नारदपुराणम्- पूर्वार्धः/अध्यायः ३५
सनक उवाच
पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः
पठतां शृण्वतां सद्यः पापराशिः प्रणश्यति 1.35.१
शान्ता जितारिषड्वर्गा योगेनाप्यनहङ्कृताः
यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् २
तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः
यजन्ति कर्मयोगेन सर्वधातारमच्युतम् ३
लुब्धा व्यसनिनोऽज्ञाश्च न यजन्ति जगत्पतिम्
अजरामरवन्मूढास्तिष्ठन्ति नरकीटकाः ४
तडिल्लेखाश्रिया मत्ता वृथाहङ्कारदूषिताः
न यजन्ति जगन्नाथं सर्वश्रेयोविधायकम् ५
हरिधर्मरताः शान्ता हरिपादाब्जसेवकाः
दैवात्केऽपीह जायन्ते लोकानुग्रहतत्पराः ६
कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम्
स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ७
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ८
तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः
यस्य श्रवणमात्रेण वाजिमेधफलं लभेत् ९
कश्चिदासीत्पुरा विप्र ब्राह्मणो रैवतेऽन्तरे
वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः १०
सर्वभूतदयायुक्तो हरिपूजापरायणः
पुत्रमित्रकलत्रार्थं धनार्जनपरोऽभवत् ११
अपण्यविक्रयं चक्रे तथा च रसविक्रयम्
चण्डालाद्यैरपि तथा सम्भाषी तत्प्रतिग्रही १२
तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा
परार्थं तीर्थगमनं कलत्रार्थमकारयत् १३
कालेन गच्छता विप्र जातौ तस्य सुतावुभौ
यज्ञमाली सुमाली च यमलावतिशोभनौ १४
ततः पिता कुमारौ तावतिस्नेहसमन्वितः
पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा १५
वेदमालिर्बहूपायैर्धनं सम्पाद्य यत्नतः
स्वधनं गणयामास कियत्स्यादिति वेदितुम् १६
निधिकोटिसहस्राणां कोटिकोटिगुणान्वितम्
विगणय्य स्वयं हृष्टो विस्मितश्चार्थचिन्तया १७
असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः
मया तपोविक्रयाद्यैरेतद्धनमुपार्जितम् १८
नाद्यापि शान्तिमापन्ना मम तृष्णातिदुःसहा
मेरुतुल्यसुवर्णानि ह्यसङ्ख्यातानि वाञ्छति १९
अहो मन्ये महाकष्टं समस्तक्लेशसाधनम्
सर्वान्कामानवाप्नोति पुनरन्यच्च कांक्षति २०
जीर्यन्ति जीर्यतः केशाः दन्ताः जीर्यन्ति जीर्यतः
चक्षुःश्रोत्रे च जोर्येते तृष्णैका तरुणायते २१
ममेन्द्रि याणि सर्वाणि मन्दभावं व्रजन्ति च
बलं हृतं च जरसा तृष्णा तरुणतां गता २२
कष्टाशा वर्त्तते यस्य स विद्वानथ पण्डितः
सुशान्तोऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः २३
आशा भङ्गकरी पुंसामजेयारातिसन्निभा
तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् २४
बलं तेजो यशश्चैव विद्यां मानं च वृद्धताम्
तथैव सत्कुले जन्म आशा हन्त्यतिवेगतः २५
नृणामाशाभिभूतानामाश्चर्यमिदमुच्यते
किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः २६
आशाभिभूताः ये मर्त्या महामोहा महोद्धताः
अवमानादिकं दुःखं न जानन्ति कदाप्यहो २७
मयाप्येवं बहुक्लेशैरेतद्धनमुपार्जितम्
शरीरमपि जीर्णं च जरसापहृतं बलम् २८
इतः परं यतिष्यामि परलोकार्थमादरात्
एवं निश्चित्य विप्रेन्द्र धर्ममार्गरतोऽभवत् २९
तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा
स्वयं तु भागद्वितयं स्वार्जितार्थादपाहरत् ३०
शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ
स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ३१
प्रपातडागारामांश्च तथा देवगृहान्बहून्
अन्नादीनां च दानानि गङ्गातीरे चकार सः ३२
एवं धनमशेषं च विश्राण्य हरिभक्तिमान्
नरनारायणस्थानं जगाम तपसे वनम् ३३
तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम्
फलितैः पुष्पितैश्चैव शोभितं वृक्षसञ्चयैः ३४
गृणद्भिः परमं ब्रह्म शास्त्रचिन्तापरैस्तथा
परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ३५
शिष्यैः परिवृतं तत्र मुनिं जानन्तिसंज्ञकम्
गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह ३६
शमादिगुणसंयुक्तं रागादिरहितं मुनिम्
शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ३७
