत॒ वेदि॑म् ।

तूर्व॑याणो गू॒र्तव॑चस्तम॒ः क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिञ्चत् ॥२

सः । इत् । दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सूदैः॑ । अ॒मि॒मी॒त॒ । वेदि॑म् ।

तूर्व॑याणः । गू॒र्तव॑चःऽतमः । क्षोदः॑ । न । रेतः॑ । इ॒तःऽऊ॑ति । सि॒ञ्च॒त् ॥२

सः । इत् । दानाय । दभ्याय । वन्वन् । च्यवानः । सूदैः । अमिमीत । वेदिम् ।

तूर्वयाणः । गूर्तवचःऽतमः । क्षोदः । न । रेतः । इतःऽऊति । सिञ्चत् ॥२

“स “इत् स कृष्णशवासी पुरुषो रुद्राख्यः "दानाय स्तोतॄणां धनप्रदानाय “दभ्याय शत्रूणां वधाय च "वन्वन् स्तोतॄन् संभजन् “सूदैः सूदकैर्हिंसकैः शस्त्रैः “च्यवानः रक्षांसि च्यावयन् “वेदिम् “अमिमीत परिमितवान् । यज्ञवास्त्वधिष्ठितवानित्यर्थः । ‘तं कृष्णशवास्युत्तरत' उपोत्थायाब्रवीन्मम' वा इदं मम वै वास्तुहमिति' ( ऐ. ब्रा. ५. १४ ) इति ब्राह्मणम् । तदेवाह । “तूर्वयाणः तूर्णगमनः “गूर्तवचस्तमः अत्यन्तमुद्यतवचा रुद्रः “क्षोदो “न उदकमिव । उदकं यथा घनः सिञ्चति तद्वत् “रेतः स्वसामर्थ्यम् “इतऊति इतोगमनवद्यथा भवति तथा “सिञ्चत् प्रेरितवानित्यर्थः । यद्वा । अनेनोत्तरार्धेनोत्तराभ्यां च प्रासङ्गिक्यश्विनोः स्तुतिः क्रियते । तूर्वयाणस्तूर्णगमनोऽतिशयेनोद्यतवचनो रुद्रः क्षोदो न उदकमिव रेत उत्पादनसामर्थ्योपेतं रेत इतऊति सिञ्चत् जनयामासाश्विनौ । अन्यत्रेतऊतीत्यश्विनोरभिधानादन्यत्र तयो रुद्रपुत्रत्वसिद्धेश्चायमर्थो लभ्यते ॥ ।


मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒ः शच्या॑ वनु॒थो द्रव॑न्ता ।

आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥३

मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता ।

आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥३

मनः । न । येषु । हवनेषु । तिग्मम् । विपः । शच्या । वनुथः । द्रवन्ता ।

आ । यः । शर्याभिः । तुविऽनृम्णः । अस्य । अश्रीणीत । आऽदिशम् । गभस्तौ ॥३

हे अश्विनौ युवां “मनो “न मन इव यथा मनः “तिग्मं तीक्ष्णमाशु धावति आगच्छति एवं "येषु 'हवनेषु आह्वानेषु “विपः स्तोतुः “शच्या प्रज्ञानेन गन्तव्यमिति बुद्ध्या “द्रवन्ता द्रवन्तौ गच्छन्तौ “वनुथः संभजथ:। “यः अध्वर्युः “आ आभिमुख्येन “तुविनृम्णः प्रभूतहविर्लक्षणधनः सन् “अस्य कर्मणि प्रवृत्तस्य मम संबन्धी “शर्याभिः अङ्गुलीभिः “अश्रीणीत श्रीणाति । किं कृत्वा । “गभस्तौ हस्ते धृत्वा “आदिशम् आदिश्य । इदमश्विभ्यामिति निर्दिश्येत्यर्थः । तादृशं मदीयमध्वर्युं येषु हवनेषु “वनुथः संभजथः तौ युवां हुव इत्युत्तरत्र संबन्धः ॥


कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वाम् ।

वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥४

कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् ।

वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥४

कृष्णा । यत् । गोषु । अरुणीषु । सीदत् । दिवः । नपाता । अश्विना । हुवे । वाम् ।

वीतम् । मे । यज्ञम् । आ । गतम् । मे । अन्नम् । ववन्वांसा । न । इषम् । अस्मृतध्रू इत्यस्मृतऽध्रू ॥४

“कृष्णा रात्रिः “यत् यदा "अरुणीषु अरुणवर्णासु “गोषु “सीदत् निवसति । उषा विभासनाय रथमधितिष्ठतीत्यर्थः । ‘ अरुण्यो गाव उषसाम् ' इति निरुक्तम् । उषःकाले हे “दिवो “नपाता दीप्यमानस्य स्वर्गस्य प्रकाशात्मकस्य यागस्य वा न पातयितारौ हे अश्विनौ "वां “हुवे आह्वये । “वीतं कामयेथां “मे “अन्नं हविर्लक्षणम् । तदर्थं "मे “यज्ञम् “आ “गतम् आगच्छतम् । “इषम् अन्नं "ववन्वांसा “न संभजमानावश्वाविव । तद्वदागतम् । कीदृशौ युवाम् । “अस्मृतध्रू अस्मृतद्रोहौ मयि द्रोहमस्मरन्तौ ॥


