प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाचग ।।
श्रृणु विप्रं प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्यहम् ।।
यानि कृत्वा नरा नार्योऽभीष्टान्कामानवाप्नुयुः ।। ११३-१ ।।

चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् ।।
गणपं सम्यगभ्यर्च्य दत्त्वा कांचनदक्षिणाम् ।। ११३-२ ।।

विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः ।।
वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम् ।। ११३-३ ।।

गृहस्थद्विजमुख्येभ्यः शंखं दत्त्वा विधानवित् ।।
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ।। ११३-४ ।।

ज्येष्ठमासचतुर्थ्यां तु प्रार्च्य प्रद्युम्नरूपिणम् ।।
फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः ।। ११३-५ ।।

आषाढस्य चतुर्थ्यां तु संप्रपूज्यानिरुद्धकम् ।।
यतिभ्योऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ।। ११३-६ ।।

चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् ।।
उद्यापनं विधानेन कर्तव्यं फलमिच्छता ।। ११३-७ ।।

अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् ।।
कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम् ।। ११३-८ ।।

तथाऽऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभावहम् ।।
रथंतराह्वकल्पस्य ह्यादिभूतं दिनं यतः ।। ११३-९ ।।

श्रद्धापूतेन मनसा गणेशं विधिना नरः ।।
पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम् ।। ११३-१० ।।

श्रावणस्य चतुर्थ्यां तु जाति चंद्रोदये मुने ।। ११३-११ ।।
गणेशाय प्रदद्याच्च ह्यर्घ्यं विधिविदांवरः ।।
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् ।। ११३-१२ ।।

नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिंतयेत् ।।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ।। ११३-१३ ।।

नैवेद्यं मोदकं दद्याद्गणेशप्रीतिदायकम् ।।
एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च ।। ११३-१४ ।।

सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः ।।
व्रतस्यास्य प्रभावेण कामान्मनसि चिंतितान् ।। ११३-१५ ।।

लब्ध्वा लेके परं चापि गणेशपदमाप्नुयात् ।।
नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ।। ११३-१६ ।।

तस्मात्कार्यं प्रयत्नेन सर्वान्कामानभीप्सता ।।
अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम् ।। ११३-१७ ।।

केचिदिच्छंति देवर्षे तद्विधानं वदामि ते ।।
हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम् ।। ११३-१८ ।।

वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमंडले ।।
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पंचभिः ।। ११३-१९ ।।

बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया ।।
आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः ।। ११३-२० ।।

आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ।।
उपहारं प्रकल्प्याथ दद्यादर्घं समुद्यते ।।
ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने ।। ११३-२१ ।।

आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ।।
कृत्वैवं पंच वर्षाणि समुपास्य यथाविधि ।। ११३-२२ ।।

भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् ।।
अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम् ।। ११३-२३ ।।

पूजनी योऽत्र यत्नेन स्रग्गंधयवसादिभिः ।।
ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत् ।। ११३-२४ ।।

अशक्तः पुरेतां तु नमस्कृत्य विसर्जयेत् ।।
पंचाब्दं वादशाब्दं वा षोडशाब्दमथापि वा ।। ११३-२५ ।।

व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् ।।
प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान् ।। ११३-२६ ।।

सत्कृतो देवतावृंदैर्गोलोकं समवाप्नुयात् ।।
अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम् ।। ११३-२७ ।।

आवाहनादिभिः सर्वैरुपचारैः समर्चनम् ।।
एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम् ।। ११३-२८ ।।

एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।।
पाशांकुशधरं देवं तप्तकांचनसन्निभम् ।। ११३-२९ ।।

एकविंशति पत्राणि चैकविंशतिनामभिः ।।
समर्पयेद्भक्तियुक्तस्तानि नामानि वै श्रृणु ।। ११३-३० ।।

सुमुखाय शमीपत्रं गणाधीशाय भृंगजम् ।।
उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च ।। ११३-३१ ।।

लंबोदराय बदरीं धत्तूरं हरसूनवे ।।
शूर्पकर्णाय तुलसीं वक्रतुंडाय शिंबिजम् ।। ११३-३२ ।।

गुहाग्रजायापामार्गमेकदंताय बार्हतम् ।।
हेरम्बाय तु सिंदूरं चतिर्होत्रे च पत्रजम् ।। ११३-३३ ।।

