नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
आख्यातं भवता सर्वं मुने तत्त्वार्थ कोविद ।।
इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम् ।। ४१-१ ।।

सनक उवाच ।।
साधु साधु महाप्राज्ञ मुने लोकोपकारक ।।
युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान् ।। ४१-२ ।।

धर्मो विवृद्धिमायाति काले कस्मिंस्चिदुत्तम ।।
तथा विनासमायाति धर्म्म एव महीतले ।। ४१-३ ।।

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।।
दिव्यैर्द्वादशभिर्ज्ञेयं वत्सरैस्तत्र सत्तम ।। ४१-४ ।।

संध्यासन्ध्यांशयुक्तानि युगानि सदृशानि वै ।।
कालतो वेदितव्यानि इत्युक्तं तत्त्वादर्शिभिः ।। ४१-५ ।।

आद्ये कृतयुगं प्राहुस्ततस्त्रेताविधानकम् ।।
ततश्च द्वापरं प्राहुः कलिमंत्यं विदुः क्रमात् ।। ४१-६ ।।

देवदानवगंधर्वा यक्षराक्षसपन्नगाः ।।
नासन्कृतयुगे विप्र सर्वे देवसमाः स्मृताः ।। ४१-७ ।।

सर्वे हृष्टाश्च धर्मिष्टा न तत्र क्रयविक्रयौ ।।
वेदानां च विभागश्च न युगे कृतसंज्ञके ।। ४१-८ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारतत्पराः ।।
सदा नारायणपरास्तपोध्यानपरायणाः ।। ४१-९ ।।

कामादिदोषनिर्मुक्ताः शमादिगुणतत्पराः ।।
धर्मसाधनचित्ताश्च गतासूया अदांभिकाः ।। ४१-१० ।।

सत्यवाक्यरताः सर्वे चतुराश्रमधर्मिणः ।।
वेदाध्ययनसंपन्नाः सर्वशास्त्रविचक्षणाः ।। ४१-११ ।।

चतुराश्रमयुक्तेन कर्मणा कालयोनिना ।।
अकामफलसंयोगाः प्रयांति परमां गतिम् ।। ४१-१२ ।।

नारायणः कृतयुगे शुक्लवर्णः सुनिर्मलः ।।
त्रेताधर्मान्प्रवक्ष्यामि श्रृणुष्व सुसमाहितः ।। ४१-१३ ।।

धर्मः पांडुरतां याति त्रेतायां मुनिसत्तम ।।
हरिस्तु रक्तातां याति किंचित्क्लेशान्विता जनाः ।। ४१-१४ ।।

क्रियायोगरताः सर्वे यज्ञकर्मसु निष्टिताः ।।
सत्यव्रता ध्यानपराः सदाध्यानपरायणाः ।। ४१-१५ ।।

द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर ।।
हरिः पीतत्वमायाति वेदश्चापि विभज्यते ।। ४१-१६ ।।

असत्यनिरताश्चापि केचित्तत्र द्विजोत्तमाः ।।
ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः ।। ४१-१७ ।।

केचित्स्वर्गापवर्गार्थं विप्रयज्ञान्प्रकुर्वते ।।
केचिद्धनादिकामाश्च केचित्कल्मषचेतसः ।। ४१-१८ ।।

धर्माधर्मौ समौ स्यातां द्वापरे विप्रसत्तम ।।
अधर्मस्य प्रभावेण क्षीयंते च प्रजास्तथा ।। ४१-१९ ।।

अल्पायुषो भविष्यंति केचिञ्चापि मुनीश्वर ।।
केचित्पुण्यरतान् दृष्ट्वा असूयां विप्र कुर्वते ।। ४१-२० ।।

कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः ।।
धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते ।। ४१-२१ ।।

तामसं युगमासाद्य हरिः कृष्णत्वमेति च ।।
यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च ।। ४१-२२ ।।

यः कश्चिदपि पुण्यात्मा क्रियायोगरतो भवेत् ।।
नरं धर्मरतं दृष्ट्वा सर्वेऽसूयां प्रकुर्वते ।। ४१-२३ ।।

व्रताचाराः प्रणश्यंति ज्ञानयज्ञादयस्तथा ।।
उपद्रवा भविष्यंति ह्यधर्मस्य प्रवतनात् ।। ४१-२४ ।।

असूयानिरताः सर्वे दंभाचारपरायणाः ।।
प्रजाश्चाल्पायुषः सर्वा भविष्यंति कलौ युगे ।। ४१-२५ ।।

