नारदपुराणम्- पूर्वार्धः/अध्यायः १०५
ब्रह्मोवाच ।।
शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् ।।
त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम् ।। १०५-१ ।।
कूर्मकल्पसमाख्यानं वर्गत्रयकथानम् ।।
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ।। १०५-२ ।।
पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः ।।
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ।। १०५-३ ।।
हरस्य कालरूपाख्या कामस्य दहनं ततः ।।
प्रह्लादनारायणयोर्युद्धं देवासुराहवः ।। १०५-४ ।।
सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् ।।
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ।। १०५-५ ।।
तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् ।।
सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम् ।। १०५-६ ।।
तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः ।।
ततः कौशिक्युपाख्यानं कुमारचरितं ततः ।। १०५-७ ।।
ततोऽन्धकवधाख्यानंसाध्योपाख्यानकंततः ।।
जाबालिचरितं पश्चादरजायाः कथाद्भुता ।। १०५-८ ।।
अंधकेशरयोर्युद्धं गणत्वं चांधकस्य च ।।
मरुतां जन्मकथनं बलेश्च चरितं ततः ।। १०५-९ ।।
ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् ।।
प्रह्लादतीर्थयात्रायां प्रोच्यंतेऽथ कथाः शुभाः ।। १०५-१० ।।
ततश्च धुन्धु चरितं प्रेतोपाख्यानकं ततः ।।
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ।। १०५-११ ।।
त्रिविक्रमचरित्रांते ब्रह्मप्रोक्तः स्तवोत्तमः ।।
प्रह्लादबलिसंवादे सुतले हरिशंसनम् ।। १०५-१२ ।।
इत्येष पूर्वभागोऽस्य पुराणस्य तवोदितः ।।
शृण्णतोऽस्योत्तरं भागं बृहद्वामनसंज्ञकम् ।। १०५-१३ ।।
माहेश्वरी भागवती सौरी गाणेश्वरी तथा ।।
चतस्रः संहिताश्चात्र पृथक् साहस्रसंख्यया ।। १०५-१४ ।।
माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् ।।
भागवत्यां जगन्मातुखतारकथाद्भुता ।। १०५-१५ ।।
सौर्यां सूर्यस्य महिमा गदितः पापनाशनः ।।
गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ।। १०५-१६ ।।
इत्येतद्वामनं नाम पुराणं सुविचित्रकम् ।।
पुलस्त्येन समाख्यातं नारदाय महात्मने ।। १०५-१७ ।।
ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ।।
व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः ।। १०५-१८ ।।
स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च ।।
एवं परंपराप्राप्तं पुराणं वामनं शुभम् ।। १०५-१९ ।।
ये पठंति च शृण्वंति तेऽपि यांति परां गतिम् ।।
लिखित्वैतत्पुराणं तु यः शरद्विषुवेऽर्पयेत् ।। १०५-२० ।।
विप्राय वेदविदुषे घृतधेनुसमन्वितम् ।।
स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान् ।। १०५-२१ ।।
देहांते भुक्तभोगोऽसौ याति विष्णोः परं पदम् ।। १०५-२१ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।