सर्वेश्वरायागस्त्यस्य पत्रं प्रीतिविवर्द्धनम् ।।
दूर्वायुग्मं ततो गृह्य गंधपुष्पाक्षतैर्युतम् ।। ११३-३४ ।।

पूजां निवेदयेद्भक्तियुक्तो मोदकपंचकम् ।।
आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत् ।। ११३-३५ ।।

विनायकस्य प्रतिमां हैमीं सोपस्करां मुने ।।
निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत् ।। ११३-३६ ।।

एवं कृतार्चनो भक्त्या पंच वर्षाणि नारद ।।
उपास्य लभते कामानैहिकामुष्मिकान् शुभान् ।। ११३-३७ ।।

अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन ।।
पश्यन् मिथ्याभिशाप तु लभते नात्र संशयः ।।
अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत् ।। ११३-३८ ।।

सिंहः प्रसेनममधीत्सिंहो जांबवता हतः ।।
सकुमारक मा रोदीस्तव ह्येष स्यमंतकः ।। ११३-३९ ।।

इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम् ।। ११३-४० ।।

पौरुषेण तु सूक्तेन पूजयेदुपचारकैः ।।
अकारणान्मुष्टिगतांस्तंडुलान्सकपर्द्दिकान् ।। ११३-४१ ।।

विप्राय बटवे दद्याद्गंधपुष्पार्चिताय च ।।
तंडुला वैश्वदैवत्या हरदैवत्यमिश्रिताः ।। ११३-४२ ।।

कपर्दिगणनाथोऽसौ प्रीयतां तैः समर्पितैः ।।
चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम् ।। ११३-४३ ।।

स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते ।।
पूजयेच्च गणाधीशं स्नाता स्त्रीसमलंकृता ।। ११३-४४ ।।

तदग्रे पूर्णपक्वान्नं विन्यसेत्करकान्दश ।।
समर्प्य देवदेवाय भक्त्या प्रयतमानसा ।। ११३-४५ ।।

देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् ।।
सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम् ।। ११३-४६ ।।

ततश्चंद्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् ।।
भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ।। ११३-४७ ।।

यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने ।।
सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत् ।। ११३-४८ ।।

एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् ।।
उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत् ।। ११३-४९ ।।

यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवांछया ।।
व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम् ।। ११३-५० ।।

विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः ।।
ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम् ।। ११३-५१ ।।

प्रातर्व्रतं तु संकल्प्य धेनुशृंजगलं शुचि ।।
पीत्वा स्नात्वाथ मध्याह्ने शंखपालादिपन्नगान् ।। ११३-५२ ।।

शेषं चाह्वामपूर्वैस्तु पूजयेदुपचारकैः ।।
क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम् ।। ११३-५३ ।।

एवंकृते तु विप्रेंद्र नृभिर्नागव्रते शुभे ।।
विषाणि नश्यंत्यचिरान्न दशंति च पन्नगाः ।। ११३-५४ ।।

मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वरा ।।
क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम् ।। ११३-५५ ।।

अयाचितोपवासाभ्यां तृतीयकचतुर्थके ।।
एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ।। ११३-५६ ।।

समाप्य च ततोऽस्यांते व्रतस्नातो महाव्रती ।।
कारयेद्धेमघटितं भूगणेर्मूषकं रथम् ।। ११३-५७ ।।

अशक्तो वर्णकैरेव शुभ्रं चाब्जं सुपत्रकम् ।।
तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम् ।। ११३-५८ ।।

पूरयेत्तंडलैः शुभ्रैस्तस्योपरि गणेश्वरम् ।।
न्यसेद्वस्त्रयुगाच्छन्नं गंधाद्यैः पूजयेच्च तम् ।। ११३-५९ ।।

नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति ।।
जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत् ।। ११३-६० ।।

प्रभाते विमले स्नात्वा होमं कृत्वा विधानतः ।।
तिलव्रीहियवश्वेतसुर्षपाज्यैः सखंडकैः ।। ११३-६१ ।।

गणो गणाधिपश्चैव कूष्मांडस्त्रिपुरांतकः ।।
लंबोदरैकदंतौ च रुक्मदंष्ट्रश्च विघ्नपः ।। ११३-६२ ।।

