प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
कोऽसौ राक्षसभावाद्धि मोचितः सगरावन्वये ।।
सगरः को मुनिश्रेष्ट तन्म्रमाख्यातुमर्हसि ।। ७-१ ।।

सनक उवाच ।।
श्रुणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् ।।
यज्जलस्पर्शमात्रेण पावितं सागरं कुलम् ।।
गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् ।। ७-२ ।।

आसीद्रविकुले बाहुर्नाम वृकात्मजः ।।
बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः ।। ७-३ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः ।।
स्थापिताः स्वस्वधर्मेषु तेन बाहुर्विशांपतिः ।। ७-४ ।।

अश्वमेधैरियाजासौ सप्तद्वीपेषु सप्तभिः ।।
अतर्प्पयद्भूमिदेवान् गोभूस्वर्णाशुकादिभिः ।। ७-५ ।।

अशासन्नीतिशास्त्रेण यथेष्टं परिपन्थिनः ।।
मेने कृतार्थमात्मानमन्यातपनिवारणम् ।। ७-६ ।।

चन्दनानि मनोज्ञानि बलिं यत्सर्वदा जनाः ।।
भूषिता भूषणौर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने ।। ७-७ ।।

अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ।। ७-८ ।।

ववर्ष भूमौ देवेन्द्रः काले काले मुनिश्वर ।।
अधर्मनिरतापाये प्रजा धर्मेण रक्षिताः ।। ७-९ ।।

एकदा तस्य भूपस्य सर्वसंपद्विनाशकृत् ।।
अहंकारो महाञ्जज्ञे सासूयो लोपहेतुकः ।। ७-१० ।।

अहं राजा समस्तानां लोकानां पालको बली ।।
कर्त्ता महाक्रतूनां च मत्तः पूज्योऽस्ति कोऽपरः ।। ७-११ ।।

अहं विचक्षणः श्रीमाञ्जिताः सर्वे मयरयः ।।
वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्र विशारदः ७-१२ ।।

अजेयोऽव्याहतैश्वर्यो मत्तः कोऽन्योऽधिको भुवि ।।
अहंकारपरस्यैवं जातासूया परेष्वपि ।। ७-१३ ।।

असूयातोऽभवत्कामस्तस्य राज्ञो मुनीश्वर ।।
एषु स्थितेषु तु नरो विनाषं यात्यसंशयम् ।। ७-१४ ।।

यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता ।।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ।। ७-१५ ।।

तस्यासूया नु महती जाता लोकविरोधिनी ।।
स्वदेहनाशिनी विप्र सर्वसंपद्विनाशिनी ।। ७-१६ ।।

असूयाविष्टमनसि यदि संपत्प्रवर्त्तते ।।
तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत ।। ७-१७ ।।

असूयोपेतमनसां दम्भाचारवतां तथा ।।
परुषोक्तिरतानां च सुखं नेह परत्र च ।। ७-१८ ।।

असूयाविष्टचित्तानां सदा निष्ठुरभाषिणाम् ।।
प्रियावा तनया वापि बान्धवा अप्यरातयः ।। ७-१९ ।।

मनोभिलाषं कुरुते यः समीक्ष्य परस्त्रियम् ।।
स स्वसंपद्विनाशाय कुठारो नात्र संशयः ।। ७-२० ।।

यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने ।।
सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सूरं कुधीः ।। ७-२१ ।।

मित्रापत्यगृहक्षेत्र धनधान्यपसुष्वपि ।।
हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज ।। ७-२२ ।।

अथ तस्याविनीतस्य ह्यसूयाविष्टचेतसः ।।
हैहयास्ताललजंघाश्च बलिनोऽरातयोऽभवन् ।। ७-२३ ।।

यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धते ।।
स एव विमुखो यस्य सौभाग्यं तस्य हीयते ।। ७-२४ ।।

तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः ।।
यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद ।। ७-२५ ।।

अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः ।।
श्लाध्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये ।। ७-२६ ।।

