नारदपुराणम्- पूर्वार्धः/अध्यायः १७
ऋषय ऊचुः ।।
साधु सूत महाभाग त्वयातिकरुणात्मना ।।
श्रावितं सर्वपापघ्नं गङ्गामाहात्म्यमुत्तमम् ।। १७-१ ।।
श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः ।।
किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम् ।। १७-२ ।।
सूत उवाच ।।
श्रृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा ।।
पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत् ।। १७-३ ।।
नानाख्यानेतिहासाड्यं गङ्गामाहात्म्यमुत्तमम् ।।
श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात् ।। १७-४ ।।
नारद उवाच ।।
अहोऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् ।।
गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम् ।। १७-५ ।।
ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव ।।
नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम् ।। १७-६ ।।
ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैति विष्णुः ।।
ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी ।। १७-७ ।।
ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् ।।
भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम् ।। १७-८ ।।
प्रवृत्तं च निवृत्तं च यत्कर्म हरितो षणम् ।।
तदाख्याहि मुनिश्रेष्ठ विष्णुभक्तोऽसि मानद ।। १७-९ ।।
सनक उवाच ।।
साधु साधु मुनिश्रेष्ट भक्तस्त्वं पुरुषोत्तमेः ।।
भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः ।। १७-१० ।।
व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च ।।
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा ।। १७-११ ।।
यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः ।।
इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते ।। १७-१२ ।।
येन केनाप्युपायेन हरिपूजापरायणाः ।।
प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः ।। १७-१३ ।।
मार्गशीर्षे सिते पक्षे द्वादश्यां जलशायिनम् ।।
उपोषितोऽर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः ।। १७-१४ ।।
स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् ।।
गन्धपुष्पाक्षतैर्धूपै र्दीपैर्नैवेद्यपूर्वकैः ।। १७-१५ ।।
वाग्यतो भक्तिभावेन मुनिश्रेष्टार्चयेद्धरिम् ।।
केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत् ।। १७-१६ ।।
अष्टोत्तरशतं हुत्वा वन्हौ घृततिलाहुतीः ।।
रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः ।। १७-१७ ।।
स्नापयेत्प्रस्थपयसा नारायणमनामयम् ।।
गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम् ।। १७-१८ ।।
त्रिकालं पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् ।।
पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम् ।। १७-१९ ।।
पूर्ववत्पूजयेद्वेवं वाग्यतो नियतः शुचिः ।।
पायसं घृतसंमिश्रं नालिकेरफलान्वितम् ।। १७-२० ।।
मन्त्रेणानेन विप्राय दद्याद्भक्त्या सदक्षिणम् ।।
केशवः केशिहा देवः सर्वसंपत्प्रदायकः ।। १७-२१ ।।
परमान्नप्रदानेन मम स्यादिष्टदायकः ।।
ब्राह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह ।। १७-२२ ।।
नारायण परो भूत्वा स्वयं भुञ्जीत वाग्यतः ।।
इति यः कुरुते भक्त्या केशवार्चनमुत्तमम् ।। १७-२३ ।।
स पौंडरीकयज्ञस्य फलमष्टगुणं लभेत् ।।
पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ।। १७-२४ ।।
नमो नारायणायेति पूजयेत्प्रयतो हरिम् ।।
पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत् ।। १७-२५ ।।
रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः ।।
धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः ।। १७-२६ ।।
तृणैश्च गीतवाद्याद्यैः स्तोत्रैश्चाप्यर्ययेद्धरिम् ।।
कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम् ।। १७-२७ ।।
सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ।।
नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः ।। १७-२८ ।।
मंत्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् ।।
द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः ।। १७-२९ ।।
एवं संपूजयेद्भक्त्या देवं नारायणं प्रभुम् ।।
अग्निष्टोमाष्टकफलं स संपूर्णमवाप्नुयात् ।। १७-३० ।।
माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः ।।
नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः ।। १७-३१ ।।
पूर्वमानेन पयसा स्नापयेन्माधवं तदा ।।
पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा ।। १७-३२ ।।
रात्रौ जागरणं कुर्यात्पूर्ववद्भक्तिसंयुतः ।।
कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत् ।। १७-३३ ।।
प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् ।।
सदक्षिणं सवस्त्रंच सर्वपापविमुक्तये ।। १७-३४ ।।
माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः ।।
तिलदानेन महता सर्वान्कामान्प्रयच्छतु ।। १७-३५ ।।
मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः ।।
ब्रह्मणान्भोजयेच्छक्त्या संस्मरन्माधवं प्रभुम् ।। १७-३६ ।।
एवं यः कुरुते भक्त्या तिलदाने व्रतं मुने ।।
