नारदपुराणम्- पूर्वार्धः/अध्यायः ४९
सनंदन उवाच ।।
निशम्य तस्येति वचः परमार्थसमन्वितम् ।।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ।। ४९-१ ।।
राजोवाच ।।
भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः ।।
श्रुते तस्मिन्भ्रमंतीव मनसो मम वृत्तयः ।। ४९-२ ।।
एतद्विवेकविज्ञानं यदि शेषेषु जंतुषु ।।
भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ।। ४९-३ ।।
नाहं वहामि शिबिकां शिबिका मयि न स्थिता ।।
शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ।। ४९-४ ।।
गुण प्रवृत्तिर्भूतानां प्रवृत्तिः कर्मचोदिता ।।
प्रवर्तंते गुणाश्चैते किं ममेति त्वयोदितम् ।। ४९-५ ।।
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।।
मनो विह्वलतामेति परमार्थार्थतां गतम् ।। ४९-६ ।।
पूर्वमेव महाभाग कपिलर्षिमहं द्विज ।।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किंत्वत्र संशये ।। ४९-७ ।।
तदंतरे च भवता यदिदं वाक्यमीरितम् ।।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ।। ४९-८ ।।
कपिलर्षिर्भगवतः सर्वभूतस्य वै किल ।।
विष्णोरंशो जगन्मोहनाशाय समुपागतः ।। ४९-९ ।।
स एव भगवान्नूनमस्माकं हितकाम्यया ।।
प्रत्यक्षतामनुगतस्तथैतद्भवतोच्यते ।। ४९-१० ।।
तन्मह्यं मोहनाशाय यच्छ्रेयः परमं द्विज ।।
तद्वदाखिल विज्ञानजलवीच्युजधिर्भवान् ।। ४९-११ ।।
ब्राह्मण उवाच ।।
भूयः पृच्छसि किं श्रेयः परमार्थेन पृच्छसि ।।
श्रेयांसि परमार्थानि ह्यशेषाण्येन भूपते ।। ४९-१२ ।।
देवताराधनं कृत्वा धनसंपदमिच्छति ।।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ।। ४९-१३ ।।
विवकिनस्तु संयोगः श्रेयोऽसौ परमात्मना ।।
कर्मयज्ञादिकं श्रेयः स्वर्लोकपलदायि यत् ।। ४९-१४ ।।
श्रेयः प्रधानं च फले तदेवानभिसंहिते ।।
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परैः ।। ४९-१५ ।।
श्रेय स्तस्यैव संयोगः श्रेयो यः परमात्मनः ।।
श्रेयांस्येवमनेकानि शतशोऽथ सहस्त्रशः ।। ४९-१६ ।।
संत्यत्र परमार्थास्तु न त्वेते श्रूयतां च मे ।।
धर्मोऽयं त्यजते किं तु परमार्थो धनं यदि ।। ४९-१७ ।।
व्ययश्चक्रियत कस्मात्कामप्राप्त्युपलक्षणः ।।
मुत्रश्चेत्परमार्थाख्यः सोऽप्यन्यस्य नरेश्वर ।। ४९-१८ ।।
परमार्थभूतः सोऽन्यस्य परमार्थो हि नः पिता ।।
एवं न परमार्थोऽस्ति जगत्यत्र चराचरे ।। ४९-१९ ।।
परमार्थो हि कार्याणि करणानामशेषतः ।।
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।। ४९-२० ।।
परमार्था भवंत्यत्र न भवंति च वै ततः ।।
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।। ४९-२१ ।।
परमार्थभूतं तत्रापि श्रूयतां गदतो मम ।।
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।। ४९-२२ ।।
तत्कारणानुगमनाज्जायते नृप मृन्मयम् ।।
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ।। ४९-२३ ।।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ।।
अनाशी परमार्थस्तु प्राज्ञैरभ्युपगम्यते ।। ४९-२४ ।।