तस्य जानन्तिरागन्तोः कल्पयामास चार्हणम्
कन्दमूलफलाद्यैस्तु नारायणधिया मुने ३८
कृतातिथ्यक्रियस्तेन वेदमाली कृताञ्जलि
विनयावनतो भूत्वा प्रोवाच वदतां वरम् ३९
भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम
मामुद्धर महाभाग ज्ञानदानेन पण्डित ४०
एवमुक्तस्ततस्तेन जानन्तिर्मुनिसत्तमः
प्रोवाच प्रहसन्वाग्मी वेदमालि गुणान्वितम् ४१
जानन्तिरुवाच
शृणुष्व विप्रशार्दूल संसारोच्छेदकारणम्
प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ४२
भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम्
परापवादं पैशुन्यं कदाचिदपि मा कृथाः ४३
परोपकारनिरतः सदा भव महामते
हरिपूजापरश्चैव त्यज मूर्खसमागमम् ४४
कामं क्रोधं च लोभं च मोहं च मदमत्सरौ
परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि ४५
असूयां परनिन्दा च कदाचिदपि मा कुरु
दम्भाचारमहङ्कारं नैष्ठुर्यं च परित्यज ४६
दयां कुरुष्व भूतेषु शुश्रूषां च तथा सताम्
त्वया कृतांश्च धर्मान्वै मा प्रकाशय पृच्छताम् ४७
अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः
पूजयस्वातिथिं नित्यं स्वकुटुम्बाविरोधतः ४८
पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ
पूजयस्व जगन्नाथं नारायणमकामतः ४९
देवानृषीन्पितॄंश्चापि तर्पयस्व यथाविधि
अग्नेश्च विधिवद्विप्र परिचर्यापरो भव ५०
देवतायतने नित्यं सम्मार्जनपरो भव
तथोपलेपनं चैव कुरुष्व सुसमाहितः ५१
शीर्णस्फुटितसम्धानं कुरु देवगृहे सदा
मार्गशोभां च दीपं च विष्णोरायतने कुरु ५२
कन्दमूलफलैर्वापि सदा पूजय माधवम्
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ५३
पुराणश्रवणं चैव पुराणपठनं तथा
वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः ५४
एवंस्थिते तव ज्ञानं भविष्यत्युत्तमोत्तमम्
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ५५
एवं प्रबोधितस्तेन वेदमालिर्महामतिः
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ५६
वेदमालि कदाचित्तु ज्ञानलेशप्रचोदितः
कोऽहं मम क्रिया केति स्वयमेव व्यचिन्तयत् ५७
मम जन्म कथं जातं रूपं कीदृग्विधं मम
एवं विचारणपरो दिवानिशमतन्द्रि तः ५८
अनिश्चितमतिर्भूत्वा वेदमालिर्द्विजोत्तमः
पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह ५९
वेदमालिरुवाच
ममचित्तमतिभ्रान्तं गुरो ब्रह्मविदां वर
कोऽहं मम क्रिया का च मम जन्म कथं वद ६०
जानन्तिरुवाच
सत्यं सत्यं महाभाग चित्तं भ्रान्तं सुनिश्चितम्
अविद्यानिलयं चित्तं कथं सद्भावमेष्यति ६१
ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते
अहङ्कारो मनोधर्म आत्मनो न हि पण्डित ६२
पुनश्च कोऽहंमित्युक्तं वेदमाले त्वया तु यत्
मम जात्यादिशून्यस्य कथं नाम करोम्यहम् ६३
अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः
निरूपस्याप्रमेस्य कथं नाम करोम्यहम् ६४
परं ज्योतिस्स्वरूपस्य परिपूर्णाव्ययात्मनः
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ६५
स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः
अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ६६
ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम्
परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ६७
तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम्
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ६८
एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ६९
उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम्
अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ७०
ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम्
गुरुं प्रणम्य जानन्तिं सदा ध्यानपरोऽभवत् ७१
गते बहुतिथे काले वेदमालिर्मुनीश्वर
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ७२
य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः
स कर्मपाशविच्छेदं प्राप्य सौख्यमवाप्नुयात् ७३
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपणं नाम पञ्चत्रिंशोऽध्यायः३५