प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

भरद्वाज उवाच ।।
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ।। ४४-१ ।।

मृगुरुवाच ।।
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।।
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ।। ४४-२ ।।

तत्र ह्यपापकर्माणः शुचयोऽत्यंतनिर्मलाः ।।
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ।। ४४-३ ।।

स स्वर्गसदृशो देशः तत्र ह्युक्ताः शुभा गुणाः ।।
काले मृत्युः प्रभवति स्पृशंति व्याधयो न च ।। ४४-४ ।।

न लोभः परदारेषु स्वदारनिरतो जनः ।।
नान्यो हि वध्यते तत्र द्रव्येषु च न विस्मयः ।। ४४-५ ।।

परो ह्यधर्मो नैवास्ति संदेहो नापि जायते ।।
कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते ।। ४४-६ ।।

यानासनाशनोपेता प्रसादभवनाश्रयाः ।।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ।। ४४-७ ।।

प्राणधारणमात्रं तु केषांचिदुपपद्यते ।।
श्रमेण महता केचित्कुर्वंति प्राणधारणम् ।। ४४-८ ।।

इह धर्मपराः केचित्केचिन्नैष्कृतिका नराः ।।
सुखिता दुःखिताः केचिन्निर्धना धनिनो परे ।। ४४-९ ।।

इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते ।।
लोभश्चार्थकृतो तॄणां येन मुह्यंत्यपंडिताः ।। ४४-१० ।।

यस्तद्वेदो भयं प्राज्ञः पाप्मना न स लिप्यते ।।
सोपधे निकृतिः स्तेयं परिवादोऽभ्यसूयता ।। ४४-११ ।।

परोपघातो हिंसा च पैशुन्यनृतं तथा ।।
एतान्संसेवते यस्तु तपस्तस्य प्रहीयते ।। ४४-१२ ।।

यस्त्वेतानाचरेद्विद्वान्न तपस्तस्य वर्द्धते ।।
इह चिंता बहुविधा धर्माधर्मस्य कर्मणः ।। ४४-१३ ।।

कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् ।।
शुभैः शुभमवाप्नोति तथाशुभमथान्यथा ।। ४४-१४ ।।

इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ।।
इष्टेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः ।। ४४-१५ ।।

उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ।।
इहस्थास्तत्र जायंते ये वै पुण्यकृतो जनाः ।। ४४-१६ ।।


यदि सत्कारमिच्छंति तिर्यग्योनिषु चापरे ।।

क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ।। ४४-१७ ।।

अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः ।।
इहैव परिवर्त्तन्ते न च यान्त्युत्तरां दिशम् ।। ४४-१८ ।।

गुरूनुपासते ये तु नियता ब्रह्मचारिणः ।।
पंथानं सर्वालोकानां विजानंति मनीषिणः ।। ४४-१९ ।।

इत्युक्तोऽयं मया धर्मः संक्षिप्तो ब्रह्मनिर्मितः ।।
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ।। ४४-२० ।।

भरद्वाज उवाच ।.
अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ।।
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि तपोधन ।। ४४-२१ ।।

भृगुरुवाच ।।
अध्यात्ममिति विप्रर्षे यदेतदनुपृच्छसि ।।
तद्व्याख्यांस्यामि ते तात श्रेयस्करतमं सुखम् ।। ४४-२२ ।।

सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् ।।
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विंदति ।। ४४-२३ ।।

फललाभश्च तस्य स्यात्सर्वभूतहितं च तत् ।।
पृथिवी वायुराकाशमापो ज्योतिश्च पंचमम् ।। ४४-२४ ।।

महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ।।
यतः सृष्टानि तत्रैव तानि यान्ति लयं पुनः ।। ४४-२५ ।।

महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा ।।
प्रसार्य च यथांगानि कूर्मः संहरते पुनः ।। ४४-२६ ।।

तद्वद् भूतानि भूतात्मा सृष्टानि हरते पुनः ।।
महाभूतानि पंचैव सर्वभूतेषु भूतकृत् ।। ४४-२७ ।।

अकरोत्तेषु वै सम्यक् तं तु जीवो न पश्यति ।।
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ।। ४४-२८ ।।

वायोः स्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ।।
रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ।। ४४-२९ ।।

रसाः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ।।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ।। ४४-३० ।।