प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।

पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥५

प्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् ।

पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥५

प्रथिष्ट । यस्य । वीरऽकर्मम् । इष्णत् । अनुऽस्थितम् । नु । नर्यः । अप । औहत् ।

पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥५

यथा स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोऽपतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । “यस्य प्रजापतेः “इष्णत् एषणवत् "वीरकर्मम् । लिङ्गव्यत्ययः। वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः “प्रथिष्ट प्रथितमासीत् तद्रेतः “अनुष्ठितं प्रजापतिनापत्यार्थं निषिक्तं “नर्यः नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रः “अपौहत् अपोहति । तदेवाह । “पुनस्तत् रेतः “आ “वृहति सर्वत उत्खिदति उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन् । कीदृशं रेतः । “यत् रेतः “कनायाः कान्तायाः "दुहितुः स्वपुत्र्याः तस्यामित्यर्थः । तत्र प्रजापतिना “अनुभृतम् “आः आसीत् । अस्तेः सिपि - - । कीदृशो रुद्रः । “अनर्वा अन्यस्मिन्नप्रत्यृतः । ‘ प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये ' (ऐ, ब्रा. ३. ३३ ) इति ब्राह्मणम् ॥ ॥ २६ ॥


म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् ।

म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥६

म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् ।

म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥६

मध्या । यत् । कर्त्वम् । अभवत् । अभीके । कामम् । कृण्वाने । पितरि । युवत्याम् ।

मनानक् । रेतः । जहतुः । विऽयन्ता । सानौ । निऽसिक्तम् । सुऽकृतस्य । योनौ ॥६

“कामं यथेच्छं “कृण्वाने कुर्वाणे “पितरि प्रजापतौ “युवत्यां दुहितर्युषसि दिवि वा । ‘ दिवमित्यन्ये ' इति हि ब्राह्मणं प्रदर्शितम् । “मध्या तयोर्मध्येऽन्तरिक्षमध्ये वा “अभीके समीपे “यत् “कर्त्वं कर्म “अभवत् मिथुनीभावाख्यं तदानीं “मनानक् अल्पं “रेतः “जहतुः त्यक्तवन्तौ । किं कुर्वाणाविति तत्राह। “वियन्तौ परस्परमभिगच्छन्तौ । प्रजापतिना “सानौ समुच्छ्रिते स्थाने “सुकृतस्य यज्ञस्य “योनौ “निषिक्तम् आसीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः ॥


पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् ।

स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥७

पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।

सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥७

पिता । यत् । स्वाम् । दुहितरम् । अधिऽस्कन् । क्ष्मया । रेतः । सम्ऽजग्मानः । नि । सिञ्चत् ।

सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥७

“पिता प्रजापतिः “यत् यदा “स्वां “दुहितरं दिवमुषसं वा “अधिष्कन् अध्यस्कन्दत् तदानीमेव “क्ष्मया पृथिव्या सह “संजग्मानः संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितं भूतामृश्यो भूत्वा “रेतः “नि “षिञ्चत् निषेकमकरोत् । ‘तामृश्यो भूत्वा रोहितं भूतामभ्यैत् ' (ऐ. ब्रा, ३. ३३ ) इति ब्राह्मणम् । तदानीं “स्वाध्यः सुध्यानाः सुकर्माणो वा “देवाः “ब्रह्म “अजनयन् उदपादयन् । किं तद्ब्रह्मेति तदाह । “वास्तोष्पतिं यज्ञवास्तुस्वामिनं “व्रतपां व्रतस्य कर्मणः रक्षःप्रभृतिभ्यः पालकं “निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः ॥


स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।

सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥८

सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः ।

सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥८

सः । ईम् । वृषा । न । फेनम् । अस्यत् । आजौ । स्मत् । आ । परा । ऐत् । अप । दभ्रऽचेताः ।

सरत् । पदा । न । दक्षिणा । पराऽवृक् । न । ताः । नु । मे । पृशन्यः । जगृभ्रे ॥८

अङ्गिरसां सत्रान्ते नाभानेदिष्ठो गोनिरोधायागच्छन्तं वास्तोऽपतिं पुरतः पश्यन् वदति । “स “ईम् सोऽयं “वृषा “न वर्षक इन्द्र इव स यथा नमुचिवधार्थम् “आजौ संग्रामे “फेनमस्यत् क्षिप्तवान् तद्वत्क्षेपमना वास्तोष्पतिरिदानीं तवैव वास्तुभागो युक्त इति यथार्थकथनानन्तरं “स्मत् अस्मत्तः “आ “अप “परैत् अपपरागच्छति । "दभ्रचेताः अल्पमनस्को यः कश्चित् “दक्षिणा दक्षिणार्थानां गवां “परावृक् परावर्जयिता सन् "पदा पदानि “न “सरत् न सरति अस्मदभिमुखमागच्छति । “मे मम संबन्धिन्यः “ताः गाः अङ्गिरोभिर्दत्ताः “पृशन्यः पथिकानामभिस्पर्शनकुशलो रुद्रः “न “जगृभ्रे न गृह्णातीत्येवमाशास्ते ॥