नारद उवाच ।।
युगधर्माः समाख्यातास्त्वया संक्षेपतो मुने ।।
कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः ।। ४१-२६ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चमुनिसत्तम ।।
किमाहाराः किमाचाराः भविष्यंति कलौ युगे ।। ४१-२७ ।।

सनक उवाच ।।
श्रृणुष्व मुनिशार्दूल सर्वलोकोपकारक ।।
कलिधर्मान्प्रवक्ष्यामि विस्तरेण यथातथम् ।। ४१-२८ ।।

सर्वे धर्मा विनश्यंति कृष्णे कृष्णत्वमागते ।।
तस्मात्कलिर्महाघोरः सर्वपातकसंकरः ।। ४१-२९ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः ।।
घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्मुखाः ।। ४१-३० ।।

व्याजधर्मरताः सर्वे असूयानिरतास्तथा ।।
वृथाहंकारदुष्टाश्च सत्यहीनाश्च पंडिताः ४१-३१ ।।

अहमेवाधिक इति सर्वेऽपि विवदंति च ।।
अधर्मलोलुपाः सर्वे तथा वैतंहिका नराः ।। ४१-३२ ।।

अतः स्वल्पायुषः सर्वे भविष्यंति कलौ युगे ।।
अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विज ।। ४१-३३ ।।

विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः ।।
युत्क्रमेण प्रजाः सर्वा म्रियंते पापतत्पराः ।। ४१-३४ ।।

ब्राह्मणाद्यास्तथा वर्णाः संकीर्यंते परस्परम् ।।
कामक्रोधपरा मूढा वृथासंतापपीडिताः ।। ४१-३५ ।।

शूद्रतुल्या भविष्यंति सर्वे वर्णा कलौ युगे ।।
उत्तमा नीचतां यांति नीचाश्चोत्तमतां तथा ।। ४१-३६ ।।

राजनो द्रव्यनिरतास्तथा ह्यन्यायवर्त्तिनः ।।
पीडयंति प्रजाश्चैव करैरत्यर्थयोजितैः ।। ४१-३७ ।।

शववाहाभविष्यंति शूद्राणां च द्विजातयः ।।
धर्मस्त्रीष्वपि गच्छंति पतयो जारधर्मिणः ।। ४१-३८ ।।

द्विषंति पितरं पुत्रा भर्तारं च स्त्रियोऽखिलाः ।।
परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः ।। ४१-३९ ।।

मत्स्यामिषेण जीवंति दुहंतश्चाप्यजीविकाम् ।।
घोरे कलियुगे विप्र सर्वे पापरता जनाः ।। ४१-४० ।।

सतामसूयानिरतां उपहासं प्रकुर्वते ।।
सरित्तीरेषु कुद्दालैर्वापयिष्यंति चौषधीः ।। ४१-४१ ।।

पृथ्वी निष्फलतां याति बीजं पुष्पं विनश्यति ।।
वेश्यालावंयशीलेषु स्पृहा कुर्वंति योषितः ।। ४१-४२ ।।

धर्मविक्रयिणो विप्राः स्त्रियश्च भगविक्रयाः ।।
वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः ।। ४१-४३ ।।

साधूनां विधवानां च वित्तान्यपहरंति च ।।
न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः ।। ४१-४४ ।।

धर्माचारं परित्यज्य वृथावादैर्विषज्जिताः ।।
द्विजाः कुर्वंति दंभार्थं पितृश्राद्धादिकाः क्रियाः ।। ४१-४५ ।।

अपात्रेष्वेव दानानि प्रयच्छंति नराधमाः ।।
दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते ।। ४१-४६ ।।

न कुर्वंति तथा विप्राः स्नानशौचादिकाः क्रियाः ।।
अपात्रेष्वेव दानानि प्रयच्छंति नराधमाः ।। ४१-४७ ।।

साधुनिंदापराश्चैव विप्रनिंदापरास्तथा ।।
न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत् ।। ४१-४८ ।।

यज्विनश्च द्विजानैव धनार्थराजकिंकराः ।।
ताडयंति द्विजान्दुष्टाः कृष्णे कृष्णत्वमागते ।। ४१-४९ ।।

दानहीना नराः सर्वे घोरे कलियुगे मुने ।।
प्रतिग्रहं प्रकुर्वंति पतितानामपि द्विजाः ।। ४१-५० ।।

कलेः प्रथमपादेऽपि विंनिंदंति हरिं नराः ।।
युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति ।। ४१-५१ ।।