वाजपेय शतस्यासौ संपूर्णं फलमाप्नुयात् ।। १७-३७ ।।
फाल्गुनस्य सिते पक्षे द्वादश्यां समुपोषितः ।।
गोविन्दाय नमस्तुभ्यमिति संपूजयेद्व्रती ।। १७-३८ ।।
अष्टोत्तगरशतं दृत्वा घृतमिश्रतिलाहुतीः ।।
पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः ।। १७-३९ ।।
रात्रौ जागरणं कुर्यात्र्रिकालं पूजयेत्तथा ।।
प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः ।। १७-४० ।।
व्रीह्याढकं च विप्राय दद्याद्वस्त्रं सदक्षिणम् ।।
नमो गोविन्द सर्वेश गोपिकाजनवल्लभ ।। १७-४१ ।।
अनेन धान्य दानेन प्रीतो भव जगद्गुरो ।।
एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः ।। १७-४२ ।।
गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः ।।
चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः ।। १७-४३ ।।
नमोऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् ।।
क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः ।। १७-४४ ।।
तथैव स्नापयेद्विप्र घृतप्रस्थेन सादरम् ।।
कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्व्रती ।। १७-४५ ।।
ततः कल्ये समुत्थाय प्रातः कृत्यं समाप्य च ।।
अष्टोत्तरशतं हुत्वा मध्वाज्यतिलमिश्रितम् ।। १७-४६ ।।
सदक्षिणं च विप्राय दद्याद्वै तण्डुलाढकम् ।।
प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः ।। १७-४७ ।।
तण्डुलाढकदानेन प्रीयतां मे जनार्दनः ।।
एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः ।। १७-४८ ।।
अत्यन्गिष्टोमयज्ञस्य फलमष्टगुणं लभेत् ।।
वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम् ।। १७-४९ ।।
द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिंसंयुतः ।।
जागरं तत्र कर्त्तव्यं त्रिकालार्चनसंयुतम् ।। १७-५० ।।
नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् ।।
अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम् ।। १७-५१ ।।
विपापो ह्यश्वमेधानामष्टानां फलमाप्नुयात् ।।
ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत् ।। १७-५२ ।।
क्षीरेणाढकमानेन स्नापयेद्यस्त्रिविक्तमम् ।।
नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः ।। १७-५३ ।।
जुहुयात्पायसेनैव ह्यष्टोत्तरशताहुतीः ।।
कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत् ।। १७-५४ ।।
अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् ।।
देवदेव जगन्नात प्रसीद परमेश्वर ।। १७-५५ ।।
उपायनं च संगृह्य ममाभीष्टप्रदो भव ।।
ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः ।। १७-५६ ।।
एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् ।।
सोऽष्टानां नरमेधानां विपापः फलमाप्नुयात् ।। १७-५७ ।।
आषाढशुक्लद्वादश्यामुपवासी जितेन्द्रियः ।।
वामनं पूर्वमानेन स्नापयेत्पयसा व्रती ।। १७-५८ ।।
नमस्ते वामनायेति दूर्वाज्याष्टोत्तरं शतम् ।।
हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः ।। १७-५९ ।।
सदाक्षिणं च दध्यन्नं नालिकेरफलान्वितम् ।।
भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने ।। १७-६० ।।
वामनो वुद्धिदो होता द्रव्यस्थो वामनः सदा ।।
वामनस्तारकोऽस्माच्च वामनाय नमो नमः ।। १७-६१ ।।
अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्दिजान् ।।
कृत्वैवमग्रिष्टोमानां शतस्य फलमाप्नुयात् ।। १७-६२ ।।
श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् ।।
क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती ।। १७-६३ ।।
नमोऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् ।।
जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने ।। १७-६४ ।।
कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् ।।
दातव्यं चैव विप्राय क्षीराढकमनुत्तमम् ।। १७-६५ ।।
दक्षिणां च सवस्त्रां वै प्रदद्याद्धेमकुण्डले ।।
मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये ।। १७-६६ ।।
क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते ।।
क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः ।। १७-६७ ।।
सुखप्रदत्त्वाद्विप्रांश्च भोजयेच्छक्तितो व्रती ।।
एव कृत्वाश्वमेधानां सहस्त्रस्य फलं लभेत् ।। १७-६८ ।।
मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः ।।
स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम् ।। १७-६९ ।।
हृषीकेश नमस्तुभ्यमिति संपूजयेन्नरः ।।
चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत् ।। १७-७० ।।
जागरादीनिनि निर्वर्त्य दद्यादात्मविदे ततः ।।
सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः ।। १७-७१ ।।
हृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे ।।
मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः ।। १७-७२ ।।
भोजयेद्ब्राह्माञ्शक्त्या स्वयं चाश्रीतवाग्यतः ।।
सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत् ।। १७-७३ ।।
आश्विने मासिशुक्लायां द्वादश्यांसमुपोषितः ।।
पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः ।। १७-७४ ।।
नमस्ते पद्मनाभाय होमं कुयार्त्स्वशक्तितः ।।
तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः ।। १७-७५ ।।
जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् ।।
दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम् ।। १७-७६ ।।
पद्मनाभ नमस्तुभ्यं सर्वलोकपितामह ।।
मधुदानेन सुप्रीतो भवसर्वसुखप्रदः ।। १७-७७ ।।
एवं यः कुरुते भक्त्या पद्मनाभव्रतं सुधीः ।।
ब्रह्ममेधसहस्त्रस्य फलमाप्नोति निश्चितम् ।। १७-७८ ।।
द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः ।।
क्षीरेणाकढकमानेन दन्धा वाज्येन तावता ।। १७-७९ ।।
नमो दामोदरायेति स्नापयेद्भक्तिभावतः ।।
अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः ।। १७-८० ।।
जागरं नियतः कुर्यात्त्रिकालार्चनतत्परः ।।
प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः ।। १७-८१ ।।
पुनरष्टोत्तरशतं जुहुयात्सघृतै स्तिलैः ।।
पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः ।। १७-८२ ।।
दामोदर जगन्नाथ सर्वकारणकारण ।।
त्राहिमां कृपया देव शारणागतपालकः ।। १७-८३ ।।
अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने ।।
दक्षिणांच यथाशक्त्या ब्राह्मणांचापि भोजयेत् ।। १७-८४ ।।
एवंकृत्वा व्रतं सम्यगश्रीयाद्बन्धुभिः सह ।।
अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते ।। १७-८५ ।।
एवं कुर्याद्व्रती यस्तु द्वादशीव्रतमुत्तमम् ।।
संवत्सरं मुनिश्रेष्ठ स याति परमं पदम् ।। १७-८६ ।।
एकमासे द्विमासे वायः कुर्याद्भक्तितत्परः ।।
तत्तत्फलमवाप्नोति प्राप्नोति च हरेः पदम् ।। १७-८७ ।।
पूर्णँ संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ।।
मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर ।। १७-८८ ।।
स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् ।।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।। १७-८९ ।।
मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशोभनम् ।।
घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम् ।। १७-९० ।।
अलंकृतं पुष्पमाल्यैर्वितानघ्वजराजितान् ।।
छादितं शुक्लवस्त्रेण दीपमालाविभूषितम् ।। १७-९१ ।।
तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलंकृतम् ।।
तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान् ।। १७-९२ ।।
एकेन शुक्लवस्त्रेण सम्यक्संशोधितेन च ।।
सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान् ।। १७-९३ ।।
लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती ।।
हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ।। १७-९४ ।।
स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी ।।
तन्मूल्यं वा द्विजश्रेष्ट काञ्चनं च स्वशक्तितः ।। १७-९५ ।।
सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्जयेत् ।।
यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः ।। १७-९६ ।।
अनन्तशायिनं देवं नारायणमनामयम् ।।
पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः ।। १७-९७ ।।
नांमभिः केशवाद्यैश्च ह्युपचाराप्रकल्पयेत् ।।
रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभिः ।। १७-९८ ।।
जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः ।।
त्रिकालमर्चयेद्देवं यथाविभवविस्तरम् ।। १७-९९ ।।
ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ।।
तिलहोमान्व्याहृतिभिः सहस्रं कार्येद्द्विजैः ।। १७-१०० ।।
ततः संपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् ।।
देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः ।। १७-१०१ ।।
दद्याद्द्वादशविप्रेभ्यो दध्यन्नं पायसं तथा ।।
अपूपैर्दशभिर्युक्तं सघृतं च सदक्षिणम् ।। १७-१०२ ।।
देवदेवजगन्नाथ भक्तानुग्रहविग्रह ।।
गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव ।। १७-१०३ ।।
अनेनोपायनं दत्त्वा प्रार्थयेमाञ्जलिः स्थितः ।।
आधाय जानुनी भूमौ विनयावननतो व्रती ।। १७-१०४ ।।
नमो नमस्ते सुरराजराज नमोऽस्तुते देवं जगन्निवास ।।
कुरुष्व संपृर्णफलं ममाद्य नमोऽस्तु तुभ्यं पुरुषोत्तमाय ।। १७-१०५ ।।
इति संप्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् ।।
दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै ।। १७-१०६ ।।
लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने ।।
अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो ।। १७-१०७ ।।
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ।। १७-१०८ ।।
इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते ।।
प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् ।। १७-१०९ ।।
ब्राह्मणान्भोजयेत्पश्चाच्छक्त्या दद्याच्च दक्षिणाम् ।।
भुञ्जीत वाग्यतः पश्चात्स्वयं बन्धुजनैर्वृतः ।। १७-११० ।।
आसायं श्रृदुयाद्विष्णोः कथां विद्वज्जनैः सह ।।
इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम् ।। १७-१११ ।।
सर्वान्कामान्स आन्पोति परत्रेह च नारद ।।
त्रिसतकुलसंयुक्तः सर्वपापविवर्जितः ।।
तपाति विष्णुभवनं यत्र यत्त्वा न शोचति ।। १७-११२ ।।
य इदं श्रृणुयाद्विप्र द्वादशीव्रतमुत्तमम् ।।
वाचयेद्वापि स नरो वाजपेयफलं लभेत् ।। १७-११३ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सत्पदशोऽध्यायः ।।