प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

शौनक उवाच ।।
सूत साधो चिरं जीव सर्वशास्त्रविशारदः ।।
यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम् ।। १ ।।
श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः ।।
सनंदनमुखोद्गीतान्किं पप्रच्छं ततः परम् ।। २ ।।
मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः ।।
चरंति लोकानन्तसिद्धा लोकोद्धरणतत्पराः ।। ३ ।।
नारदोऽपि महाभाग नित्यं कृष्णपरायणः ।।
तेषां समागमे भद्रा का कथा लोकपावनी ।। ४ ।।
सूत उवाच ।।
साधु पृष्टं महाभाग त्वया लोकोपकारिणा ।।
कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा ।। ५ ।।
श्रुत्वा सनंदनप्रोक्तान्मोक्षधर्मान्सनातनान् ।।
नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् ।। ६ ।।
नारद उवाच ।।
सर्वदेवेश्वरो विष्णुर्वेदे तंत्रे च कीर्तितः ।।
समाराध्यः स एवात्र सर्वैः सर्वार्थकांक्षिभिः ।। ७ ।।
कैर्मंत्रैर्भगवान्विष्णुः समाराध्यो मुनीश्वराः ।।
के देवाः पूजनीयाश्च विष्णुपादपरायणैः ।। ८ ।।
तंत्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् ।।
दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम् ।। ९ ।।
यैर्मासैः कर्मभिर्यैर्वा जप्यैर्होमादिभिस्तथा ।।
प्रीयेत परमात्मा वै तद्ब्रूत मम मानदाः ।। १० ।।
सूत उवाच ।।
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः ।।
सनत्कुमारो भगवानुवाचार्कसमद्युतिः ।। ११ ।।
सनत्कुमार उवाच ।।
श्रृणु नारद वक्ष्यामि तंत्रं भागवतं तव ।।
यज्ज्ञात्वाऽमलया भक्त्या साधयेद्विष्णुमव्ययम् ।। १२ ।।
त्रिपदार्थं चतुष्पादं महातंत्रं प्रचक्षते ।।
भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः ।। १३ ।।
पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि ।।
पतिस्तत्र शिवोह्येको जीवास्तु पशवः स्मृताः ।। १४ ।।
यावन्मोहादिसंयोगाः स्वरूपाबोधलक्षणाः ।।
तावत्पशुत्वमेतेषां द्वैतवत्पश्य नारद ।। १५ ।।
पाशाः पंचविधास्त्वेषां प्रत्येकं तेषु लक्षणम् ।।
पशवस्त्रिविधाश्चापि विज्ञाताः कलसंज्ञिकाः ।। १६ ।।
तलपाकलसंज्ञश्च सकलश्चेति नामतः ।।
तत्राद्यो मलसंयुक्तो मलकर्मयुतः परः ।। १७ ।।
मलमायाकर्मयुतस्तृतीयः पार्रकीर्तितः ।।
आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा ।। १८ ।।
असमासमलश्चेति द्वितीयोऽपि पुनस्तथा ।।
पक्वापक्वमलेनैव द्विविधः परिकीर्तितः ।। १९ ।।
शुद्धेऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ ।।
कलादितत्त्वनियतः सकलः पर्यटत्ययम् ।। २० ।।
कर्मानुगशरीरेषु तत्तद्भुवनगेषु च ।।
पाशाः पंच तथा तत्र प्रथमौ मलकर्मजौ ।। २१ ।।
मायेयश्च तिरोधानशक्तिजो बिंदुजः परः ।।
एकोऽप्यनेकशक्तिर्दृक्क्रियाच्छादनकोमलः ।। २२ ।।
तुषकंचुकवद्देहनिमित्तं चात्मनामिह ।।
धर्माधर्मात्मकं कर्म विचित्रफलभोगदम् ।। २३ ।।
प्रवाहनित्यं तद्बीजांकुरन्यायेन संस्थितम् ।।
इत्येतौ प्रथमौ चाथ मायेयाद्यान् श्रृणुद्विज ।। २४ ।।
