ऋग्वेदः सूक्तं १०.१५१
← सूक्तं १०.१५० | ऋग्वेदः - मण्डल १० सूक्तं १०.१५१ श्रद्धा कामायनी |
सूक्तं १०.१५२ → |
श्रद्धा । अनुष्टुप्। |
श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः ।
श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥१॥
प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।
प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥२॥
यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे ।
एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥३॥
श्रद्धां देवा यजमाना वायुगोपा उपासते ।
श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥४॥
श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि ।
श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥५॥
सायणभाष्यम्
श्रद्धया' इति पञ्चर्चं त्रयोविंशं सुकसूक्तमानुष्टुभं श्रद्धादेवत्यम्। कामगोत्रजा श्रद्धा नामर्षिका । तथा चानुक्रम्यते—श्रद्धया श्रद्धा कामायनी श्राद्धमानुष्टुभं तु ' इति । लैङ्गिको विनियोगः ॥
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥१
श्र॒द्धया॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । श्र॒द्धया॑ । हू॒य॒ते॒ । ह॒विः ।
श्र॒द्धाम् । भग॑स्य । मू॒र्धनि॑ । वच॑सा । आ । वे॒द॒या॒म॒सि॒ ॥१
श्रद्धया। अग्निः । सम् । इध्यते । श्रद्धया । हूयते । हविः ।।
श्रद्धाम् । भगस्य । मूर्धनि । वचसा । आ । वेदयामसि ।। १ ।।
पुरुषगतोऽभिलाषविशेषः श्रद्धा । तथा “श्रद्धया “अग्निः गार्हपत्यादिः “समिध्यते संदीप्यते । यदा हि पुरुषे श्रद्धाग्निगोचर आदरातिशयो जायते तदैष पुरुषोऽग्नीन् प्रज्वालयति नान्यदा । “श्रद्धया एव हविः पुरोडाशादिहविश्च “हूयते । आहवनीये प्रक्षिप्यते । यद्वा । अस्य सूक्तस्य द्रष्ट्या श्रद्धाख्ययाग्निः समिध्यते । “श्रद्धाम् उक्तलक्षणायाः श्रद्धाया अभिमानिदेवता “भगस्य भजनीयस्य धनस्य “मूर्धनि प्रधानभूते स्थानेऽवस्थितां “वचसा वचनेन स्तोत्रेण आ “वेदयामसि अभितः प्रख्यापयामः । इदन्तो मसिः ॥
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥२
प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः ।
प्रि॒यम् । भो॒जेषु॑ । यज्व॑ऽसु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥२
प्रियम् । श्रद्धे। ददतः । प्रियम् । श्रद्धे । दिदासतः ।।
प्रियम् । भोजेषु । यज्वऽसु । इदम् । मे। उदितम् । कृधि ।। २ ।।
हे “श्रद्धे “ददतः चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य “प्रियम् अभीष्टफलं कुरु । “दिदासतः दातुमिच्छतश्च हे “श्रद्धे "प्रियं कुरु । “मे मम संबन्धिषु “भोजेषु भोक्तृषु भोगार्थिषु “यज्वसु कृतयज्ञेषु जनेषु च “इदम् “उदितम् उक्तं “प्रियं “कृधि कुरु ।
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥३
यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे ।
ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥३
यथा । देवाः । असुरेषु । श्रद्धाम् । उग्रेषु । चक्रिरे ।।
एवम् । भोजेषु । यज्वऽसु । अस्माकम् । उदितम् । कृधि ॥ ३ ॥
“देवाः इन्द्रादयः असुरेषु उद्गूर्णबलेषु “यथा “श्रद्धां “चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः “एवं श्रद्धावत्सु "भोजेषु भोक्तृषु भोगार्थिषु “यज्वसु यष्टृषु “अस्माकम् अस्मत्संबन्धिषु तेषु “उदितं तैरुक्तं प्रार्थितं फलजातं कृधि कुरु ॥
श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥४
श्र॒द्धाम् । दे॒वाः । यज॑मानाः । वा॒युऽगो॑पाः । उप॑ । आ॒स॒ते॒ ।
श्र॒द्धाम् । हृ॒द॒य्य॑या । आऽकू॑त्या । श्र॒द्धया॑ । वि॒न्द॒ते॒ । वसु॑ ॥४
श्रद्धाम् । देवाः । यजमानाः । वायुऽगोपाः । उप । आसते ।।
श्रद्धाम् । हृदय्यया । आऽकूत्या । श्रद्धया । विन्दते । वसु ।। ४ ।।
“देवा “यजमाना मनुष्याश्च “वायुगोपाः वायुर्गोपा रक्षिता येषां ते तादृशाः सन्तः “श्रद्धां देवीम् “उपासते प्रार्थयन्ते । हृदय्यया । हृदये भवा हृदय्या। तथाविधया “आकूत्या संकल्परूपया क्रियया “श्रद्धाम् एव परिचरन्ति सर्वे जनाः । कुत इत्यत आह । यतः कारणात् “श्रद्धया हेतुभूतया “वसु धनं “विन्दते लभते श्रद्धावाञ्जनः । तत इत्यर्थः ।।
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥५
श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्यन्दि॑नम् । परि॑ ।
श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥५
श्रद्धाम् । प्रातः । हवामहे । श्रद्धाम् । मध्यंदिनम् । परि ।।
श्रद्धाम् । सूर्यस्य । निऽम्रुचि । श्रद्धे । श्रत् । धापय । इह । नः ॥ ५ ॥
“श्रद्धां देवीं प्रातः पूर्वाह्ने हवामहे । तथा “मध्यंदिनं परि । लक्षणे परेः कर्मप्रवचनीयत्वम् । मध्यंदिनं परिलक्ष्य । मध्यंदिन इत्यर्थः । मध्याह्नेऽपि तां “श्रद्धां आह्वयामहे । “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “निम्रुचि अस्तमयवेलायां सायं समयेऽपि तामेव “श्रद्धाम् आह्वयामहे । ईदृग्रूपे हे “श्रद्धे “नः अस्मान् इह लोके कर्मणि “श्रद्धापय श्रद्धावतः कुरु ॥ ॥९॥ ॥११॥
श्रद्धासूक्तोपरि मेधासूक्तं (खिल ४.८) पठनीयमस्ति।
मण्डल १० | ||||
---|---|---|---|---|