महाभूतानि पंचैव षष्टं च मन उच्यते ।।
इन्द्रियाणि मनश्चैव विज्ञातान्यस्य भारत ।। ४४-३१ ।।

सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ।।
श्रोत्रं वै श्रवणार्थाय स्पर्शनाय च त्वक् स्मृता ।। ४४-३२ ।।

रसादानाय रसना गन्धादानाय नासिका ।।
चक्षुरालोकनायैव संशयं कुरुते मनः ।। ४४-३३ ।।

बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः ।।
उर्द्धं पादतलाभ्यां यदवाक्चोदक्च पश्यति ।। ४४-३४ ।।

एतेन सर्वमेवेदं विभुना च्याप्तमन्तरम् ।।
पुरुषैरिंद्रियाणीह वेदितव्यानि कृत्स्नशः ।। ४४-३५ ।।

तमो रजश्च सत्त्वं च तेऽपि भावास्तदाश्रिताः ।।
एतां बुद्धिं नरो बुद्ध्वा भूतानागतिं गतिम् ।। ४४-३६ ।।

समवेक्ष्य शनैश्चैवं लभते शममुत्तमम् ।।
गुणैर्विनश्यते बुद्दिर्बुद्धेरेवेंद्रियाण्यपि ।। ४४-३७ ।।

मनःषष्टानि भूतानि बुद्ध्यभावे कुतो गुणाः ।।
इति तन्मयमेवैतत्सर्वं स्थावरजंगमम् ।। ४४-३८ ।।

प्रलीयते चोद्भवति तस्मान्निर्द्दिश्यते तथा ।।
येन पश्यति तञ्चक्षुः श्रृणोति श्रोत्रमुच्यते ।। ४४-३९ ।।

जिघ्रति घ्राणमित्याहुः रसं जानाति जिह्वया ।।
त्वचा स्पर्शयति स्पर्शं बुद्धिर्विक्रियते सकृत् ।। ४४-४० ।।

येन प्रार्थयते किंचित्तदा भवति तन्मनः ।।
अधिष्टानात्तु बुद्धेर्हि पृथगर्थानि पंचधा ।। ४४-४१ ।।

इंद्रियाणीति तान्याहुस्तान्यदृश्योऽधितिष्टति ।।
पुरुषे तिष्टती बुद्धिस्त्रिषु भावेषु वर्तते ।। ४४-४२ ।।

कदाचिल्लभते प्रीतिं कदाचिदुपशोचति ।।
न सुखेन न दुःखेन कदाचिदपि वर्तते ।। ४४-४३ ।।

एवं नराणां मनसि त्रिषु भावेषु वर्तते ।।
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।। ४४-४४ ।।

सरितां सागरो भर्ता वेलानामिव वारिधिः ।।
अतिभावगता बुद्धिर्भावैर्मनसि वर्तते ।। ४४-४५ ।।

वर्तमानो मुनिस्त्वेवं स्वभावमनुवर्तते ।।
इंद्रियाणि हि सर्वाणि प्रवर्तयति सा सदा ।। ४४-४६ ।।

प्रीतिः सत्त्वं रजः शोकस्तमः क्रोधस्तु ते त्रयः ।।
ये ये च भावा लोकेऽस्मिन्सर्वे प्येतेषु वै त्रिषु ।। ४४-४७ ।।

इति बुद्धिगताः सर्वा व्याख्यातास्तव भावनाः ।।
इंद्रियाणि च सर्वाणि विजेतव्यानि धीमता ।। ४४-४८ ।।

सत्त्वं रजस्तमस्चैव प्राणिनां संश्रिताः सदा ।।
त्रिविश्वावेदनाश्चैव सर्वसत्त्वेषु दृश्यते ।। ४४-४९ ।।

सात्त्विकी राजसी चैव तामसी चेति मानद ।।
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ।। ४४-५० ।।

तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ ।।
तव यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।। ४४-५१ ।।

वर्तते सात्त्विको भाव इत्याचक्षीत तत्तथा ।।
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।। ४४-५२ ।।

प्रवृत्तं रज इत्येव जानीहि मुनिसत्तम ।।
अथयन्मोहसंयुक्तमव्यक्त विषमं भवेत् ।। ४४-५३ ।।

अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ।।
प्रहर्षः प्रीतिरानंदः सुखं वा शान्तचित्तता ।। ४४-५४ ।।

कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः ।।
अतुष्टिः परितापश्च शोको लोभस्तथा क्षमा ।। ४४-५५ ।।

लिंगानि रजसस्तानि दृश्यंते देहहेतुभिः ।।
अपमानस्तथा मोहः प्रमादः स्वप्नतंद्रिते ।। ४४-५६ ।।

कथंचिदभिवर्तंते विविधास्तामसा गुणाः ।।
दूषणं बहुधागामि प्रार्थनासंशयात्मकम् ।। ४४-५७ ।।

मनः स्वनियतं यस्य स सुखी प्रेत्यचेह च ।।
सत्त्वक्षेत्रज्ञयोरेतदन्तरं यस्य सूक्ष्मयोः ।। ४४-५८ ।।

सृजतेहि गुणानेक एको न सृजते गुणान् ।।
मशकोदुंबरौ वापि संप्रयुक्तौ यथा सदा ।। ४४-५९ ।।

अन्योन्यमेतौ स्यातां च सप्रंयोगस्तथोभयोः ।।
पृथग्भूतौ प्रकृत्या तौ सप्रंयुक्तौ च सर्वदा ।। ४४-६० ।।

यथा मत्स्यो जलं चैव संप्रयुक्तो तथैव तौ ।।
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः ।। ४४-६१ ।।

परिद्रष्टा गुणानां तु संस्त्रष्टा मन्यते तथा ।।
इन्द्रियस्तु प्रदीपार्थं कुरुते बुद्धिसत्तमैः ।। ४४-६२ ।।

निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवान् ।।
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति ।। ४४-६३ ।।

संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवम् ।।
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन ।। ४४-६४ ।।

सत्त्वं मनः संसृजते न गुणान्वै कदाचन ।।
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति ।। ४४-६५ ।।

तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ।।
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ।। ४४-६६ ।।

सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम् ।।
यथा वारिचरः पक्षी सलिलेन न लिप्यते ।। ४४-६७ ।।

एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ।।
एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ।। ४४-६८ ।।

अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः ।।
भावयुक्त्या प्रयुक्तस्तु स नित्यं सृजते गुणान् ।। ४४-६९ ।।

ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तंतुवद्गुणाः ।।
प्रध्वस्ता न निवर्तंते निवृत्तिर्नोपलभ्यते ।। ४४-७० ।।

प्रत्यक्षेण परोक्षं तदनुमानेन सिद्ध्यति ।।
एवमेके व्यवस्यंति निवृत्तिरिति चापरे ।। ४४-७१ ।।

उभयं संप्रधार्यैतद्व्यवस्येत यथामति ।।
इतीमं हृदयग्रथिं बुद्धिचिन्तामयं दृढम् ।। ४४-७२ ।।

विमुच्य सुखमासीत न शोचेच्छिन्नसंशवः ।।
मलिनाः प्राण्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ।। ४४-७३ ।।

अवगाह्य सुविद्वांसो विद्धि ज्ञानभिदे तथा ।।
महानद्या हि पारज्ञस्तप्यते न तरन्यथा ।। ४४-७४ ।।

न तु तप्यति तत्त्वज्ञः कुलज्ञस्तु तरत्युत ।।
एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ।। ४४-७५ ।।

एवं बुद्धा नरः सर्वो भूतानामगतिं गतिम् ।।
अवेक्ष्य च शनैर्बुद्ध्या लभते च शमं ततः ।। ४४-७६ ।।

त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुंचति ।।
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ।। ४४-७७ ।।

न चात्मा शक्यते द्रष्टुमिंद्रियेषु विभागशः ।।
तत्र तत्र विसृष्टेषु दुर्वापेष्वकृतात्माभिः ।। ४४-७८ ।।

एतद् बुद्धा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम् ।।
विज्ञाय तद्धि मन्यन्ते कतकृत्या मनीषिणः ।। ४४-७९ ।।

न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् ।।
नहि गतिरधिकास्ति कस्यचित्सति हि गुणेप्रवदत्यतुल्यताम् ।। ४४-८० ।।

यः करोत्यनभिसंधिपूर्वकं तच्च निर्दहति यत्पुराकृतम् ।।
नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः ।। ४४-८१ ।।

लोकमायुरभिसूयते जनस्तस्य तज्जनयतीह कुर्वंतः ।।
तत्र पश्य कुशलान्न शोचते जायते यदि भयं पदं सदा ।। ४४-८२ ।।