सञ्चिदानंदविभवः परमात्मा सनातनः ।।
पतिर्जयति सर्वेषामेको बीजं विभुः परम् ।। २५ ।।
मनस्यति न चोदेति निवृत्तिं च प्रयच्छति ।।
वर्वर्ति दृक्क्रियारूपं तत्तेजः शांभवं परम् ।। २६ ।।
शक्तो मया हरौ भुक्तो पशुगणस्य हि ।।
तच्छक्तिमाद्यामेकांतां विद्रूपाख्यां वदंति हि ।। २७ ।।
तया चोज्जृंभितो बिंदुर्दिक्क्रियात्मा शिवाभिधः ।।
अशेषतत्त्वजातस्य कारणं विभुरव्ययम् ।। २८ ।।
अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् ।।
कृत्यं कुर्वंति तेनेदं सर्वानुग्राहकं मुने ।। २९ ।।
चिज्जडानुग्रहार्थाय यस्य विश्वं सिसृक्षतः ।।
आद्योन्मेषोऽस्य नादात्मा शांत्यादिभुवनात्मकः ।। ३० ।।
तच्छक्तितत्त्वं विप्रेंद्र प्रोक्तं सावयवं परम् ।।
ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः ।। ३१ ।।
प्रसरश्चाप्यभावेन तत्त्वं चैतत्सदाशिवम् ।।
दृक्शक्तिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते ।। ३२ ।।
ईश्वराख्यं तु तत्तत्त्वं प्रोक्तं सर्वार्थकर्तृकम् ।।
यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते ।। ३३ ।।
तत्तत्त्वं चैव विद्याख्यं ज्ञानरूपं प्रकाशकम् ।।
नादो बिंदुश्च सकलः सदाख्यं तत्त्वमाश्रितौ ।। ३४ ।।
विद्येशाः पुनरैशं तु मंत्रा विद्याभिधं पुनः ।।
इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम् ।। ३५ ।।
साक्षान्निमित्तमीशोऽत्रेत्युपादानसबिंदुराट् ।।
पंचानां कालराहित्याक्रमो नास्तीति निश्चितम् ।। ३६ ।।
व्यापारवसतो ह्येषां विहिता खलु कल्पना ।।
तत्त्वं वस्तुत एकं तु शिवाख्यं चित्रशक्तिकम् ।। ३७ ।।
शक्तं यां वृत्तिभेदात्तुविहिताः खलु कल्पनाः ।।
चिज्जडानुग्रहार्थाय कृत्वा रूपाणि वै प्रभुः ।। ३८ ।।
अनादिमलरुद्धानां कुरुतेऽनुग्रहं चिताम् ।।
मुक्तिं च विश्वेषां स्वव्यापारे समर्थेताम् ।। ३९ ।।
विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः ।।
शिवसामान्यरूपो हि मोक्षस्तु चिदनुग्रहः ।। ४० ।।
सोऽनादित्वात्कर्मणो हि तत्तद्भोगं विना भवेत् ।।
तेनानुग्राहकः शम्भुस्तद्भुक्त्यै प्रभुर्व्ययः ।। ४१ ।।
कुरुते सूक्ष्मकरणभुवनोत्पत्तिमंजसा ।।
कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते ।। ४२ ।।
शक्तयः करणं चात्र मायोपादानमिष्यते ।।
नित्यैका च शिवा शक्त्या ह्यनादिनिधना सती ।। ४३ ।।
साधारणी नराणां वै भुवनानां च कारणम् ।।
स्वभावान्मोहजननी स्वचिताजनकर्मभिः ।। ४४ ।।
विश्वी सूक्ष्मा परा माया विकृतैः परत्तु सा ।।
कर्माण्यावेक्ष्य विद्येशो मायां विक्षोभ्य शक्तिभिः ।। ४५ ।।
विधत्ते जीवभोगार्थं वपूंषि करणानि च ।।
सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा ।। ४६ ।।
भावि भूतं मवञ्चेदं जगत्कलयते लयम् ।।
सूते ह्यनंतरं माया शक्तिं नियमनात्मिकाम् ।। ४७ ।।
सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता ।।
अनंतरं च सा माया नित्या विश्वविमोहिनी ।। ४८ ।।
अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि ।।
एकतस्तु नृणां येन कलयित्वा मलं ततः ।। ४९ ।।
