ऋग्वेदः सूक्तं १०.८९
← सूक्तं १०.८८ | ऋग्वेदः - मण्डल १० सूक्तं १०.८९ रेणुर्वैश्वामित्रः |
सूक्तं १०.९० → |
दे. इन्द्रः, ७ इन्द्रासोमौ। त्रिष्टुप् |
इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् ।
आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥१॥
स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा ।
अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥२॥
समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् ।
वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥३॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।
यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥४॥
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी ।
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥५॥
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥६॥
जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् ।
बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥७॥
त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि ।
प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥८॥
प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति ।
न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥९॥
इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् ।
इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥१०॥
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।
प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥११॥
प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः ।
अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥१२॥
अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः ।
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥१३॥
कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् ।
मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥१४॥
शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र ।
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥१५॥
पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् ।
इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् ॥१६॥
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् ।
विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥१७॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१८॥
सायणभाष्यम्
‘ इन्द्रं स्तव' इत्यष्टादशर्चं पञ्चमं सूक्तं वैश्वामित्रस्य रेणोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च---- ‘ इन्द्रं स्तव द्व्यूना रेणुः' इति । सूर्यस्तुन्नाम्न्येकाह इदं सूक्तं निष्केवल्यनिविद्धानम् । सूत्रितं च -- ‘ सूर्यस्तुता यशस्कामः पिबा सोममभीन्द्र स्तवेति मध्यंदिनः' (आश्व. श्रौ. ९, ८) इति
इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भि॒ः प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥१
इन्द्र॑म् । स्त॒व॒ । नृऽत॑मम् । यस्य॑ । म॒ह्ना । वि॒ऽब॒बा॒धे । रो॒च॒ना । वि । ज्मः । अन्ता॑न् ।
आ । यः । प॒प्रौ । च॒र्ष॒णि॒ऽधृत् । वरः॑ऽभिः । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चा॒नः । म॒हि॒ऽत्वा ॥१
इन्द्रम् । स्तव । नृऽतमम् । यस्य । मह्ना । विऽबबाधे । रोचना । वि । ज्मः । अन्तान् ।
आ । यः । पप्रौ । चर्षणिऽधृत् । वरःऽभिः । प्र । सिन्धुऽभ्यः । रिरिचानः । महिऽत्वा ॥१