यत्तुं नाशि न संदेहो नाशिद्रव्योपपादितम् ।।
तदेवापलदं कर्म परमार्थो मतो मम ।। ४९-२५ ।।
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ।।
ध्यानमेवात्मनो भूपपरमार्थार्थशब्दितम् ।। ४९-२६ ।।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ।।
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।। ४९-२७ ।।
मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ।।
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।। ४९-२८ ।।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ।।
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ।। ४९-२९ ।।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतो नृप ।।
परिज्ञानमयो सद्भिर्नामजात्यादिभिविभुः ।। ४९-३० ।।
न योगवान्न युक्तोऽभून्नैव पार्थिवः योक्ष्यति ।।
तस्यात्मपरदेहेषु सतोऽप्येकमयं हि तत् ।। ४९-३१ ।।
विज्ञानं परमार्थोऽसौ वेत्ति नोऽतथ्यदर्शनः ।।
वेणुरंघ्रविभेदेन भेदः षङ्जादिसंज्ञितः ।। ४९-३२ ।।
अभेदो व्यापिनो वायोस्तथा तस्य महात्मनः ।।
एकत्वं रूपभेदश्च वाह्यकर्मप्रवृत्तिजः ।। ४९-३३ ।।
देवादिभेदमध्यास्ते नास्त्येवाचरणो हि सः ।।
श्रृण्वत्र भूप प्राग्वृत्तं यद्गीतमृभुणा भवेत् ।। ४९-३४ ।।
अवबोधं जनयतो निदाधस्य द्विजन्मनः ।।
ऋभुर्नामाऽबवत्पुत्रो ब्रह्मणः परमेष्टिनः ।। ४९-३५ ।।
विज्ञात तत्त्वसद्भावो निसर्गादेव भूपते ।।
तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा ।। ४९-३६ ।।
प्रादादशेषविज्ञानं स तस्मै परया मुदा ।।
अवाप्तज्ञान तत्त्वस्य न तस्याद्वैतवासना ।। ४९-३७ ।।
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ।।
देविकायास्तटे वीर नागरं नाम वै पुरम् ।। ४९-३८ ।।
समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ।।
रम्योपवनपर्यंतं स तस्मिन्पार्थवोत्तम ।। ४९-३९ ।।
निदाधनामायोगज्ञस्तस्य शिष्योऽभवत्पुरा ।।
दिव्ये वर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ।। ४९-४० ।।
जगाम स ऋभुः शिष्यं निदाघमवलोकितुम् ।।
स तस्य वैश्वदेवंति द्वारालोकनगोचरः ।। ४९-४१ ।।
स्थित स्तेन गृहीतार्थो निजवेश्म प्रवेशितः ।।
प्रक्षालितांघ्रिपाणिं च कृतासनपरिग्रहम् ।। ४९-४२ ।।
उवाच स द्विजश्रेष्टो भुज्यतामिति सादरम् ।।
ऋभुरुवाच ।।
भो विप्रवर्य भोक्तव्यं यदत्र भवतो गृहे ।। ४९-४३ ।।
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ।।
निदाघ उवाच ।।
सक्तुयावकव्रीहीनामपूपानां च मे गृहे ।। ४९-४४ ।।
यद्रोचते द्विजश्रेष्ट तावद्भुंक्ष्व यथेच्छया ।।
ऋभुरुवाच ।।
कदन्नानि दिजैतानि मिष्टमन्नं प्रयच्छ मे ।। ४९-४५ ।।
संयावपायसादीनि चेक्षुका रसवंति च ।।
निदाघ उवाच ।।
गृहे शालिनि मद्गेहे यत्किंचिदति शोभनम् ।। ४९-४६ ।।
भोज्येषु साधनं मिष्टं तेनास्यान्नं प्रसाधय ।।
इत्युक्ता तेन सा पत्नी मिष्टमन्नं द्विजस्य तत् ।। ४९-४७ ।।
प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ।।