शूद्रस्त्रीसंगनिरता विधवासंगलोलुपाः ।।
शूद्रान्नभोगनिरता भविष्यंति कलौ द्विजाः ।। ४१-५२ ।।

विहाय वेदसन्मार्गं कुपथाचारसंगताः ।।
पाषंडाश्चभविशष्यंतिचतुराश्रमनिंदकाः ।। ४१-५३ ।।

न चद्विजा तिशुश्रूषां कुर्वंति चरणोद्भवाः ।।
द्विजातिधर्मान्गृह्णन्ति पाखण्डलिङ्गिनोऽधमाः ।। ४१-५४ ।।
काषायपरिवीताश्च जटिला भस्मधूलिताः ।।
शूद्राधर्मान्प्रवक्ष्यंती कूटयुक्तपरायणाः ।। ४१-५५ ।।

द्विजाःस्वाचारमुत्स्सृज्यचपरपाकान्नभोजिनः ।।
भविष्यंतिदुरात्मानः शूद्राः प्रव्रजितास्तथा ।। ४१-५६ ।।

उत्कोचजीविनस्तत्र भविष्यंति कलौ मुने ।।
धर्मटीनास्तु पाषंडा कापाला भिक्षवोऽधमाः ।। ४१-५७ ।।

धर्मविध्वंसशीलानां द्विजानां द्विजसत्तम ।।
शूद्रा धर्मान्प्रवक्ष्यंतिह्यधिरुह्योत्तमासनम् ।। ४१-५८ ।।

एते चान्येच बहवो नग्नरक्तपटादिकाः ।।
पाषंडाः प्रचारिष्यंति प्रायो वेदविदूषकाः ।। ४१-५९ ।।

गीतवादित्रकुशलाः क्षुद्रधर्मसमाश्रयाः ।।
भविष्यंतिकलौ प्रायो धर्मविध्वंसका नराः ।। ४१-६० ।।

अल्पद्रव्या वृथालिंगा वृथाहंकारदूषिताः ।।
हर्तारं परवित्तानां भवितारो नराधमाः ।। ४१-६१ ।।

प्रतिग्रहपरा नित्यं जगदुन्मार्गशीलिनः ।।
आत्मस्तुतिपराः सर्वे परनिंदापरास्तथा ।। ४१-६२ ।।

विश्वस्तघातिनः क्रूरा दयाधर्मविवर्जिताः ।।
भविष्यंति नरा विप्र कलौ चाधर्मबांधवाः ।। ४१-६३ ।।

परमायुश्च भविता तदा वर्षाणि षोडश ।।
घोरे कलियुगे विप्र पंचवर्षा प्रसूयते ।। ४१-६४ ।।

सप्तवर्षाष्टवर्षाश्च युवानोऽतः परे जरा ।।
स्वकर्मत्यागिनः सर्वे कृतघ्नाभिन्नवृत्तयः ।। ४१-६५ ।।

याचकाश्चद्विजा नित्यं भविष्यंति कलौ युगे ।।
परावमाननिरताः प्रहृष्टाः परवेश्मनि ।। ४१-६६ ।।

तत्रैव निंदानिरता वृथाविश्रंभिणो जनाः ।।
निदां कुर्वंति सततं पितृमातृसुतेषु च ।। ४१-६७ ।।

वदंति वाचा धर्मांश्च चेतसा पापलोलुपाः ।।
धनविद्यावयोमत्ताः सर्वदुःखपरायणाः ।। ४१-६८ ।।

व्याधितस्करदुर्भिक्षैः पीडिता अतिमांयिनः ।।
प्रपुष्यंति वृथैवामी न विचार्य च दुष्कृतम् ।। ४१-६९ ।।

धर्ममार्गप्रणेतारं तिरस्कुर्वंति पापिनः ।।
धर्मकार्ये रतं चैव वृथाविश्रंभिणो जनाः ।। ४१-७० ।।

भविष्यंति कलौ प्राप्ते राजानो म्लेच्छजातयः ।।
शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः ।। ४१-७१ ।।

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा ।।
न भार्या न पतिश्चैव भवितारोऽत्र संकरे ।। ४१-७२ ।।

कलौ गते भविष्यंति धनाढ्या अपि याचकाः ।।
रस विक्रयिणश्चापि भविष्यंति द्विजातयः ।। ४१-७३ ।।

धर्मकंचुकसंवीता मुनिवेषधरा द्विजाः ।।
अपण्यविक्रयरता अगम्यागामिनस्तथा ।। ४१-७४ ।।