हे स्तोतः त्वं “नृतमं नेतृतमम् “इन्द्रं “स्तव स्तुहि । “यस्य इन्द्रस्य “मह्ना महत्त्वम् । विभक्ति व्यत्ययः । “रोचना परेषां तेजांसि “विबबाधे विबाधते । अभिभवतीत्यर्थः । “वि “ज्मः पृथिव्याश्च “अन्तान् पर्यन्तानभिभवति । “यः चेन्द्रः “चर्षणीधृत् मनुष्याणां धर्ता “सिन्धुभ्यः समुद्रेभ्योऽपि “महित्वा महत्त्वेन “प्र “रिरिचानः प्रवर्धमानश्च सन् “वरोभिः तमसां वारकैस्तेजोभिः "आ “पप्रौ द्यावापृथिव्यावापूरयति ॥
स सूर्य॒ः पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥२
सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा ।
अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥२
सः । सूर्यः । परि । उरु । वरांसि । आ । इन्द्रः । ववृत्यात् । रथ्याऽइव । चक्रा ।
अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान ॥२
“सूर्यः सुवीर्यः “सः प्रसिद्धः “इन्द्रः “उरु बहूनि “वरांसि तेजांसि “परि “आ “ववृत्यात् पर्यावर्तयति । तत्र दृष्टान्तः । “रथ्येव यथा सारथी रथसंबन्धीनि “चक्रा चक्राणि आवर्तयति तद्वदित्यर्थः। किंच सोऽयम् “अतिष्ठन्तं शीघ्रं गच्छन्तम् “अपस्यं “न कर्मण्यमिव “सर्गम् । सृज्यत इति सर्गोऽश्वः । तं “कृष्णा कृष्णानि “तमांसि “त्विष्या दीप्त्या “जघान हन्ति ।।
स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् ।
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥३
स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् ।
वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥३
समानम् । अस्मै । अनपऽवृत् । अर्च । क्ष्मया । दिवः । असमम् । ब्रह्म । नव्यम् ।
वि । यः । पृष्ठाऽइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे ॥३
हे स्तोतः त्वं “समानं मया सह “अनपावृत् अपगतिरहितं “क्ष्मया “दिवः दिवः पृथिव्याश्च “असमम् अत्यन्तमतिरिक्तम् । महदित्यर्थः । “नव्यं नवतरमन्यैरकृतपूर्वं “ब्रह्म स्तोत्रम् “अस्मै इन्द्राय “अर्च उच्चारय । “यः “इन्द्रः “जनिमानि यज्ञेषु जातानि “पृष्ठेव पृष्ठसंज्ञकानि स्तोत्राणीव “अर्यः अरीन् शत्रून् “वि “चिकाय विचिनोति “सखायं च “न “ईषे नेच्छति ॥
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥४
इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् ।
यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥४
इन्द्राय । गिरः । अनिशितऽसर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् ।
यः । अक्षेणऽइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥४
“इन्द्राय इन्द्रार्थम् “अनिशितसर्गाः अतनूकृतविसर्गा उपर्युपरि वर्तमाना याः "गिरः स्तुतयः ताभिर्गीर्भिः "सगरस्य अन्तरिक्षस्य । सगरं समुद्रः' इत्यन्तरिक्षनामसु पाठात् । “बुध्नात् प्रदेशात् “अपः उदकानि "प्रेरयं प्रेरयानि । “यः “इन्द्रः “शचीभिः कर्मभिः “पृथिवीम् “उत अपि च “द्यां दिवं “चक्रिया रथचक्राणि “अक्षेणेव यथा रथाक्षेण तद्वत् “विष्वक् सर्वतः “तस्तम्भ अस्तभ्नात् ॥
आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒ः शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।
सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥५
आपा॑न्तऽमन्युः । तृ॒पल॑ऽप्रभर्मा । धुनिः॑ । शिमी॑ऽवान् । शरु॑ऽमान् । ऋ॒जी॒षी ।
सोमः॑ । विश्वा॑नि । अ॒त॒सा । वना॑नि । न । अ॒र्वाक् । इन्द्र॑म् । प्र॒ति॒ऽमाना॑नि । दे॒भुः॒ ॥५
आपान्तऽमन्युः । तृपलऽप्रभर्मा । धुनिः । शिमीऽवान् । शरुऽमान् । ऋजीषी ।