म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।

सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥९

म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सी॒द॒त् । ऊधः॑ ।

सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥९

मक्षु । न । वह्निः । प्रऽजायाः । उपब्दिः । अग्निम् । न । नग्नः । उप । सीदत् । ऊधः ।

सनिता । इध्मम् । सनिता । उत । वाजम् । सः । धर्ता । जज्ञे । सहसा । यविऽयुत् ॥९

वास्तोपतिना रुद्रेण गोप्यमानेऽस्मिन् यज्ञे “वह्निः वह्निवद्दाहको राक्षसादिः “मक्षु ”न शीघ्रं न “उप “सीदत् नागच्छति । यो वह्निः “प्रजायाः “उपब्दिः उपपीडको भवति । यज्ञविघातार्थमागच्छति । ऋत्विगादिरूपायाः प्रजाया न पीडां करोत्यहनि । तथा “ऊधः । रात्रिनामैतत् । रात्रावपि “अग्निं ज्वलन्तं “नग्नः विवसनो राक्षसादिः “न “उप सीदत् । एवं रुद्रे रक्षितरि सति सः अग्निः “इध्मं “सनिता “जज्ञे उत्पन्नः । “उत अपि च “वाजम् अन्नं हविः “सनिता जज्ञे। “स “धर्ता यज्ञस्य फलस्य वा धारक उत्पन्नः सोऽग्निः “सहसा बलेन "यवीयुत् यज्ञमिश्रयितॄणां रक्षःप्रभृतीनां योद्धा जज्ञे ॥


म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् ।

द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥१०

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् ।

द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒धु॒क्ष॒न् ॥१०

मक्षु । कनायाः । सख्यम् । नवऽग्वाः । ऋतम् । वदन्तः । ऋतऽयुक्तिम् । अग्मन् ।

द्विऽबर्हसः । ये । उप । गोपम् । आ । अगुः । अदक्षिणासः । अच्युता । दुधुक्षन् ॥१०

“नवग्वाः अङ्गिरसः । गवामयनाख्यं सत्रमनुतिष्ठतामङ्गिरसां मध्ये ये नवसु मासेषु लब्धगावः सन्त उत्थितास्ते नवग्वाः । ते “ऋतं “वदन्तः “मक्षु शीघ्रं “कनायाः कमनीयायाः स्तुतेर्नाभानेदिष्ठप्रेरितायाः सकाशात् “ऋतयुक्तिम् उक्तयोगपरिसमाप्तिम् “अग्मन् प्राप्ताः । यद्वा । ऋतयुक्तिं यज्ञयोगोपेतमृतं शब्दं स्तुतिं वदन्तोऽङ्गिरसः कनायाः पृश्न्याः सख्यमग्मन्निति योजना । “द्विबर्हसः द्वयोः स्थानयोर्द्यावापृथिव्योः परिवृढाः "ये अङ्गिरसः “गोपं गोपायितारं नाभानेदिष्ठमिन्द्रं वा उप “आगुः उपगताः ते “अदक्षिणासः दक्षिणारहिताः । अदक्षिणानि सत्राणीत्याहुः ' इति हि वचनं ' ये यजमानास्त ऋत्विजः' इति । ते च "अच्युता उदकान्यक्षीणानि फलानि वा दुधुक्षन् ॥ ॥ २७ ॥


म॒क्षू क॒नायाः॑ स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् ।

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒ः पय॑ उ॒स्रिया॑याः ॥११

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् ।

शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ॒ऽअय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥११

मक्षु । कनायाः । सख्यम् । नवीयः । राधः । न । रेतः । ऋतम् । इत् । तुरण्यन् ।

शुचि । यत् । ते । रेक्णः । आऽअयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥११

"मक्षु शीघ्रं “कनायाः कमनीयाया घर्मदोग्ध्र्याः "नवीयः नवतरं “सख्यम् । प्राप्येति शेषः । अथवा नवीय इति राधोविशेषणम् । नवतरं “राधः धनमिव “रेतः सिच्यमानम् “ऋतम् उदकं “तुरण्यन दिवः सकाशात्प्रेरितवन्तः । हे इन्द्र “ते तुभ्यं “यत् यदा “रेक्णः पाथोलक्षणं धनम् “आ अभिमुखम् “अयजन्त अपूजयन् । कीदृशं रेक्णः । “सबर्दुघायाः । सबरित्यमृतनाम । अमृतदोग्ध्र्याः “उस्रियायाः गोः “पयः पानयोग्यं रसम् । तदोदकं तुरण्यन्निति । अत्राध्वर्युब्राह्मणम् - ‘अङ्गिरसो वै सत्रमासत तेषां पृश्निर्घर्मधुगासीत् सर्जीषेणाजीवत् तेऽब्रुवन् कस्मै नु सत्रमास्महे येऽस्या ओषधीर्न जनयाम इति ते दिवो वृष्टिमसृजन्त' (तै, ब्रा. २. १. १. १ ) इति ॥