वेदनिंदापराश्चैव धर्मशास्त्रविनिंदुकाः ।।
शूद्रवृत्त्यैव जीवंति नरकार्हा द्विजा मुने ।। ४१-७५ ।।

अनावृष्टभयं प्राप्ता गगनासक्तदृष्टयः ।।
भविष्यंति कलौ मर्त्यासर्वे क्षुद्भयकातराः ।। ४१-७६ ।।

कंदपर्णफलाहारास्तापंसा इव मानवाः ।।
आत्मानं तारयिष्यंति अनावृष्ट्यातिदुखिताः ।। ४१-७७ ।।

कामार्ता ह्रस्वदेहाश्च लुब्धा श्चाधर्मतत्पराः ।।
कलौ सर्वे भविष्यंति स्वल्पभाग्या बहुप्रजाः ।। ४१-७८ ।।

स्त्रियः स्वपोषणपरा वेश्या लावण्यशीलिकाः ।।
पतिवाक्यमनादृत्य सदान्यगृहतत्पराः ।। ४१-७९ ।।

दुःशीला दुष्टशीलेषु करिष्यिंति सदा स्पृहाम् ।।
असद्वृत्ता भविष्यंति पुरुषेषु कुलांगनाः ।। ४१-८० ।।

चौरादिभयभीताश्च काष्टयंत्राणि कुर्वते ।।
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।। ४१-८१ ।।

गोधूमान्नयवान्नाढ्ये देशे यास्यंति दुःखिताः ।।
निधाय हृद्यकर्मणि प्रेरयंति वचः शुभम् ।। ४१-८२ ।।

स्वकार्यसिद्धिपर्यंतं बंधुतां कुर्वते जनाः ।।
भिक्षवश्चाव मित्रादिस्नेहसंबंधयंत्रिताः ।। ४१-८३ ।।

अन्नोपाधिनिमित्तेन शिष्यान्गृह्णंति भिक्षवः ।। ४१-८४ ।।

उभाभ्यामथ पाणिभ्यां शिरःकंडूयनं स्त्रियः ।।
कुर्वंत्यो गुरुभर्तॄणामाज्ञामुल्लंघयंति च ।। ४१-८५ ।।

पाषंडालापनिरताः पाषंडजनसंगिनः ।।
यदा द्विजा भविष्यंति तदा वृद्धिं कलिर्व्रजेत् ।। ४१-८६ ।।

यदा प्रजा न यक्ष्यंति न होष्यंति द्विजातयः ।।
तदैव तु कलेर्वृद्धिरनुमेया विचक्षणैः ।। ४१-८७ ।।

अधर्मवृद्धिर्भविता बासमृत्युरपि द्विजा ।।
सर्वधर्मेषु नष्टेषु याति निःश्रीकतां जगत् ।। ४१-८८ ।।

एवं कलेः स्वरूपं ते कथितं विप्रसत्तम ।।
हरिभक्तिपरानेष न कलिर्बाधते क्वचित् ।। ४१-८९ ।।

ततः परं कृतयुगे त्रेतायुगे त्रेतायां ध्यानमेव च ।।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ।। ४१-९० ।।

यत्कृते दशभिर्वर्षैस्त्रेतायां शरदा च यत् ।।
द्वापरे यञ्च मासेन ह्यहोरात्रेण तत्कलौ ।। ४१-९१ ।।

ध्यायन्कृते जयन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ।। ४१-९२ ।।

अहोरात्रं हरेर्नाम कीर्तयंति च ये नराः ।।
कुर्वंति हरिपूजां वा न कलिर्बाधते च तान् ।। ४१-९३ ।।

नमो नारायणायेति कीर्तयंति च ये नराः ।।
निष्कामा वा सकामा वा न कलिर्बाधते च तान् ।। ४१-९४ ।।

हरिनामपरा ये तु घोरे कलियुगे द्विज ।।
त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ।। ४१-९५ ।।.

हरिपूजापरा ये च हरिनामपरायणाः ।।
 त एव शिवतुल्याश्च नात्र कार्या विचारणा ।। ४१-९६ ।।

समस्तजगदाधारं परमार्थस्वरुपिणम् ।।
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति ।। ४१-९७ ।।

अहो अति सुभाग्यास्ते सकृद्वै केशवार्चकाः ।।
घोरें कलियुगे प्राप्ते सर्वधर्मविवर्जिते ।। ४१-९८ ।।

न्यूनातिरिक्तदोषाणां कलौ वेदोक्तकर्मणाम् ।।
हरिस्मरणमेवात्र संपूर्णत्वविधायकम् ।। ४१-९९ ।।