सोमः । विश्वानि । अतसा । वनानि । न । अर्वाक् । इन्द्रम् । प्रतिऽमानानि । देभुः ॥५
“आपान्तमन्युः अपातितमन्युः “तृपलप्रभर्मा ग्रावभिः क्षिप्रप्रहारी “धुनिः शत्रूणां कम्पयिता “शिमीवान् कर्मवान् “शरुमान् आयुधवान् “ऋजीषी ऋजीषवान् “सोमो “विश्वानि सर्वाणि “अतसा अतसमयानि “वनानि अरण्यानि वर्धयतीति शेषः। “प्रतिमानानि प्रतिमानभूतानि समानानि द्रव्याणीत्यर्थः। “इन्द्रम् “अर्वाक् “न “देभुः । दभ्नोतिरत्राकर्षणकर्मा । तुलया मीयमानान्यात्माभिमुखतया नाकर्षयन्ति । लघूनि भवन्तीत्यर्थः । अन्यत्र प्रतिनिधीयमानानि गुरूणि तान्यात्माभिमुखमाकर्षन्ति नैवमिन्द्रं कुर्वन्तीति । सर्वेभ्यो महानिन्द्र इत्यर्थः । त्रयः पादाः सौम्यास्तुरीयस्त्वैन्द्रः । तथा च यास्कः- ‘ आपातितमन्युस्तृप्रप्रहारी क्षिप्रप्रहारीः सोमो वेन्द्रो वा धुनिर्धूनोतेः शिमीति कर्मनाम शमयतेर्वा शक्नोतेर्वर्जीषी सोमो यत्सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति तेनर्जीषी सोमोऽथाप्यैन्द्रो निगमो भवत्यृजीषी वज्रीति । सोमः सर्वाण्यतसानि वनानि नार्वागिन्द्रं प्रतिमानानि दभ्नुवन्ति यैरेनं प्रतिमिमते नैनं तानि दभ्नुवन्ति' (निरु. ५. १२) इति ॥ ॥ १४ ॥
न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑य॒ः सोमो॑ अक्षाः ।
यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥६
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ ।
यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥६
न । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति ।
यत् । अस्य । मन्युः । अधिऽनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥६
“द्यावापृथिवी द्यावापृथिव्यौ “यस्य इन्द्रस्य प्रतिमानभूते न भवतः। “न “धन्व उदकमपि प्रतिमानभूतं न भवति । "नान्तरिक्षम् अन्तरिक्षमपि प्रतिमानभूतं न भवति । “नाद्रयः पर्वताश्च प्रतिमानभूता न भवन्ति । तस्येन्द्रस्य “सोमः “अक्षाः क्षरति । किंच “यत् यदा “अस्य इन्द्रस्य “मन्युः क्रोधः “अधिनीयमानः शत्रूणामुपरि प्राप्यमाणो भवति तदानीमयमिन्द्रः “वीळु दृढं “शृणाति हिनस्ति । “स्थिराणि “रुजति भिनत्ति च ॥
ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् ।
बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भि॑ः ॥७
ज॒घान॑ । वृ॒त्रम् । स्वऽधि॑तिः । वना॑ऽइव । रु॒रोज॑ । पुरः॑ । अर॑दत् । न । सिन्धू॑न् ।
बि॒भेद॑ । गि॒रिम् । नव॑म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः॑ । अ॒कृ॒णु॒त॒ । स्व॒युक्ऽभिः॑ ॥७
जघान । वृत्रम् । स्वऽधितिः । वनाऽइव । रुरोज । पुरः । अरदत् । न । सिन्धून् ।
बिभेद । गिरिम् । नवम् । इत् । न । कुम्भम् । आ । गाः । इन्द्रः । अकृणुत । स्वयुक्ऽभिः ॥७
इन्द्रः “वृत्रम् असुरं “जघान हतवान् । अपि च “स्वधितिः परशुः “वनेव वनानीव “पुरः शत्रुनगरीः “रुरोज रुजति भिनत्ति । शत्रुनगरीर्भित्त्वा च “सिन्धून् नदीः “अरदत् वृष्ट्युदकेनालिखत् । “न इति संप्रत्यर्थे । किंच “गिरिं मेघं “नवं “न नवमिव “कुम्भं कलशं “बिभेद “इत् भिनत्त्येव । किंच “इन्द्रः “स्वयुग्भिः स्वयं युज्यमानैर्मरुद्भिः “गाः उदकानि “आ “अकृणुत अस्मदभिमुखं करोति ।
त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥८
त्वम् । ह॒ । त्यत् । ऋ॒ण॒ऽयाः । इ॒न्द्र॒ । धीरः॑ । अ॒सिः । न । पर्व॑ । वृ॒जि॒ना । शृ॒णा॒सि॒ ।
प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । युज॑म् । न । जनाः॑ । मि॒नन्ति॑ । मि॒त्रम् ॥८
त्वम् । ह । त्यत् । ऋणऽयाः । इन्द्र । धीरः । असिः । न । पर्व । वृजिना । शृणासि ।