प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः ।

वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥१२

प॒श्वा । यत् । प॒श्चा । विऽयु॑ता । बु॒धन्त॑ । इति॑ । ब्र॒वी॒ति॒ । व॒क्तरि॑ । ररा॑णः ।

वसोः॑ । व॒सु॒ऽत्वा । का॒रवः॑ । अ॒ने॒हा । विश्व॑म् । वि॒वे॒ष्टि॒ । द्रवि॑णम् । उप॑ । क्षु ॥१२

पश्वा । यत् । पश्चा । विऽयुता । बुधन्त । इति । ब्रवीति । वक्तरि । रराणः ।

वसोः । वसुऽत्वा । कारवः । अनेहा । विश्वम् । विवेष्टि । द्रविणम् । उप । क्षु ॥१२

“यत् यदा स्तोतारः “पश्वा पशुना । गोसमूहेनेत्यर्थः । तेन "वियुता वियुक्तानि स्वकीयानि गोस्थानानि “पश्चा पश्चात् “बुधन्त अजानन्। तदानीं “कारवः । कारुरित्यर्थः । स्तोता “इति “ब्रवीति इत्थं ब्रूते । किमिति। “वक्तरि स्तोतरि “रराणः रममाणः “वसोः वासकात् "वसुत्वा अतिशयेन वासयिता। यद्वा । वसुत्वेति समूहार्थे त्वा नामकरणः । गोरूपधनवतोऽतिशयेन गोसमूहवानित्यर्थः । “अनेहा अपाप इन्द्रः “विश्वं सर्वं “द्रविणं गोरूपं पणिभिरपहृतं धनं “क्षु । मक्ष्वित्यर्थः । शीघ्रम् “उप “विवेष्टि उपव्याप्नोति पुनरादातुम् । अयमर्थः । यदेन्द्रस्य स्तोतारोऽसुरैरपहृतमात्मीयं गोधनं जानन्ति ततः प्रागेवागत्येन्द्रस्तं न्यरुधदिति ॥


तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् ।

वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥१३

तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् ।

वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य॑ । गुहा॑ । यत् ॥१३

तत् । इत् । नु । अस्य । परिऽसद्वानः । अग्मन् । पुरु । सदन्तः । नार्सदम् । बिभित्सन् ।

वि । शुष्णस्य । सम्ऽग्रथितम् । अनर्वा । विदत् । पुरुऽप्रजातस्य । गुहा । यत् ॥१३

“तदित् तत्रैव “नु क्षिप्रम् “अस्य इन्द्रस्य “परिषद्वानः परितो वर्तमानाः परिचारका रश्मयः “अग्मन् प्रकाशनार्थमगच्छन् । “पुरु पुरूणि कृत्रिमाणि “सदन्तः सीदन्तोऽसुराः 'नार्षदं नृषदः पुत्रं “बिभित्सन् भेत्तुमैच्छन् । किंचायं “शुष्णस्य एतन्नामकस्यासुरस्य “पुरुप्रजातस्य बहुप्रादुर्भावस्य “संग्रथितं मर्मं “विदत् वेत्ति । अयमिन्द्रः “यत् असुरस्य दुर्ज्ञेयं मर्म “गुहा गुहायां गोपितं तद्विदत्॥


भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः ।

अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतरृ॒तस्य॒ होता॒ध्रुक् ॥१४

भर्गः॑ । ह॒ । नाम॑ । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः ।

अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥१४

भर्गः । ह । नाम । उत । यस्य । देवाः । स्वः । न । ये । त्रिऽसधस्थे । निऽसेदुः ।

अग्निः । ह । नाम । उत । जातऽवेदाः । श्रुधि । नः । होतः । ऋतस्य । होता । अध्रुक् ॥१४

“उत अपि च भर्गो “ह “नाम तत्तेजः किल प्रसिद्धं “यस्य तेजस आग्नेयस्य संबन्धिनि “त्रिषधस्थे बर्हिषि “ये “देवाः सन्ति ते सवें “स्वर्ण स्वर्गे यथा तथैव “निषेदुः निषीदन्ति । "उत अपि च तत्तेजः “अग्निर्ह “नाम अग्निः किल नाम । उतापि च "जातवेदाः जातप्रज्ञो जातानां वेदिता एतदपि तस्य तेजसो नाम । अग्नेर्भर्ग इत्यग्निरिति जातवेदा इति च त्रीणि नामानीत्यर्थः । अथ प्रत्यक्षकृतः । हे “होतः होमनिष्पादकोक्तनामाग्ने “ऋतस्य “होता यज्ञस्य संबन्धिनां देवानामाह्वाता “अध्रुक् द्रोहरहितस्त्वं “नः अस्माकमाह्वानं “श्रुधि शृणु ॥