कर्तृशक्तिं व्यंजयति तेनेदं तु कलाभिधम् ।।
कालेन च नियत्योपसर्गतां समुपेतया ।। ५० ।।
व्यापारं विदधात्येषा भूपर्यंतं स्वकीयकम् ।।
प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः ।। ५१ ।।
प्रकाशरूपं विद्याख्यं तत्त्वं सूते कलैव हि ।।
विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा ।। ५२ ।।
विषयान्दर्शयत्येषात्मनांशाकारणं ह्यतः ।।
करोति भोग्यं यानासौ करणेन परेण वै ।। ५३ ।।
उद्बुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् ।।
भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा ।। ५४ ।।
भोग्येस्य भोग्यतिर्मासाञ्चिद्व्यक्तिर्भोग उच्यते ।।
सुखादिरूपो विषयाकारा बुद्धिः समासतः ।। ५५ ।।
भोग्यं भोक्तुश्च स्वेनैव विद्याख्यं करणं तु तत् ।।
यद्यर्कवत्प्रकाशा धीः कर्मत्वाञ्च तथापि हि ।। ५६ ।।
करणांतरसापेक्षा शक्ता ग्राहयितुं च तम् ।।
संबन्धात्कारणाद्यैस्तद्भोगौत्सुक्येन चोदनात् ।। ५७ ।।
तञ्चष्टाफलयोगाञ्च संसिद्धा कर्तृतास्य तु ।।
अकर्तृत्वाभ्युपगमे भोक्तृत्वाख्या वृथास्य तु ।। ५८ ।।
किं च प्रधानचरितं व्यर्थं सर्वं भवेत्ततः ।।
कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके ।। ५९ ।।
भोगस्यासंभवस्तस्मात्स एवात्र प्रवर्तकः ।।
करणादिप्रयोक्तॄत्वं विद्ययैवास्य संमतम् ।। ६० ।।
अनंतरं कलारागं सूते भिद्यंगरूपकम् ।।
येन भोग्याय जनिता भिद्यंगे पुरुषे पुनः ।। ६१ ।।
क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञिकम् ।।
एभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा ।। ६२ ।।
नित्यस्तदायमात्मा तु लभते पुरुषाभिधाम् ।।
कलैव प्रश्चादव्यक्तं सूते भोग्याय चास्य तु ।। ६३ ।।
सप्तग्रंथिविधानस्य यत्तद्गौणस्यकारणम् ।।
गुणानामविभागोऽत्र ह्याधारे क्ष्मादिभागवत् ।। ६४ ।।
आधारोऽपि च यस्तेषां तदव्यक्तं च गीयते ।।
त्रय एव गुणा ह्यषामव्यक्तादेव संभवः ।। ६५ ।।
सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका ।।
गुणतो धीश्च विषयाध्यवसायस्वरूपिणी ।। ६६ ।।
गुणतस्त्रिविधा सापि प्रोक्ता कर्मानुसारतः ।।
महत्तत्तवादहंकारो जातः संरंभवृत्तिमान् ।। ६७ ।।
संभोदादस्य विषयः प्राप्नोति व्यवहार्यताम् ।।
सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत् ।। ६८ ।।
तैजसो राजसश्चैव तामसश्चेति नामतः ।।
तत्र तैजसतो ज्ञानेंद्रियाणि मनसा सह ।। ६९ ।।
प्रकाशान्व यतस्तस्माद्वोधकानि भवन्ति हि ।।
राजसाञ्च क्रियाहेतोस्तथा कर्मेंद्रियाणि तु ।। ७० ।।
तामसाञ्चैव जायन्ते तन्मात्रा भूतयोनयः ।।
इच्छारूपं च संकल्पव्यापारं तत्र वै मनः ।। ७१ ।।
द्विधाधिकारि तञ्चित्तं भोक्तृभोगोपपादकम् ।।
बहिः करणभावेन स्वोचितेन यतः सदा ।। ७२ ।।
इंद्रियाणांच सामर्थ्यं संकल्पेनात्मवृत्तिना ।।
करोत्यंतःस्थितं भूयस्ततोऽन्तः करणं मनः ।। ७३ ।।
मनोऽहंकारबुद्ध्याख्यमस्त्यन्तः कारणं त्रिधा ।।
इच्छासंरंभबोधाख्या वृत्तयः क्रमतोऽस्य तु ।। ७४ ।।
ज्ञानेंद्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ।।
ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने ।। ७५ ।।
शब्दस्पर्शरूपरसगन्धाः शब्दादयो मताः ।।
वाक्पाणिपादपायूपस्थास्तु कर्मेंद्रियाण्यपि ।। ७६ ।।
वचनादानगमनोत्सर्गानंदेषु कर्मसु ।।
करणानि च सिद्धिना न कृतिः करणैर्विना ।। ७७ ।।
दशधा करणैश्चेष्टां कार्यमाविश्य कार्यते ।।
चेष्टंते कार्यमालंब्य विभुत्वात्करणानि तु ।। ७८ ।।
तन्मात्राणि तु खवायुस्तेजोऽम्भः क्ष्मेति पञ्च वै ।।
तेभ्यो भूतान्येकगुणान्याख्यातानि भवंति हि ।। ७९ ।।
इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ।।
रूपं त्रिषु रसश्चैव द्वयोर्गंधः क्षितौ तथा ।। ८० ।।
कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् ।।
पाकश्च संग्रहश्चैव धारणं चेति कथ्यते ।। ८१ ।।
आशीतोष्णौ महा वाद्यौ शीतोष्णौ वारितेजसोः ।।
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ।। ८२ ।।
रूपं त्रिषु रसोंऽभः सु मधुरः षड्विधः क्षितौ ।।
गन्धः क्षितावसुरभिः सुरभिश्च प्रकीर्तितः ।। ८३ ।।
तन्मात्रं तद्भूतगुणं करणं पोषणं तथा ।।
भूतस्य तु विशेषोऽयं विशेषरहितं तु तत् ।। ८४ ।।
इमानि पञ्चभूतानि संनिविष्टानि सर्वतः ।।
पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ।। ८५ ।।
शरीरसंनिविष्टत्वमेषां तावन्निरूप्यते ।।
देहेऽस्थिमांसकेशत्वङ्नखदन्ताश्च पार्थिवाः ।। ८६ ।।
मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः ।।
हृदि पंक्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् ।। ८७ ।।
प्राणादिवृत्तिभेदेन वायुश्चैवात्र संस्थितः ।।
वियत्सर्वासु नाडीषु गर्भवृत्यनुषंगतः ।। ८८ ।।
प्रयोक्त्यादिमहीप्रांतमेतदंडार्थसाधनम् ।।
प्रत्यात्मनियतं भोगभेदतो व्यवसीयते ।। ८९ ।।
तत्त्वान्येवं कलाद्यानि प्रतिपुंनियतानि हि ।।
देहेषु कर्मवशतः सर्वेषु विचरंति हि ।। ९० ।।
मायेयश्चैव पाशोऽयं येनावृतमिदं जगत् ।।
अशुद्धाध्वामतो ह्येष धरण्यादिकलावधिः ।। ९१ ।।
तत्र भूमण्डलस्थोऽसौ स्थावरो जङ्गमात्मकः ।।
स्थावरा गिरिवृक्षाद्या जङ्गमस्त्रिविधः पुनः ।। ९२ ।।
स्वेदजाश्चांडजाश्चैव तथैव च जरायुजाः ।।
चराचरेषु लक्षाणां चतुराशीतियोनयः ।। ९३ ।।
भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः ।।
प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम् ।। ९४ ।।
तत्रापि भारते खण्डे ब्राह्मणादिकुलेषु च ।।
महापुण्यवशेनैव जनिर्भवति दुर्लभा ।। ९५ ।।
जनिश्च पुंस्‌त्रियोर्योगः शुक्रशोणितयोगतः ।।
बिंदुरेकः प्रविशति यदा गर्भे द्वयात्मकः ।। ९६ ।।
तदा रजोऽधिके नारी भवेद्रेतोऽधिके पुमान् ।।
मलकर्मादिपाशेन कश्चिदात्मा नियंत्रितः ।। ९७ ।।
जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते ।।
अथ तत्राहृतैर्मात्रा पानान्नाद्यैश्च पोषितः ।। ९८ ।।
पक्षमासादिकालेन वर्धते वपुरत्र हि ।।
दुःखाद्यः पीडितश्चैवाच्छन्नदेहो जरायुणा ।। ९९ ।।
एवं तत्र स्थितो गर्भे प्राग्जन्‌मोत्थं शुभाशुभम् ।।
स्मरंस्तिष्टति दुःखात्मापीड्यमानो मुहुर्मुहुः ।। १०० ।।