प्र । ये । मित्रस्य । वरुणस्य । धाम । युजम् । न । जनाः । मिनन्ति । मित्रम् ॥८
“इन्द्र “धीरः प्राज्ञः “त्वं “ह त्वं खलु “त्यत् तत् “ऋणयाः स्तोतृविषयाणामृणानां प्रापयितासि । किंच त्वम् “असिर्न शस्त्रमिव "पर्व पशूनां पर्वाणि "वृजिना वृजिनानि स्तोतॄणामुपद्रवाणि “शृणासि हंसि। किंच “मित्रस्य “वरुणस्य मित्रावरुणयोः “धाम धारकं कर्म “युजं “न युक्तमिव “मित्रं “ये अज्ञा नृशंसाः “जनाः “प्र “मिनन्ति प्रकर्षेण हिंसन्ति तानपि शृणासीत्यर्थः ॥
प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवा॒ः प्र सं॒गिर॒ः प्र वरु॑णं मि॒नन्ति॑ ।
न्य१॒॑मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥९
प्र । ये । मि॒त्रम् । प्र । अ॒र्य॒मण॑म् । दुः॒ऽएवाः॑ । प्र । स॒म्ऽगिरः॑ । प्र । वरु॑णम् । मि॒नन्ति॑ ।
नि । अ॒मित्रे॑षु । व॒धम् । इ॒न्द्र॒ । तुम्र॑म् । वृष॑न् । वृषा॑णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥९
प्र । ये । मित्रम् । प्र । अर्यमणम् । दुःऽएवाः । प्र । सम्ऽगिरः । प्र । वरुणम् । मिनन्ति ।
नि । अमित्रेषु । वधम् । इन्द्र । तुम्रम् । वृषन् । वृषाणम् । अरुषम् । शिशीहि ॥९
"ये “दुरेवाः दुष्टगमना जनाः “मित्रं देवं “प्र “मिनन्ति प्रहिंसन्ति “अर्यमणं च देवं “प्र मिनन्ति “संगिरः समीचीनस्तुतिमतो मरुतश्च “प्र मिनन्ति “वरुणं च देवं “प्र मिनन्ति तेषु "अमित्रेषु शत्रुषु । तानुद्दिश्येत्यर्थः। हे “वृषन् कामानां वर्षक “इन्द्र त्वं “तुम्रं गमनशीलं “वृषाणं कामानां वर्षकम् “अरुषम् आरोचमानं “वधं वज्रम् । ‘ वधः वज्रः' इति वज्रमामसु पाठात् । “नि “शिशीहि तीक्ष्णीकुरु ॥
इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् ।
इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्र॒ः क्षेमे॒ योगे॒ हव्य॒ इन्द्र॑ः ॥१०
इन्द्रः॑ । दि॒वः । इन्द्रः॑ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः॑ । अ॒पाम् । इन्द्रः॑ । इत् । पर्व॑तानाम् ।
इन्द्रः॑ । वृ॒धाम् । इन्द्रः॑ । इत् । मेधि॑राणाम् । इन्द्रः॑ । क्षेमे॑ । योगे॑ । हव्यः॑ । इन्द्रः॑ ॥१०
इन्द्रः । दिवः । इन्द्रः । ईशे । पृथिव्याः । इन्द्रः । अपाम् । इन्द्रः । इत् । पर्वतानाम् ।
इन्द्रः । वृधाम् । इन्द्रः । इत् । मेधिराणाम् । इन्द्रः । क्षेमे । योगे । हव्यः । इन्द्रः ॥१०
"दिवः द्युलोकस्य “इन्द्रः “ईशे ईष्टे “पृथिव्याः भूमेरपि “इन्द्रः ईशे ईश्वरो भवति । “अपाम् उदकानामपि “इन्द्रः ईश्वरो भवति । “पर्वतानां मेघानामपि “इन्द्रः ईश्वरो भवति । “वृधां वृद्धानामपि “इन्द्रः एवेश्वरः । “मेधिराणां प्राज्ञानामपि “इन्द्रः एव ईश्वरो भवति । किंच “इन्द्रः “क्षेमे लब्धस्य धनस्य परिपालने “हव्यः ह्वातव्यः “योगे अलब्धस्य धनस्य लाभेऽपि “इन्द्रः एव ह्वातव्यो भवति ॥ ॥ १५ ॥
प्राक्तुभ्य॒ इन्द्र॒ः प्र वृ॒धो अह॑भ्य॒ः प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
प्र वात॑स्य॒ प्रथ॑स॒ः प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्य॑ः ॥११
प्र । अ॒क्तुऽभ्यः॑ । इन्द्रः॑ । प्र । वृ॒धः । अह॑ऽभ्यः । प्र । अ॒न्तरि॑क्षात् । प्र । स॒मु॒द्रस्य॑ । धा॒सेः ।
प्र । वात॑स्य । प्रथ॑सः । प्र । ज्मः । अन्ता॑त् । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चे॒ । प्र । क्षि॒तिऽभ्यः॑ ॥११
प्र । अक्तुऽभ्यः । इन्द्रः । प्र । वृधः । अहऽभ्यः । प्र । अन्तरिक्षात् । प्र । समुद्रस्य । धासेः ।
प्र । वातस्य । प्रथसः । प्र । ज्मः । अन्तात् । प्र । सिन्धुऽभ्यः । रिरिचे । प्र । क्षितिऽभ्यः ॥११