उ॒त त्या मे॒ रौद्रा॑वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै ।

म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥१५

उ॒त । त्या । मे॒ । रौद्रौ॑ । अ॒र्चि॒ऽमन्ता॑ । नास॑त्यौ । इ॒न्द्र॒ । गू॒र्तये॑ । यज॑ध्यै ।

म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषे । ररा॑णा । म॒न्दू इति॑ । हि॒तऽप्र॑यसा । वि॒क्षु । यज्यू॒ इति॑ ॥१५

उत । त्या । मे । रौद्रौ । अर्चिऽमन्ता । नासत्यौ । इन्द्र । गूर्तये । यजध्यै ।

मनुष्वत् । वृक्तऽबर्हिषे । रराणा । मन्दू इति । हितऽप्रयसा । विक्षु । यज्यू इति ॥१५

“उत अपि च हे “इन्द्र “त्या तौ प्रसिद्धौ “रौद्रौ रुद्रपुत्रौ । ‘क्षोदो न रेत इतऊति सिञ्चत् ' (ऋ. सं. १०. ६१. २) इति हि रुद्रपुत्रत्वमुक्तम् । “अर्चिमन्ता दीप्तिमन्तौ “नासत्यौ अश्विनौ “मे “गूर्तये स्तुतये “यजध्यै यागाय च भवेतामिति शेषः । किंच “मनुष्वत् मम पितुर्मनोरिव तस्य यज्ञे यथा तथैव “वृक्तबर्हिषे स्तीर्णबर्हिषे मह्यं “रराणा रममाणौ “मन्दू मदिष्णू “हितप्रयसा प्रेरितधनौ “विक्षु ऋत्विक्ष्वस्मदीयेषु तथा “यज्यू यष्टव्यौ भवतमिति शेषः ॥ ॥ २८ ॥


अ॒यं स्तु॒तो राजा॑ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः ।

स क॒क्षीव॑न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥१६

अ॒यम् । स्तु॒तः । राजा॑ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः॑ । त॒र॒ति॒ । स्वऽसे॑तुः ।

सः । क॒क्षीव॑न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व॑तः । र॒घु॒ऽद्रु ॥१६

अयम् । स्तुतः । राजा । वन्दि । वेधाः । अपः । च । विप्रः । तरति । स्वऽसेतुः ।

सः । कक्षीवन्तम् । रेजयत् । सः । अग्निम् । नेमिम् । न । चक्रम् । अर्वतः । रघुऽद्रु ॥१६

“अयं “वेधाः सर्वस्य विधाता “राजा सोमः “स्तुतः सर्वैः “वन्दि स्तूयतेऽस्माभिः । किंच “विप्रः विशेषेण पूरको विप्रवच्छुद्धो वा “स्वसेतुः यस्य स्वभूता रश्मयो जगद्बन्धकाः सन्ति स सोमः “अपश्च अन्तरिक्षं च “तरति लङ्घयति प्रतिदिनम् । “सः सोमः “कक्षीवन्तम् ऋषिं पर्वतमध्ये सोमार्थं गतं "रेजयत् अकम्पयत्। “सः स एव “अग्निं हविर्वोढुमशक्तं सन्तं पलाय्याप्सु प्रविष्टं रेजयत् । कम्पने दृष्टान्तः । "नेमिं नमनशीलं "रघुद्रु लघुगमनं “चक्रम् "अर्वतः अर्वन्तोऽश्वा इव ते यथा तथा रेजयत् । नुमभावश्छान्दसः ।।


स द्वि॒बन्धु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ ।

सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥१७

सः । द्वि॒ऽबन्धुः॑ । वै॒त॒र॒णः । यष्टा॑ । स॒बः॒ऽधुम् । धे॒नुम् । अ॒स्व॑म् । दु॒हध्यै॑ ।

सम् । यत् । मि॒त्रावरु॑णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे॑भिः । अ॒र्य॒मण॑म् । वरू॑थैः ॥१७

सः । द्विऽबन्धुः । वैतरणः । यष्टा । सबःऽधुम् । धेनुम् । अस्वम् । दुहध्यै ।

सम् । यत् । मित्रावरुणा । वृञ्जे । उक्थैः । ज्येष्ठेभिः । अर्यमणम् । वरूथैः ॥१७

“सः अग्निः “द्विबन्धुः द्वयोर्लोकियोर्बन्धुभूतः “वैतरणः सर्वस्य विशेषेण तारयिता । यद्वा । वितरणार्हो हविष्प्रदानार्हः । “यष्टा देवानां याजकोऽग्निः सबर्धुम् अमृतोपमपयोदोग्ध्रीं “धेनुम् “अस्वम् अप्रसूतां निवृत्तप्रसवां शयवे “दुहध्यै दोहायाकरोत् । “यत् यदा स शयुः मित्रावरुणौ “अर्यमणं च “ज्येष्ठेभिः ज्येष्ठैः प्रशस्तैः “वरूथैः वरणीयैः “उक्थैः शस्त्रैः “सं “वृञ्जे सम्यक्स्तौति । यदा स शयुर्मित्रावरुणार्यम्णां स्तुतिं करोति तदा तेषामाज्ञयाग्निर्निवृत्तप्रसवां पयोदोग्ध्रीमकरोदिति ॥