कालक्रमेण बालोऽसौ मातरं पीडयन्नपि ।।
संपीडितो निःसरति योनियंत्रादवाङ्मुखः ।। १०१ ।।
क्षणं तिष्टति निश्चेष्टस्ततो रोदितुमिच्छति ।।
ततः क्रमेण स शिशुर्वर्धमानो दिनेदिने ।। १०२ ।।
बालपौगंडभेदेन युवत्वं प्रतिपद्यते ।।
एवं क्रमेण लोकेऽस्मिन्देहिनां देहसंभवः ।। १०३ ।।
मानुषं दुर्लभं प्राप्य सर्वलोकोपकारकम् ।।
यस्तारयति नात्मानं तस्मात्पापतरोऽत्र कः ।। १०४ ।।
आहारश्चैव निद्रा च भयं मैथुनमेव च ।।
पश्वादीनां च सर्वेषां च सर्वेषां साधारणमितीरितम् ।। १०५ ।।
चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मधातकः ।।
मनुष्याणामयं धर्मः रवबंधच्छेदनात्मकः ।। १०६ ।।
पाशबंधनविच्छेदो दीक्षयैव प्रजायते ।।
अतो बंधनविच्छित्त्यै मंत्रदीक्षां समाचरेत् ।। १०७ ।।
दीक्षाज्ञानाख्यया शक्त्या ह्यपध्वंसितबन्धनः ।।
शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते ।। १०८ ।।
स्वशक्त्यात्मिकया दृष्ट्या शिवं ध्यायति पश्यति ।।
यजते शिवं मंत्रैश्च रवपरेषां हिताय सः ।। १०९ ।।
शिवार्कशक्तिदीधित्या समर्थीकृतचिदृशा ।।
शिवशक्त्यादिभिः सार्द्धं पश्यत्यात्मगतावृत्तिः ।। ११० ।।
अंतःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् ।।
न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत् ।। १११ ।।
दीक्षैव परमो हेतुः पाशविच्छेदने पुनः ।।
अतः शास्त्रोक्तविधिना मन्त्रदीक्षां समाचरेत् ।। ११२ ।।
दीक्षितस्तंत्रविधिना स्ववर्णाचारतत्परः ।।
अनुष्टानं प्रकुर्वीत नित्यनमित्तिकात्मकम् ।। ११३ ।।
निजवर्णाश्रमाचारान्मनसापि न लंघयेत् ।।
यो यस्मिन्नाश्रमे तिष्टन्दीक्षां प्राप्नोति मानवः ।। ११४ ।।
स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्माननुपालयेत् ।।
कृतान्यपि न कर्माणि बंधनाय भवंति हि ।। ११५ ।।
एकं तु फलदं कर्म मंत्रानुष्ठानसंभवम् ।।
दीक्षितोऽभिलषेद्भोगान्यद्यल्लोकगतानसौ ।। ११६ ।।
मंत्राराधनसामर्थ्यात्तद्भुक्त्वा मोक्षमश्नुते ।।
नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः ।। ११७ ।।
कंचित्कालं पिशाचत्वं प्राप्यांते मोक्षमश्नुते ।।
तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम् ।। ११८ ।।
अनुष्ठानं च तेनास्य दीक्षां प्राप्याऽनुमीयते ।।
नित्यनैमित्तिकाचार पालकस्य नरस्य तु ।। ११९ ।।
दीक्षावैकल्यविरहात्सद्यो मुक्तिस्तु जायते ।।
तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा ।। १२० ।।
दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः ।।
दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा ।। १२१ ।।
कृतेऽपि विफलं तस्य प्रायश्चित्तं पदे पदे ।।
कायेन मनसा वाचा गुरुभक्तिपरस्य च ।। १२२ ।।
प्रायश्चित्तं भवेन्नैव सिद्धिस्तस्य पदे पदे ।।
गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके ।। १२३ ।।
मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः ।। १२४ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे त्रिषष्टितमोऽध्यायः ।।