“इन्द्रः “अक्तुभ्यः रात्रिभ्यः “प्र “वृधः प्रवृद्धः । “अहभ्यः दिवसेभ्योऽपि “प्र वृधः अधिकः । “अन्तरिक्षात् अपि प्रवृद्धः। “समुद्रस्य अब्धेः “धासेः धारकात्स्थानादपि प्रवृद्धः । “वातस्य वायोः “प्रथसः प्रथिम्नोऽपि प्रवृद्धः । “ज्मः पृथिव्याः “अन्तात् पर्यन्तादपि प्रवृद्धः । “सिन्धुभ्यः नदीभ्यश्च “प्र “रिरिचे अतिरिच्यते । महान् भवतीत्यर्थः । “क्षितिभ्यः मनुष्येभ्योऽपि “प्र रिरिचे ॥
प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः ।
अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥१२
प्र । शोशु॑चत्याः । उ॒षसः॑ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः ।
अश्मा॑ऽइव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि॑ष्ठेन । हेष॑सा । द्रोघ॑ऽमित्रान् ॥१२
प्र । शोशुचत्याः । उषसः । न । केतुः । असिन्वा । ते । वर्तताम् । इन्द्र । हेतिः ।
अश्माऽइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघऽमित्रान् ॥१२
हे “इन्द्र “ते तव “असिन्वा भेदनरहितं “हेतिः वज्राख्यमायुधं “शोशुचत्याः ज्वलन्त्याः “उषसो “न यथोषसः “केतुः पताकास्थानीयो रश्मिस्तद्वच्छत्रुषु “प्र “वर्तताम्। किंच "तपिष्ठेन अतिशयेन शत्रूणां तापयित्र्या “हेषसा शब्दकारिण्या हेत्या “द्रोघमित्रान् । द्रुग्धानि मित्राणि येषां ते द्रोघमित्राः । तान् शत्रून् “विध्य ताडय । तत्र दृष्टान्तः । “दिव “आ “सृजानः सृज्यमानः “अश्मेव। यथाशनिः वृक्षान् विध्यति तद्वदित्यर्थः ॥
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः ।
अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥१३
अनु॑ । अह॑ । मासाः॑ । अनु॑ । इत् । वना॑नि । अनु॑ । ओष॑धीः । अनु॑ । पर्व॑तासः ।
अनु॑ । इन्द्र॑म् । रोद॑सी॒ इति॑ । वा॒व॒शा॒ने इति॑ । अनु॑ । आपः॑ । अ॒जि॒ह॒त॒ । जाय॑मानम् ॥१३
अनु । अह । मासाः । अनु । इत् । वनानि । अनु । ओषधीः । अनु । पर्वतासः ।
अनु । इन्द्रम् । रोदसी इति । वावशाने इति । अनु । आपः । अजिहत । जायमानम् ॥१३
“जायमानं प्रादुर्भवन्तम् “इन्द्रं "मासाः चैत्रादयः “अनु “अजिहत अनुगच्छन्ति । “अह इति पूरणः । “वनानि अरण्यान्यपीन्द्रम् “अनु अजिहत । “इत् इति पूरणः । “ओषधीः ओषध्योऽपि इन्द्रम् “अनु गच्छन्ति । “पर्वतासः पर्वता अपीन्द्रम् “अनु गच्छन्ति। “वावशाने कामयमाने “रोदसी द्यावापृथिव्यावपि “इन्द्रम् अनु गच्छतः । “आपः उदकान्यपीन्द्रम् “अनु गच्छन्ति । मासाद्यधिष्ठातृदेवताः प्रादुर्भवन्तमिन्द्रमनुगच्छन्तीत्यर्थः ॥
कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गाव॑ः पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥१४
कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् ।
मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥१४
कर्हि । स्वित् । सा । ते । इन्द्र । चेत्या । असत् । अघस्य । यत् । भिनदः । रक्षः । आऽईषत् ।
मित्रऽक्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आऽपृक् । अमुया । शयन्ते ॥१४
हे “इन्द्र “ते तव “सा हेतिरिषुर्वा “चेत्या चेतयितव्या शत्रुषु क्षेप्तव्या “कर्हि “स्वित् कदा वा “असत् भविष्यति । “यत् यया हेत्या त्वम् “अघस्य । द्वितीयार्थे षष्ठी । अहतम् “एषत् युद्धार्थमागच्छत् “रक्षः “भिनदः अभिनः। “यत् यया च शक्त्या “मित्रक्रुवः मित्राणां क्रूरस्य कर्मणः कर्तारो जनाः “पृथिव्याः संबन्धिनि “शसने विशसनस्थाने “गावो “न पशव इव “आपृक् आपर्चनाहताः सन्तः "अमुया अनया पृथिव्या संगता युद्धे “शयन्ते शेरते ।।