तद्ब॑न्धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् ।

सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥१८

तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् ।

सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥१८

तत्ऽबन्धुः । सूरिः । दिवि । ते । धियम्ऽधाः । नाभानेदिष्ठः । रपति । प्र । वेनन् ।

सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥१८

“तद्बन्धुः । सैव पृथिवी बन्धुकोत्पत्त्यधिष्ठानत्वेन यस्यासौ तद्बन्धुः । तन्मातृक इत्यर्थः । “सूरिः स्तुतेः प्रेरकः “दिवि वर्तमानस्य “ते तव स्वभूत इति शेषः । त्वदपत्यभूत इति यावत् । षष्ठीसामर्थ्यात्संबन्धसामान्यं प्रतीयते । तच्चादित्यपुत्रो मनुर्मनोः पुत्रो नाभानेदिष्ठ इत्येवं सूर्यापत्यत्वेऽपि पर्यवस्यति । सूर्यनाभानेदिष्ठयोः संबन्धश्चरमपाद उत्तरमन्त्रे च वक्ष्यते । स च “धियंधाः कर्मणां धारको “नाभानेदिष्ठः "वेनन् अङ्गिरोदत्तं गोसहस्रं वेनन् कामयन् “प्र “रपति प्रलपति । स्तौतीत्यर्थः। “वा अपि चेत्यर्थः । “सा द्यौः “नः अस्माकं “परमा उत्कृष्टा “नाभिः बन्धिका च "अस्य आदित्यस्य अधिष्ठानभूतास्ति । “घ इति पूरणः । “अहं “तत् तस्यादित्यस्य “पश्चा पश्चादनन्तरं “कतिथः कतिपयानां पूरणः “आस अभवम् । अनेन ममादित्येन जन्यजनकभावः संबन्धः संनिकृष्ट इत्युक्तं भवति ॥


इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ ।

द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥१९

इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ ।

द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥१९

इयम् । मे । नाभिः । इह । मे । सधऽस्थम् । इमे । मे । देवाः । अयम् । अस्मि । सर्वः ।

द्विऽजाः । अह । प्रथमऽजाः । ऋतस्य । इदम् । धेनुः । अदुहत् । जायमाना ॥१९

“इयं माध्यमिका वाक् “मे “नाभिः संनाहिनी । आदित्यस्य तस्याश्चाभेदादस्यर्षेर्माध्यमिका वाग्बन्धिका भवति । तथा च ब्राह्मणं -- सा या वागसौ स आदित्यः ' (श. ब्रा. १०.५.१.४ ) इति ब्राह्मणम्। “इह अस्मिन्मण्डले “मे मम “सधस्थं स्थानम् । “इमे मे “देवाः द्योतमाना रश्मयः “मे मम स्वभूताः । “अयम् अहम् “अस्मि “सर्वः । सूर्यस्य स्वस्योक्तेन प्रकारेणाभेदात्तद्वावभरा सर्वात्मक त्वम् । अह किंचेत्यर्थः । “द्विजाः विप्राः “ऋतस्य “प्रथमजाः सत्यस्य प्रथमजाः सत्यभूतस्य ब्रह्मणः प्रथमोत्पन्नाः । “धेनुः पृश्निदेवता माध्यमिका वाक् “जायमाना “इदं सर्वम् “अदुहत् दुदोह । उदपादयदित्यर्थः ।।


अधा॑सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् ।

ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥२०

अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् ।

ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥२०

अध । आसु । मन्द्रः । अरतिः । विभाऽवा । अव । स्यति । द्विऽवर्तनिः । वनेषाट् ।

ऊर्ध्वा । यत् । श्रेणिः । न । शिशुः । दन् । मक्षु । स्थिरम् । शेऽवृधम् । सूत । माता ॥२०

“अध अथ “आसु चतसृषु दिक्षु “मन्द्रः मोदमानः “अरतिः गन्ता “विभावा दीप्तिमान् “द्विवर्तनिः द्वयोः लोकयोः गन्ता “वनेषाट् वने काष्ठानामभिभविताग्निः “अत्र “स्यति अवसन्नो भवति यागार्थम् । “यत् च योऽग्निः “ऊर्ध्वा उन्मुखा “श्रेणिर्न “शिशुः शंसनीयः सेनेव “मक्षु शीघ्रं “दन् शत्रून् दमयति तमिमं “स्थिरं निश्चलं “शेवृधं सुखस्य वर्धकं “माता अरणिः “सूत यज्ञे जनयामास ॥ ॥ २९ ॥


अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः ।

श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥२१

अध॑ । गावः॑ । उप॑ऽमातिम् । क॒नायाः॑ । अनु॑ । श्वा॒न्तस्य॑ । कस्य॑ । चि॒त् । परा॑ । ई॒युः॒ ।

श्रु॒धि । त्वम् । सु॒ऽद्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒ऽघ्नस्य॑ । व॒वृ॒धे॒ । सू॒नृता॑भिः ॥२१