न भुक्तवंतमिच्छातो मिष्टमन्नं महामुनिम् ।। ४९-४८ ।।
निदाघः प्राहभूपाल प्रश्रयावनतः स्थितः ।।
निदाघ उवाच ।।
अपि ते परमा तृप्तिरुत्पन्ना पुष्टिरेव ।। ४९-४९ ।।
अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ।।
क्व निवासी भवान्विप्र क्व वा गंतुं समुद्यतः ।। ४९-५० ।।
आगम्यते च भवता यतस्तश्च निवेद्यताम् ।।
ऋमुरुवाच ।।
क्षुधितस्य च भुक्तेऽन्ने तृप्तिर्ब्रह्मन्विजायते ।। ४९-५१ ।।
न मे क्षुधा भवेत्तॄप्तिः कस्मान्मां द्विज पृच्छति ।।
वह्निना पार्थिवेनादौ दग्धे वै क्षुरापीश्वः ।। ४९-५२ ।।
भवत्यंभसि च क्षीणे नृणां तृष्णासमुद्भवः ।।
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ।। ४९-५३ ।।
ततः क्षुत्संभवाभावात्तृप्तिरस्त्येव मे सदा ।।
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ।। ४९-५४ ।।
चेतसो यस्य यत्पृष्टं पुमानेभिर्न युज्यते ।।
क्व निवासस्तवेत्युक्तं क्व गंतासि च यत्त्वया ।। ४९-५५ ।।
कुतश्चागम्यते त्वेतात्र्रितयेऽपि निबोध मे ।।
पुमान्सवर्गतो व्यापीत्याकाशवदयं यतः ।। ४९-५६ ।।
कुतः कुत्र क्व गंतासीत्येतदप्यर्थवत्कथम् ।।
सोऽहं गंता न चागंता नैकदेशनिकेतनः ।। ४९-५७ ।।
त्वं चान्ये च न च त्वं त्वं नान्ये नैवाहमप्यहम् ।।
मिष्टन्ने मिष्टमित्येषा जिह्वा सा मे कृता तव ।। ४९-५८ ।।
किं वक्ष्यतीति तत्रापि श्रूयतां द्विजसत्तमा ।।
मिष्टमेव यदामिष्टं तदेवोद्वेगकारणम् ।। ४९-५९ ।।
अमिष्टं जायते मिष्टं मिष्टादुद्विजते जनः ।।
आदिमध्यावसानेषु किमन्नं रुचिकारणम् ।। ४९-६० ।।
मृण्मयं हि मृदा यद्वद्गृहं लिप्तं स्थिरीभवेत् ।।
पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ।। ४९-६१ ।।
यवगोधूममुद्गादि र्घृतं तैलं पयो दधि ।।
गुडः फलानीति तथा पार्थिवाः परमाणवः ।। ४९-६२ ।।
तदेतद्भवता ज्ञात्वा मिष्टामिष्टविचारि यत् ।।
तन्मनः शमनालबि कार्यं प्राप्यं हि मुक्तये ।। ४९-६३ ।।
इत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप ।।
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ।। ४९-६४ ।।
प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः ।।
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ।। ४९-६५ ।।
ऋभुरुवाच ।।
ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।।
इहागतोऽहं दास्यामि परमार्थं सुबोधितम् ।। ४९-६६ ।।
एक एवमिदं विद्धि न भेदि सकलं जगत् ।।
वासुदेवाभिधेयस्य स्वरुपं परात्मनः ।। ४९-६७ ।।
ब्रह्मण उवाच ।।
तथेत्युक्त्वा निदाधेन प्रणिपातपुरः सरम् ।।
पूजितः परया भक्त्यानिच्छितः प्रययौ विभुः ।। ४९-६८ ।।
पुनवर्षसहस्त्रंते समायातो नरेश्वर ।।
निदाघज्ञानदानाय तदेव नगरं गुरुः ।। ४९-६९ ।।
नगरस्य बहिः सोऽथ निदाघं दृष्टवान् मुनिम् ।।
महाबलपरीवारे पुरं विशति पार्थिवे ।। ४९-७० ।।
दूरस्थितं महाभागे जनसंमर्दवर्जकम् ।।
क्षुत्क्षामकण्ठमायांतमरण्यात्ससमित्कुशम् ।। ४९-७१ ।।
दृष्ट्वा निदाघं स ऋभुरुपागत्याभिवाद्य च ।।