ब्रह्मा यमोऽथ वरुणः सोमसूर्यहुताशनाः ।।
गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ।। ११३-६३ ।।

प्रणवाद्यैर्ङेंनमोंऽतैः प्रत्येकं दहने हुनेत् ।।
वक्रतुंडेति ङेंतेन बर्मांतेनाष्टयुक्छतम् ।। ११३-६४ ।।

ततो व्याहृतिभिः शक्त्या हुत्वा पूर्णाहुतिं चरेत् ।।
दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ।। ११३-६५ ।।

चतुत्विंशतिसंख्याकान् मोदकैः पायसैस्तथा ।।
सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम् ।। ११३-६६ ।।

अन्योभ्योऽपि यथाशक्ति भूयसीं च ततो ददेत् ।।
प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम् ।। ११३-६७ ।।

बन्धुभिः सह भुंजीत स्वयं च प्रीतमानसः ।।
एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान् ।। ११३-६८ ।।

सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः ।।
केचिद्वरव्रतं नाम प्राहुरेतस्य नारद ।। ११३-६९ ।।

विधानमेतदेवापि फलं चापीह तत्समम् ।।
पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ।। ११३-७० ।।

विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिणां ददेत् ।।
एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम् ।। ११३-७१ ।।

माघकृष्णचतुर्थ्यां तु संकष्टव्रतमुच्यते ।।
तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम् ।। ११३-७२ ।।

चंद्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः ।।
ततश्चंद्रोदये प्राप्ते मृन्मयं गणनायकम् ।। ११३-७३ ।।

विधाय विन्यसेत्पीठे सायुधं च सवाहनम् ।।
उपचारैः षोडशभिः समभ्यर्च्य विधानतः ।। ११३-७४ ।।

मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् ।।
ततोऽर्घ्यं ताम्रजे पात्रे रक्तचंदनमिश्रितम् ।। ११३-७५ ।।

सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् ।।
सशमीपत्रदधि च कृत्वा चंद्राय दापयेत् ।। ११३-७६ ।।

गगनार्णवमाणिक्य चंद्र दाक्षायणीपते ।।
गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक ।। ११३-७७ ।।

एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् ।।
शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुंजीत चाज्ञया ।। ११३-७८ ।।

एवं कृत्वा व्रतं विप्र संकष्टाख्यं शूभावहम् ।।
समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात् ।। ११३-७९ ।।

माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुत्तमम् ।।
तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः ।। ११३-८० ।।

नरैः स्त्रीभिर्विशेषेण कुंदपुष्पैः सकुंकुमैः ।।
रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च ।। ११३-८१ ।।

धूपैर्दीपंश्च बलिभिः सगुडैनार्द्रकेण च ।।
पयसा पायसेनापि लवणेन च पालकैः ।। ११३-८२ ।।

पूज्याश्चाविधवा नार्यस्तथा विप्राः सुशोभनाः ।।
सौभाग्यवृद्धये देयो भोक्तव्यं बंधुभिः सह ।। ११३-८३ ।।

इदं गौरीव्रतं विप्र सौभाग्यारोग्यवर्द्धनम् ।।
प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा ।। ११३-८४ ।।

ढुंढिव्रतं परैः प्रोक्तं कैश्चित्कुंडव्रतं स्मृतम् ।।
ललिताव्रतमित्यन्यैः शांतिव्रतमथापरैः ।। ११३-८५ ।।

स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ।।
भवेत्सह स्रगुणितं प्रसादाद्दंतिनः सदा ।। ११३-८६ ।।

चतुर्थ्यां फाल्गुने मासि ढुंढिराजव्रतं शुभम् ।।
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः ।। ११३-८७ ।।

गणेशाराधनपरो दानहोमप्रपूजनैः ।।
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ।। ११३-८८ ।।

सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः ।।
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये ।। ११३-८९ ।।

यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् ।।
सांगारका वा विप्रेंद्र सा विशेषफलप्रदा ।। ११३-९० ।।

सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च ।।
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ।। ११३-९१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शमास चतुर्थीव्रतनिरूपणं नाम त्रयोदशाधिकसततमोऽध्यायः ।। ११३ ।।