अध । गावः । उपऽमातिम् । कनायाः । अनु । श्वान्तस्य । कस्य । चित् । परा । ईयुः ।

श्रुधि । त्वम् । सुऽद्रविणः । नः । त्वम् । याट् । आश्वऽघ्नस्य । ववृधे । सूनृताभिः ॥२१

“अध संप्रति “कस्य “चित् “श्वान्तस्य प्रवृद्धस्य श्रान्तस्य वा । आत्मनो निर्देशः । ईदृशस्य नाभानेदिष्ठस्य “कनायाः कमनीयायाः स्तुतेः “गावः वाचः । यद्वा । वाचः स्तुतयः कनायाः कमनीयायाः स्तुतेः “उपमातिम् उपमानभूतमिन्द्रम् “अनु “परेयुः अनु परागच्छन्ति । हे “सुद्रविणः सुधनाग्ने “त्वं “श्रुधि शृणु। “नः अस्माकमिममिन्द्रं "याट् अयाट् यज । “त्वं च “आश्वघ्नस्य अश्वघ्नोऽश्वमेधयाजी मनुः तस्य पुत्रस्य मम "सूनृताभिः स्तुतिभिः “ववृधे वर्धसे । पुरुषव्यत्ययः । अथवायं वर्धत इति परोक्षेण निर्देशः ॥


अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः ।

रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥२२

अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः ।

रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥२२

अध । त्वम् । इन्द्र । विद्धि । अस्मान् । महः । राये । नृऽपते । वज्रऽबाहुः ।

रक्ष । च । नः । मघोनः । पाहि । सूरीन् । अनेहसः । ते । हरिऽवः । अभिष्टौ ॥२२

हे “इन्द्र “अध अधुना “वज्रबाहुः त्वम् “अस्मान् “महः महते “राये धनाय “विद्धि जानीहि । हे इन्द्र “मघोनः हविष्मतः “सूरीन स्तुतिप्रेरकान् “नः अस्मान् “रक्ष “च । हे “हरिवः हरिभ्यां तद्वन्निन्द्र "ते तव “अभिष्टौ अभिगमने “अनेहसः अपापाः स्यामेति शेषः ॥


अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः ।

विप्र॒ः प्रेष्ठ॒ः स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥२३

अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः ।

विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॑ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥२३

अध । यत् । राजाना । गोऽइष्टौ । सरत् । सरण्युः । कारवे । जरण्युः ।

विप्रः । प्रेष्ठः । सः । हि । एषाम् । बभूव । परा । च । वक्षत् । उत । पर्षत् । एनान् ॥२३

हे “राजाना राजमानौ मित्रावरुणौ “अध अधुना सत्रसमाप्तौ “यत् यस्मात् “गविष्टौ गवामेषणायां सत्यां “सरण्युः सरणशीलो यमः “सरत् गच्छति “कारवे कर्माणि कुर्वतेऽङ्गिरसां गणाय । किमिच्छन् । “जरण्युः तस्मा अङ्गिरसां गणाय स्तुतिमिच्छन् । तस्मात् “सः “विप्रः नाभानेदिष्ठः “एषाम् अङ्गिरसां “प्रेष्ठः प्रियतमः बभूव भवतु । “हि इति पूरणः । तेषां कर्तव्यं “परा “च “वक्षत परावहतु । “उत अपि च “एनान् अङ्गिरसः “पर्षत् पारयतु इत्यात्मन एवाशास्ते ॥


अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ॑न्त ईमहे॒ तदू॒ नु ।

स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥२४

अध॑ । नु । अ॒स्य॒ । जेन्य॑स्य । पु॒ष्टौ । वृथा॑ । रेभ॑न्तः । ई॒म॒हे॒ । तत् । ऊं॒ इति॑ । नु ।

स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः॑ । विप्रः॑ । च॒ । अ॒सि॒ । श्रव॑सः । च॒ । सा॒तौ ॥२४

अध । नु । अस्य । जेन्यस्य । पुष्टौ । वृथा । रेभन्तः । ईमहे । तत् । ऊं इति । नु ।

सरण्युः । अस्य । सूनुः । अश्वः । विप्रः । च । असि । श्रवसः । च । सातौ ॥२४

अनया वरुणं पृथक् स्तौति । “अध अथ “नु क्षिप्रम् “अस्य “जेन्यस्य जयशीलस्य स्तुत्या जेतव्यस्य वा “तत् स्वभूतं गवादिधनं “पुष्टौ पोषे निमित्ते सति तस्य पुष्ट्यर्थं वा “वृथा अनायासेन “रेभन्तः स्तुवन्तः “नु क्षिप्रम् “ईमहे याचामहे । “सरण्युः शीघ्रसरणशीलः “अश्वः “अस्य वरुणस्य “सूनुः पुत्रः । वरुणाद्य्“श्व उत्पन्न: । अथ प्रत्यक्षकृतः । हे वरुण त्वं “विप्रश्चासि विप्रवत्पूज्यः शुद्धो वा भवसि । “श्रवसश्च अन्नस्य “सातौ लाभे अस्माकमन्नलाभाय प्रवृत्तश्च भवसि ॥


यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् ।

वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥२५

यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् ।

वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥२५

युवोः । यदि । सख्याय । अस्मे इति । शर्धाय । स्तोमम् । जुजुषे । नमस्वान् ।

विश्वत्र । यस्मिन् । आ । गिरः । सम्ऽईचीः । पूर्वीऽइव । गातुः । दाशत् । सूनृतायै ॥२५

हे मित्रावरुणो “युवोः युवयोः “शर्धाय बलवते "अस्मे अस्माकं “सख्याय । यद्वा । युवयोः सख्याय अस्मे अस्माकं शर्धाय बलाय च । “यदि “नमस्वान् अन्नवानध्वर्युः स्तोत्रवान् होता वा “स्तोमं जुजुषे सेवते । “यस्मिन् सख्ये सिद्धे सति “विश्वत्र विश्वस्मिञ्जनपदे “गिरः अङ्गिरसां संबन्धिन्यः “समीचीः समीच्यः “आ गच्छन्तीति शेषः । उदाराणां गृह इदं गृहाण इदं गृहाणेत्येवंरूपाः श्रूयन्त इत्यर्थः । यद्वा । योगानुष्ठातॄणां स्तुतिगिर आगच्छन्तीति । पूर्वीव “गातुः प्राची दिगिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत् । यद्वा । पूर्वी पुरा प्रसिद्धा पुरातनीव गातुः सरणिरिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत् । “सूनृतायै प्रियसत्यरूपायै स्तुतिवाचे “दाशत् प्रयच्छतु ।।


स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः ।

वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥२६

सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः ।

वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥२६

सः । गृणानः । अत्ऽभिः । देवऽवान् । इति । सुऽबन्धुः । नमसा । सुऽउक्तैः ।

वर्धत् । उक्थैः । वचःऽभिः । आ । हि । नूनम् । वि । अध्वा । एति । पयसः । उस्रियायाः ॥२६

“अद्भिः देवताभिः "देववान् “सुबन्धुः शोभनबन्धनः “सः “वरुणः “इति इत्थंकृतप्रकारेण “नमसा नमस्कारेण “सूक्तैः च “गृणानः स्तूयमानः सन् “वर्धत् वर्धताम् । उक्थैर्वचोभिः उच्यमानैः प्रशस्तैर्वा स्तुतिवचोभिः “नूनम् इदानीम् “आ गच्छत्विति शेषः । “हि इति पूरणः । तस्य यागार्थम् “उस्रियायाः गोः “पयसः “अध्वा मार्गः "वि “एति । स्तनाग्राणि क्षरन्तीत्यर्थः ।


त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषाः॑ ।

ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥२७

ते । ऊं॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ ।

ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥२७

ते । ऊं इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सऽजोषाः ।

ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥२७

अनयर्षिरङ्गिरस आशास्ते । हे "यजत्राः यष्टव्याः "देवासः देवाः "ते यूयम्। “उ इति पूरणः । “महः महते “नः अस्माकम् “ऊतये रक्षणाय “सजोषाः संगताः “भूत भवत । “ये च यूयम् अङ्गिरसो मह्यं “वाजान् अन्नानि “अनयत प्रापयथ “वियन्तः सततमुक्थाय विविधं गच्छन्तः सन्तः । “ये च यूयम् “अमूराः अमूढाः । षष्ठाहःप्रयोगमौढ्यरहिता इत्यर्थः । तादृशाः “निचेतारः गवां विविक्तारः “स्थ भवथ। ते सजोषा भूतेति समन्वयः ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके प्रथमोऽध्यायः ।।


टिप्पणी

नाभानेदिष्ठः

आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते। नाभानेदिष्ठं शंसति। रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति। तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते। स रेतोमिश्रो भवति ........ तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणान्कल्पयेति - ऐ.ब्रा. ६.२७

भागवतपुराणे ९.४ एवं शिवपुराणे ३.२९.२ अपि नाभागस्य आख्यानं द्रष्टव्यः

कौ.ब्रा. २३.८

पुरुषमेधः - नाभानेदिष्ठं दशमम् - शांश्रौसू. १६.११.२८

अथ विश्वजिच्छिल्पे ऐकाहिकान्प्रगाथाञ्छस्त्वा वालखिल्या वृषाकपिं विष्णुन्यङ्गं नाभानेदिष्ठं च सर्वशस्तृचान्वा शांश्रौसू. १२.८.२

रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन्नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस्तत् पशवः प्रजायन्ते रूपाणि विकरोति यद्वार्षाकपमृतुषु प्रतितिष्ठति यदेवयामरुत् – तांब्रा. २०.९.२


नाभाग/नाभानेदिष्ठोपरि टिप्पणी (डा. श्रद्धा चौहान)

नाभि उपरि टिप्पणी


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६१&oldid=365254" इत्यस्माद् प्रतिप्राप्तम्