भरद्वाज उवाच ।।
ध्यानयोगं समाचक्ष्व मह्यं तत्पदसिद्धये ।।
यज्ज्ञात्वा मुच्यते ब्रह्मन्नरस्त्रिविधतापतः ।। ४४-८३ ।।

भृगुरुवाच ।।
हंत ते संप्रवक्ष्यामि ज्ञानयोगं चतुर्विधम् ।।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ।। ४४-८४ ।।

यथा स्वनुष्टितं ध्यानं तथा कुर्वन्ति योगिनः ।।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ।। ४४-८५ ।।

नावर्तंते पुनश्चापि मुक्ताः संसारदोषतः ।।
जन्मदोषपारिक्षीणाः स्वभावे पर्यवस्थिताः ।। ४४-८६ ।।

निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता निष्परिग्रहाः ।।
असंगान्य विधादीनि मनः शांतिकराणि च ।। ४४-८७ ।।

तत्र ध्यानेन संक्लिष्टमेकाग्रं धारयेन्मनः ।।
पिंडीकृत्येन्द्रियग्राममासीनः काष्टवन्मुनिः ।। ४४-८८ ।।

शब्दं न विंदेच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् ।।
रूपं न चक्षुषा विंद्याज्जिह्वया न रसांस्तथा ।। ४४-८९ ।।

घ्रोयाण्यपि च सर्वाणि जह्याद्ध्यानेन तत्त्ववित् ।।
पंचवर्गप्रमाथीनि नेच्छेञ्चैतानि वीर्यवान् ।। ४४-९० ।।

ततो मनसि संगृह्य पंचवर्गं विचक्षणः ।।
समादध्यान्मनो भ्रांतमिंद्रियैः सह पञ्चभिः ।। ४४-९१ ।।

विसञ्चारि निरालम्बं पंचद्वारं बलाबलम् ।।
पूर्वध्यानपथे धीरः समादध्यान्मनस्त्वरा ।। ४४-९२ ।।

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।।
एष ध्यानपथः पूर्वो भया समनुवर्णितः ।। ४४-९३ ।।

तस्य तत्पूर्वसंरुद्ध आत्मषष्ठमनंतरम् ।।
स्फुरिष्यति समुद्रांता विद्युदम्बुधरे यथा ।। ४४-९४ ।।

जलबिंदुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।।
एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि ।। ४४-९५ ।।

समाहितं क्षणं किंजिद्ध्यानवर्त्मनि तिष्टति ।।
पुनर्वायुपथं भ्रांतं मनो भवति वायुवत् ।। ४४-९६ ।।

अनिर्वेदो गतक्लेशो गततंद्रो ह्यमत्सरी ।।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ।। ४४-९७ ।।

विचारश्च वितर्कश्च विवेकश्चोपजायते ।।
मुनेः समाधियुक्तस्य प्रथमं ध्यानमादितः ।। ४४-९८ ।।

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ।। ४४-९९ ।।

पांशुभस्मकरीषाणां यथा वै राशयश्चिताः ।।
सहसा वारिणा सिक्ता न यांति परिभावनाः ।। ४४-१०० ।।

किंचित् स्निग्धं यथा च स्याच्छुष्कं चूर्णमभावितम् ।।
क्रमेण तु शनैर्गच्छत्सर्वं तत्परिभावनम् ।। ४४-१०१ ।।

एवमेवेन्द्रियग्रामं शनैः शं परिभावयेत् ।।
संहरेत्क्रमशश्चैव सम्यक् तत्प्रशमिष्यति ।। ४४-१०२ ।।

स्वयमेव मनश्चैवं पंचवर्गं मुनीश्वर ।।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ।। ४४-१०३ ।।

न तत्पुरुषकारेण न च दैवेन केनचित् ।।
सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ।। ४४-१०४ ।।

सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि ।।
गच्छंति योगिनो ह्योवं निर्वाणं तु निरामयम् ।। ४४-१०५ ।।

सनंदन उवाच ।।
इत्युक्तो भृगुणा ब्रह्मन्भरद्वाजः प्रतापवान् ।।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ।। ४४-१०६ ।।

एष ते प्रसवो विद्वन् जगतः संप्रकीर्तितः ।।
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ।। ४४-१०७ ।।

इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।