उवाच कस्मादेकांतं स्थीयत भवता द्विज ।। ४९-७२ ।।
निदाघ उवाच ।।
भो विप्र जनसंमर्द्दो महानेष जनेश्वरे ।।
प्रविवक्षौ पुरे रम्ये तेनात्र स्थीयते मया ।। ४९-७३ ।।
ऋभुरुवाच ।।
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।।
कथ्यतां मे द्विजश्रेष्ट त्वमभिज्ञो मतो मम ।। ४९-७४ ।।
निदाघ उवाच ।।
योऽयं गजेंद्रमुन्मत्तमद्रिश्रृंगसमुच्छ्रयम् ।।
अधिरुढो नरेन्द्रोऽयं परितो यस्तथेतरः ।। ४९-७५ ।।
ऋभुरुवाच ।।
एतौ हि गजराजानौ दृष्टौ हि युगपन्मया ।।
भवता निर्विशेषेण पृथग्वेदोपलक्षितौ ।। ४९-७६ ।।
तत्कथ्यतां महाभाग विशेषो भवतानयोः ।।
ज्ञातुमिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ।। ४९-७७ ।।
निदाध उवाच ।।
गजोयोऽयमधो ब्रह्मन्नुपर्यस्यैष भूपतिः ।।
वाह्यवाहकसंबंधं को न जानाति वै द्विज ।। ४९-७८ ।।
ऋभुरुवाच ।।
ब्रह्मन्यथाहं जानीयां तथा मामवबोधय ।।
अधः सत्त्वविभागं किं किं चोर्द्धमभिधीयते ।। ४९-७९ ।।
ब्राह्मण उवाच ।।
इत्युक्त्वा सहसारुह्य निदाघः प्राह तं ऋभुम् ।।
श्रयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ।। ४९-८० ।।
उपर्यहं यथा राजा त्वमधःकुंजरो यथा ।।
अवबोधाय ते ब्रह्मन्दृष्टांतो दर्शितो मया ।। ४९-८१ ।।
ऋभुरुवाच ।।
त्वं राजेव द्विजश्रेष्ट स्थितोऽहं गजवद्यदि ।।
तदेवं त्वं समाचक्ष्व कतमस्त्वमहं तथा ।। ४९-८२ ।।
ब्राह्मण उवाच ।।
इत्युक्तः सत्वरस्तस्य चरणावभिवंद्य सः ।।
निदाधः प्राह भगवन्नाचार्यस्त्वमृभुर्मम् ।। ४९-८३ ।।
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ।।
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ।। ४९-८४ ।।
ऋभुरुवाच ।।
तवोपदेशदानाय पूर्वशुश्रूषणात्तव ।।
गुरुस्नेहादृभुर्नामनिदाघं समुपागतः ।। ४९-८५ ।।
तदेतदुपदिष्टं ते संक्षेपेण महामते ।।
परमार्थसारभूतं यत्तदद्वैतमशेषतः ।। ४९-८६ ।।
ब्राह्मण उवाच ।।
एवमुक्त्वा ददौ विद्यां निदाघं स ऋभुर्गुरुः ।।
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ।। ४९-८७ ।।
सर्वभूतान्यभेदेन ददृशे स तदात्मनः ।।
तथा ब्रह्मतनौ मुक्तिमवाच परमाद्विजः ।। ४९-८८ ।।
तथा त्वमपि धर्मज्ञ तुल्यात्मरिपुबांधवः ।।
भव सर्वगतं ज्ञानमात्मानमवनीपते ।। ४९-८९ ।।
सितनीलादिभेदेन यथैकं दृश्यते नभः ।।
भ्रांतदृष्टिभिरात्मापि तथैकः सन्पृथक् पृथक् ।। ४९-९० ।।
एकः समस्तं यदिहास्ति किंचित्तदच्युतो नास्ति परं ततोऽन्यत् ।।
सोऽहं स च त्वं स च सर्वमेतदात्मांस्वयं भात्यपभेदमोहः ।। ४९-९१ ।।
सनंदन उवाच ।।
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः ।।
स चापि जातिस्मरणावबोदस्तत्रैव जन्मन्यपवर्गमाप ।। ४९-९२ ।।
परमार्थाध्यात्ममेतत्तुभ्यमुक्तं मुनीश्वर ।।
ब्राह्मणक्षत्रियविशां श्रोर्तॄणां चापि मुक्तिदम् ।। ४९-९३ ।।
यथा पृष्टं त्वया ब्रह्मंस्तथा ते गदितं मया ।।
ब्रह्मज्ञानमिदं शुद्धं किमन्यत्कथयामि वै ।। ४९-९४ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि.पा.एकोनपञ्चाशत्तमोध्यायः ।।