श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र ।
अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्यु॑ः ॥१५
श॒त्रु॒ऽयन्तः॑ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि॑ । व्राध॑न्तः । ओ॒ग॒णासः॑ । इ॒न्द्र॒ ।
अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒तिषः॑ । अ॒क्तवः॑ । तान् । अ॒भि । स्यु॒रिति॑ स्युः ॥१५
शत्रुऽयन्तः । अभि । ये । नः । ततस्रे । महि । व्राधन्तः । ओगणासः । इन्द्र ।
अन्धेन । अमित्राः । तमसा । सचन्ताम् । सुऽज्योतिषः । अक्तवः । तान् । अभि । स्युरिति स्युः ॥१५
हे "इन्द्रः “शत्रूयन्तः “महि अत्यन्तं “व्राधन्तः अस्मान् बाधमानाः “ओगणासः संघीभूताः “ये शत्रवः “नः अस्मान् “अभि “ततस्रे निक्षिपन्ति “ते “अमित्राः शत्रवः “अन्धेन “तमसा महतान्धकारेण “सचन्तां संगच्छन्ताम् । किंच “तान् अमित्रान् “सुज्योतिषः दिवसाः “अक्तवः रात्रयश्च “अभि “ष्युः अभिभवन्तु ॥
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् ।
इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥१६
पु॒रूणि॑ । हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्मा॑णि । मन्द॑न् । गृ॒ण॒ताम् । ऋषी॑णाम् ।
इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहू॑तिम् । ति॒रः । विश्वा॑न् । अर्च॑तः । या॒हि॒ । अ॒र्वाङ् ॥१६
पुरूणि । हि । त्वा । सवना । जनानाम् । ब्रह्माणि । मन्दन् । गृणताम् । ऋषीणाम् ।
इमाम् । आऽघोषन् । अवसा । सऽहूतिम् । तिरः । विश्वान् । अर्चतः । याहि । अर्वाङ् ॥१६
हे इन्द्र “त्वा त्वां “जनानां संबन्धीनि “पुरूणि बहूनि “सवना सवनानि “ब्रह्माणि स्तोत्राणि च “मन्दन् स्तुवन्ति मोदयन्ति वा । “गृणतां स्तुवताम् “ऋषीणाम् “इमां “सहूतिं स्तुतिं त्वम् “आघोषन् महती शोभना चेयं स्तुतिरिति वदन् “अर्चतः स्तुवतोऽन्यान् “विश्वान् सर्वानपि “तिरः तिरस्कृत्य “अवसा रक्षणेन सह “अर्वाङ् अस्मदभिमुखं “याहि गच्छ॥
ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ॥१७
ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ । भु॒ञ्ज॒ती॒नाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥१७
एव । ते । वयम् । इन्द्र । भुञ्जतीनाम् । विद्याम । सुऽमतीनाम् । नवानाम् ।
विद्याम । वस्तोः । अवसा । गृणन्तः । विश्वामित्राः । उत । ते । इन्द्र । नूनम् ॥१७
हे “इन्द्र “ते तवैव “भुञ्जतीनां रक्षन्तीः प्रियाः “वयं विश्वामित्रपुत्रा रेणवः “विद्याम लभेमहि । "उत अपि च हे “इन्द्र “ते तव “नवानां नूतनाः “सुमतीनां सुमतीरनुग्रहबुद्धीः "वस्तोः अहनि “अवसा रक्षणार्थं “गृणन्तः “नूनं त्वां स्तुवन्त एवं “विश्वामित्राः विश्वामित्रपुत्रा वयं “विद्याम लभेमहि ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥१८
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥१८
शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥१८
“अस्मिन्भरे संग्रामे “शुनं वृद्धं “मघवानं धनवन्तं “शृण्वन्तम् अस्मदीयस्याह्वानस्य श्रोतारम् “उग्रम् उद्गूर्णं “समत्सु संग्रामेषु “वृत्राणि शत्रून् “घ्नन्तं मारयन्तं “धनानां शत्रुधनानां “संजितं सम्यगेव जेतारम् “इन्द्रं “वाजसातौ अन्नस्य लाभाय “ऊतये रक्षणाय च "हुवेम आह्वयेम ॥ ॥ १६ ॥
टिप्पणी
१०.८९.४ इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।
सगर नामक अग्नि अथवा रात्रि उस सगर अन्तरिक्ष का क्षेत्र २ है जिसमें अहंकारजन्य प्रजाओं की भरमार होती है।( सगरशब्दस्य विवेचनम् )
मण्डल १० | ||||
---|---|---|---|---|