ऋग्वेदः सूक्तं १०.७९
← सूक्तं १०.७८ | ऋग्वेदः - मण्डल १० सूक्तं १०.७९ सौचीकोऽग्निर्वैश्वानरो वा, सप्तिर्वाजंभरो वा। |
सूक्तं १०.८० → |
दे. अग्निः। त्रिष्टुप् |
अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु ।
नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥१॥
गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि ।
अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥२॥
प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः ।
ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥३॥
तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥४॥
यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति ।
तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥५॥
किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् ।
अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥६॥
विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् ।
चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥७॥
सायणभाष्यम्
‘अपश्यम्' इति सप्तर्चमेकादशं सूक्तमाग्नेयं त्रैष्टुभम् । सौचीकगुणोऽग्निर्ऋषिर्वैश्वानरगुणो वाथवा सप्तर्नाम वाजंभरपुत्रः। तथा चानुक्रान्तम्-’ अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वा वाजंभर आग्नेयं तु ' इति । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते । सूत्रितं च-- ‘ अपश्यमस्य महत इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति ॥
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।
नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥१
अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु ।
नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥१
अपश्यम् । अस्य । महतः । महिऽत्वम् । अमर्त्यस्य । मर्त्यासु । विक्षु ।
नाना । हनू इति । विभृते इति विऽभृते । सम् । भरेते इति । असिन्वती इति । बप्सती इति । भूरि । अत्तः ॥१
“अस्य अग्नेः “महतः मंहनीयस्य “महित्वं महत्त्वम् “अपश्यं पश्यामि । कीदृशस्यास्य । "मर्त्यासु “विक्षु मनुष्यरूपासु प्रजासु तासां हृदये “अमर्त्यस्य अमरणस्वभावस्य वैश्वानररूपेण वर्तमानस्य । यद्वा । मर्त्यासु विक्ष्वृत्विग्यजमानरूपासु प्रजास्वमर्त्यस्य सर्वदा जागरितस्य । अथ दावाग्निरूपोऽग्निरुच्यते । अस्याग्नेः "हनू शिप्रे “नाना “विभृते विभिन्ने “सं “भरेते संभरतो दन्तैः। तथा कृत्वा “असिन्वती असंखादन्त्यौ स्तोतारं “बप्सती भक्षयन्त्यौ “भूरि प्रभूतं काष्ठमरण्ये वर्तमानम् “अत्तः भक्षयतः ॥
गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।
अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रंत्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥२
गुहा॑ । शिरः॑ । निऽहि॑तम् । ऋध॑क् । अ॒क्षी इति॑ । असि॑न्वन् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि ।
अत्रा॑णि । अ॒स्मै॒ । प॒ट्ऽभिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । अधि॑ । वि॒क्षु ॥२
गुहा । शिरः । निऽहितम् । ऋधक् । अक्षी इति । असिन्वन् । अत्ति । जिह्वया । वनानि ।