सौभाग्यं तस्य हीयेत यस्यासूयादिलाञ्छनम् ।।
जायते नात्र संदेहो जन्तुद्वेषो विशेषतः ।। ७-२७ ।।

सततं यस्य कस्यापि यो द्वेषं कुरुते नरः ।।
तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसतम् ।। ७-२८ ।।

असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः ।।
धनं धान्यं मही संपनद्विश्यति ततो ध्रुवम् ।। ७-२९ ।।

विवेकं हन्त्यहंकारस्त्वविवेकात्तु जीविनाम् ।।
आपदः संभवन्त्येवेत्यहंकारं त्यजेत्ततः ।। ७-३० ।।

अहंकारो भवेद्यस्य तस्य नाशोऽतिवेगतः ।।
असूयाविष्टमनसस्तस्य राज्ञः परैः सह ।। ७-३१ ।।

आयोधनमभीद्धोरं मासमेकं निरन्तरम् ।।
हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः ।। ७-३२ ।।

स तु बाहुस्ततो दुःखी अन्तर्वत्न्या स्वभार्यया ।।
अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः ।। ७-३३ ।।

असूयोपेतमनसस्तस्य भावं निरीक्ष्य च ।।
सरोगतविहङ्गास्ते लीनाश्चित्रमिदं महत् ।। ७-३४ ।।

अहो कष्टमहो रुपं घोरमत्र समागतम् ।।
विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः ।। ७-३५ ।।

सोऽवगाह्यसरोभूपः पत्नीभ्यां सहितो मुता ।।
पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रितः ।। ७-३६ ।।

तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः ।।
दुर्गुणान्विगणय्यास्यधिग्धिगित्यब्रुवन्प्रजाः ।। ७-३७ ।।

यो वा को वा गुणी मर्त्यः सर्वश्वाध्यतरोद्विजः ।।
सर्वसंपत्समायुक्तोऽप्यगुणीनिंदितो जनैः ।। ७-३८ ।।

अपकीर्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते ।।
यदा बाहुर्वनं यातस्तदा तद्रागगा जनाः ।।
संतुष्टिं परमां याता दवथौ विगते यथा ।। ७-३९ ।।

निन्दातो बहुशो बाहुर्मृतवत्काननेस्थितः ।।
निहत्य कर्म च यशो लोके द्वजवरोत्तम ।। ७-४० ।।

नास्त्यकीर्तिसमो मृत्युर्नास्ति क्रोधसमो रिपुः ।।
नास्ति निंदासमं पापं नास्ति मोहसमासवः ।। ७-४१ ।।

नास्त्यसूयासमा कीर्तिर्नास्ति कामसमोऽनलः ।।
नास्ति रागसमः पाशो नास्ति सङ्गसमं विषम् ।। ७-४२ ।।

एवं विलप्यबहुधा बाहुरत्यन्तदुःखितः ।।
जीर्णाङ्गोमनसस्तापाद् वृद्धभावादभूदसौ ।। ७-४३ ।।

गते बहुतिथे काले और्वाश्रमसमीपतः ।।
स बाहुर्व्याधिना ग्रस्ते ममार मुनिसत्तम ।। ७-४४ ।।

तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा ।।
चिरं विलप्य बहुधा सहगन्तुं मनो दधे ।। ७-४५ ।।

समानीय च्सैधांसि चितां कृत्वातिदुःखिता ।।
समारोप्य तमारुढं स्वयं समुपचक्रमे ।। ७-४६ ।।

एतस्मिन्नन्तरे धीमनौर्वस्तेजोनिधिर्मुनिः ।।
एतद्विज्ञातवान्सर्वं परमेण समाधिना ।। ७-४७ ।।

भूतं भव्यं वर्त्तमानं त्रिकालज्ञामुनीश्वराः ।।
गतासूया महात्मानः पश्यन्तिज्ञान चक्षुषा ।। ७-४८ ।।

तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः ।।
संप्राप्तस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता ।। ७-४९ ।।

चितामारोढुमुद्युक्तां तां दृष्ट्वा मुनिसत्तमः ।।
प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः ।। ७-५० ।।