हरे केशव गोविंद वासुदेव जगन्मय ।।
इतीरयंति ये नित्यं नहि तान्बाधते कलिः ।। ४१-१०० ।।

शिव शंकर रुद्रेश नीलकंठ त्रिलोचन ।।
इति जल्पंति ये वापि कलिस्तान्नापि बाधते ।। ४१-१ ।।

महादेव विरूपाक्ष गंगाधर मृडाव्यय ।।
इत्थं वदंति ये विप्र ते कृतार्था न संशयः ।। ४१-२ ।।

जनार्दन जगन्नात पीतांबरधराच्युत ।।
इति वाप्युञ्चरंतीह न च तेषां कलेर्भयम् ।। ४१-३ ।।

संसारे सुलभाः पुंसां पुत्रदारधनादयः ।।
घोरे कलियुगे विप्र हरिभक्तस्तु दुर्लभा ।। ४१-४ ।।

कर्मश्रद्धाविहीना ये पाषंडा वेदनिंदकाः ।।
अधर्मनिरता नैव नरकार्हा हरिस्मृतेः ।। ४१-५ ।।

वेदमार्गबहिष्टानां जनानां पापकर्मणाम् ।।
मनः शुद्धिविहीनानां हरिनाम्नैव निष्कृतिः ।। ४१-६ ।।

दैवाधीनं जगत्सर्वमिदं स्थावरजंगमम् ।।
यथाप्रेरितमेतेन तथैव कुरुतें द्विज ।। ४१-७ ।।

शक्तितः सर्वकर्माणि वेदोक्तानि विधाय च ।।
समर्पयेन्महाविष्णौ नारायणपरायणः ।। ४१-८ ।।

समर्पितानि कर्माणि महविष्णौ परात्मनि ।।
संपूर्णतां प्रयांत्येव हरिस्मरणमात्रतः ।। ४१-९ ।।

हरिभक्तिरतानां च पापबंधो न जायते ।।
अतोऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम् ।। ४१-१० ।।

अहो हरिपरा ये तु कलौ घोरे भयंकरे ।।
ते सुभाग्या महात्मानः सत्संगर हिता अपि ।। ४१-११ ।।

हरिस्मरणनिष्टानां शिवनामरतात्मनाम् ।।
सत्यं समस्तकर्माणि यांति संपूर्णतां द्विज ।। ४१-१२ ।।

अहो भाग्यमहो भाग्यं हरिनाम रतात्मनाम् ।।
त्रिदर्शेरपि ते पूज्याः किमन्यैर्बहुभाषितैः ।। ४१-१३ ।।

तस्मात्समस्तलोकानां हितमेव मयोच्यते ।।
हरिनामपरान्मर्त्यान्न कलिर्बाधर्तक्वचित् ।। ४१-१४ ।।

हरेर्नामैव नामैव नामैव मम जीवनम् ।।
कलौ नास्त्येव नास्त्येव गतिरन्यथा ।। ४१-१५ ।।

सूत उवाच ।।
एवं स नारदो विप्राः सनकेन प्रबोधितः ।।
परां निर्वृत्तिमापन्नः पुनरेतदुवाच ह ।। ४१-१६ ।।

नारद उवाच ।।
भगवन्सर्वशास्त्रज्ञ स्वयातिकरुणात्मना ।।
प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम् ।। ४१-१७ ।।

एतदेव परं पुण्यमेतदेव परं तपः ।।
यः स्मरेत्पुंडरीकाक्षं सर्वपापविनाशनम् ।। ४१-१८ ।।

ब्रह्मन्नानाजगञ्चैतदेकचित्संप्रकाशितम् ।।
त्वयोक्तं तत्प्रतीयेऽहं कथं दृष्टांतमंतरा ।। ४१-१९ ।।

तस्माद्येन यथा ब्रह्म प्रतीतं बोधितेन तु ।।
तदाख्याहि यथा चित्तं सीदत्स्थितिमवाप्नुयात् ।। ४१-२० ।।

एतच्छ्रुत्वा वचो विप्रा नारदस्य महात्मनः ।।
सनकः प्रत्युवाचेदं स्मरन्नारायणं परम् ।। ४१-२१ ।।

सनक उवाच ।।
ब्रह्मन्नहं ध्यानपरो भवेयं सनंदनं पृच्छ यथाभिलाषम् ।।
वेदांतशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवंद्यः ।। ४१-२२ ।।

इतीरितं समाकर्ण्य सनकस्य स नारदः ।।
सनंदनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे ।। ४१-२३ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशोऽध्यायः ।।