अत्राणि । अस्मै । पट्ऽभिः । सम् । भरन्ति । उत्तानऽहस्ताः । नमसा । अधि । विक्षु ॥२
अस्याग्नेः “शिरः मूर्धा “गुहा गुहायां “निहितं मनुष्योदरेषु वर्तते । अस्य “अक्षी अक्षिणी “ऋधक् पृथग्निहितं निहिते चन्द्रसूर्यात्मना । तावेवाक्षिणी इत्यर्थः । ईदृशो योऽग्निः “असिन्वन् दन्तैरसंखादन् “जिह्वया “वनानि “अत्ति काष्ठानि भक्षयति दाहभूतः “अस्मै अग्नयेऽध्वर्य्वादयः “पड्भिः पादैरभिगत्य “अत्राणि “सं “भरन्ति संपादयन्ति हवींषि । कथंभूताः । “उत्तानहस्ताः पात्रधारणार्थमुन्नतकराः “नमसा नमस्कारेण युक्ताः । कुत्र । “अधि “विक्षु प्रजास्वृत्विक्षु मध्ये ।।
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।
स॒सं न प॒क्वम॑विदच्छु॒चंतं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अं॒तः ॥३
प्र । मा॒तुः । प्र॒ऽत॒रम् । गुह्य॑म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः॑ । स॒र्प॒त् । उ॒र्वीः ।
स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त॑म् । रि॒रि॒ह्वांस॑म् । रि॒पः । उ॒पऽस्थे॑ । अ॒न्तरिति॑ ॥३
प्र । मातुः । प्रऽतरम् । गुह्यम् । इच्छन् । कुमारः । न । वीरुधः । सर्पत् । उर्वीः ।
समम् । न । पक्वम् । अविदत् । शुचन्तम् । रिरिह्वांसम् । रिपः । उपऽस्थे । अन्तरिति ॥३
अयमग्निः “मातुः पृथिव्याः संबन्धिनीः “उर्वीः बह्वीः “वीरुधः लताः “इच्छन् तथा “प्रतरं प्रकृष्टतरं “गुह्यं गोप्यं तासां वीरुधां मूलमपीच्छन् कामयमानः “प्र “सर्पत् प्रसर्पति प्रसरति । किमिव । “कुमारो “न कुमार इव । स यथा स्तन्यं पातुं जानुभ्यां सर्पति तद्वत् । “ससं “न “पक्वं पक्वमन्नमिव “शुचन्तं दीप्यमानं नीरसं वृक्षं “रिपः पृथिव्याः “उपस्थे “अन्तः उत्सङ्गेऽन्तः “अविदत् विन्दति ॥ पुनः कीदृशम् । “रिरिह्वांसम् आकाशमास्वादयन्तम् । यद्वा । मूलैर्मातरं पृथिवीं रिरिह्वांसम् ॥
तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।
नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निरं॒ग विचे॑ताः॒ स प्रचे॑ताः ॥४
तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । जाय॑मानः । मा॒तरा॑ । गर्भः॑ । अ॒त्ति॒ ।
न । अ॒हम् । दे॒वस्य॑ । मर्त्यः॑ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । विऽचे॑ताः । सः । प्रऽचे॑ताः ॥४
तत् । वाम् । ऋतम् । रोदसी इति । प्र । ब्रवीमि । जायमानः । मातरा । गर्भः । अत्ति ।
न । अहम् । देवस्य । मर्त्यः । चिकेत । अग्निः । अङ्ग । विऽचेताः । सः । प्रऽचेताः ॥४
हे “रोदसी द्यावापृथिव्यौ “वां युवां “तत् “ऋतं सत्यं “प्र “ब्रवीमि यदरणीभ्यां “जायमानः उत्पन्नः “गर्भः गर्भस्थानीयोऽग्निः “मातरा अरणी “अत्ति भक्षयति । “देवस्य द्योतनादिगुणस्याग्नेः वर्तनं “मर्त्यः मनुष्यः “अहं “न “चिकेत न जानामि । हे “अङ्ग वैश्वानर “अग्निः अरणीभ्यामुत्पन्नः “विचेताः विविधज्ञानवान् “स “प्रचेताः प्रकृष्टज्ञानः। अतो न जानामीत्यर्थः । अथवाङ्गेत्यात्मानमेव संबोध्य ब्रवीमि । अग्निरेव विचेताः बहुधा जानाति स प्रचेता: स एव जानाति । स्वमहिमानं नाहं स्तोतुं प्रभवामीत्यर्थः ॥
यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।
तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वं ॥५
यः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः॑ । घृ॒तैः । जु॒होति॑ । पुष्य॑ति ।
तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभिः॑ । वि । च॒क्षे॒ । अग्ने॑ । वि॒श्वतः॑ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥५
यः । अस्मै । अन्नम् । तृषु । आऽदधाति । आज्यैः । घृतैः । जुहोति । पुष्यति ।
तस्मै । सहस्रम् । अक्षऽभिः । वि । चक्षे । अग्ने । विश्वतः । प्रत्यङ् । असि । त्वम् ॥५
"यः यजमानः “अस्मै अग्नये “तृषु क्षिप्रम् "अन्नम् “आदधाति करोति आज्यैर्घृतैः क्षरद्रूपैः दीप्तैर्वा सोमरसैः "जुहोति “पुष्यति पुष्णाति चैनं काष्ठैः “तस्मै । तमित्यर्थः । तं “सहस्रं सहस्रसंख्याकैः “अक्षभिः अक्षिस्थानीयाभिरपरिमिताभिर्ज्वालाभिः “वि “चक्षे विचष्टे विपश्यति । अथ प्रत्यक्षकृतः । हे “अग्ने “त्वं “विश्वतः सर्वतः “प्रत्यङ्ङसि प्रत्यगञ्चनो भवसि । अस्मदानुकूल्येन प्रवर्तमानो भवसि ॥
किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् ।
अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥६
किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् ।
अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥६
किम् । देवेषु । त्यजः । एनः । चकर्थ । अग्ने । पृच्छामि । नु । त्वाम् । अविद्वान् ।
अक्रीळन् । क्रीळन् । हरिः । अत्तवे । अदन् । वि । पर्वऽशः । चकर्त । गाम्ऽइव । असिः ॥६
हे “अग्ने “त्वां “नु क्षिप्रं "देवेषु “किं त्यजः क्रोधम् “एनः पापं च “चकर्थ कृतवानसीति “अविद्वान् अहं “पृच्छामि । खाण्डवं दहन्तमग्निं पृच्छामि । किंच “अक्रीळन् क्वचिद्देशेऽविहरन “क्रीळन् क्वचिद्देशे विनोदयँल्लीलया दहन् “हरिः हरितवर्णः सन् “अत्तवे अत्तव्यम् “अदन् अन्नकाष्ठादिकं “पर्वशः संधौ संधौ “वि “चकर्थ विविधं करोषि । “गामिवासिः गां यथा असिः स्वधितिः पर्वशश्छिनत्ति तद्वत् ॥
विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।
च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥७
विषू॑चः । अश्वा॑न् । यु॒यु॒जे॒ । व॒ने॒ऽजाः । ऋजी॑तिऽभिः । र॒श॒नाभिः॑ । गृ॒भी॒तान् ।
च॒क्ष॒दे । मि॒त्रः । वसु॑ऽभिः । सुऽजा॑तः । सम् । आ॒नृ॒धे॒ । पर्व॑ऽभिः । व॒वृ॒धा॒नः ॥७
विषूचः । अश्वान् । युयुजे । वनेऽजाः । ऋजीतिऽभिः । रशनाभिः । गृभीतान् ।
चक्षदे । मित्रः । वसुऽभिः । सुऽजातः । सम् । आनृधे । पर्वऽभिः । ववृधानः ॥७
अयमग्निः “विषूचः विष्वगञ्चनान् “अश्वान् व्याप्तान् महतो वृक्षान् सर्वतो गन्तॄनश्वानेव वा “युयुजे युङ्क्ते “वनेजाः वने प्रवृद्धः संपन्नः सन् । कीदृशानश्वान् । “ऋजीतिभिः ऋजुगामिनीभिः “रशनाभिः रशनास्थानीयाभिर्लताभिः “गृभीतान् परिगृहीतान् वेष्टितान् । साक्षादश्वपक्षे ऋजुगतिभिः प्रसिद्धाभी रशनाभिर्गृभीतान् गृहीतान् स्वकीयानश्वान् शीघ्रदाहाय रथे योजितवानित्यर्थः । तादृशोऽग्निः “चक्षदे चक्षाद शकलीकरोति वसूनि “मित्रः अस्माकं मित्रभूतः "वसुभिः वासकैः “रश्मिभिः “सुजातः सुष्ठु प्रवृद्धः सन् । किंच “समानृधे सम्यग्वर्धते “पर्वभिः काष्ठखण्डैः “वावृधानः वर्धमानः ॥ ॥ १४ ॥
मण्डल १० | ||||
---|---|---|---|---|