और्व उवाच ।।
राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम् ।।
तवोदरे चक्रवर्ती शत्रुहन्ता हि तिष्टति ।। ७-५१ ।।

बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।।
रजस्वला राजसुतेनारोहति चिंताशुभे ।। ७-५२ ।।

ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः ।।
दाम्भिनोनिंदकस्यापि भ्रूणघ्रस्य न निष्कृतिः ।। ७-५३ ।।

नास्तिकस्य कृतन्घस्य धर्मोपेक्षाकरस्य च ।।
विश्वासघातकस्यापि निष्कृतिर्नास्ति सुव्रते ।। ७-५४ ।।

तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने ।।
यदेतद्दुःखमुत्पन्नं तत्सर्वं शांतिमेष्यति ।। ७-५५ ।।

इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम् ।।
विललापातिदुःखार्ता समुह्यधवपत्कुजौ ।। ७-५६ ।।

और्वोऽपि तां पुनः प्राह सर्वशास्त्रार्थकोविदः ।।
मारोदीराज ननये श्रियमग्र्ये गमिष्यसि ।। ७-५७ ।।

मा भुं चास्त्रमाहाभागेप्रेतो दाह्योऽद्य सज्जनैः ।।
तस्माच्छोकं परित्यज्य कुरु कालोचिताम्क्रि याम् ।। ७-५८ ।।

पण्डिते वापिमूर्खे वा दरिद्रे वाश्रियान्विते ।।
दुर्वृत्ते वा सुवृत्ते वा मृत्योःसर्वत्रतुल्यता ।। ७-५९ ।।

नगरे वा तथामन्ये दैन्यमत्रातिरिच्यते ।। ७-६० ।।

यद्यत्पुरातनं कर्मतत्तदेर्वेह युज्यते ।।
कारणं दैवमेवात्र मन्ये सोपाधिका जनाः ।। ७-६१ ।।

गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके ।।
मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने ।। ७-६२ ।।

हन्ति पाति च गोविन्द्रो जन्तून्कर्मवशे स्थितान् ।।
प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु ।। ७-६३ ।।

तस्मादुःखं परित्यज्य सुखिनी भव सुव्रते ।।
कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव ।। ७-६४ ।।

एतच्छरीरं दुःखानां व्याधीनामयुतैर्गृतम् ।।
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ।। ७-६५ ।।

इत्याश्चास्य महाबुद्धिस्तया कार्याण्यकारयत् ।।
त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम् ।। ७-६६ ।।

किमत्र चित्रं यत्सन्तः परार्थफलकाङ्क्षिणः ।।
नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले ।। ७-६७ ।।

योऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत् ।।
स एव विष्णुस्सत्त्वस्थो यतः परिहिते स्थितः ।। ७-६८ ।।

अन्य दुःखेन यो दुःखी योऽन्यहर्षेण हर्षितः ।।
स एव जगतामीशो नररुपधरो हरिः ।। ७-६९ ।।

सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये ।।
सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि ।। ७-७० ।।

यत्र सन्तः प्रवर्त्तते तत्र दुःखं न बाधते ।।
वर्तते यत्र मार्ताण्डः कथं तत्र्तमो भवेत् ।। ७-७१ ।।

इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः ।।
चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः ।। ७-७२ ।।

स्थिते तत्र मुनौ राजा देवराडिव संज्वलन् ।।
चितामध्याद्विनिष्क्रम्य विमानवरमास्थितः ।।

प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम् ।। ७-७३ ।।
महापातकयुक्ता वा युक्ता वा चोपपातकैः ।।

परं पदं प्रयान्त्येव महद्भिरवलोकिताः ।। ७-७४ ।।
कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम ।।

यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम् ।। ७-७५ ।।
पत्युः कृतक्रिया सा तु गत्वाश्रमपदंमुनेः ।।

चकार तस्य शुश्रूषां सपत्न्या सह नारद् ।। ७-७६ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सपत्मोऽध्यायः ।। ७ ।।