नारदपुराणम्- पूर्वार्धः/अध्यायः ४५
सूत उवाच ।।
सनंदनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः ।।
पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्मसत्कथाम् ।। ४५-१ ।।
नारद उवाच ।।
श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् ।।
न च मे जायते तृप्तिर्भूयोभूयोऽपि श्रृण्वतः ।। ४५-२ ।।
यथा संमुच्यते जंतुरविद्याबंधनान्मुने ।।
तथा कथय सर्वज्ञ मोक्षधर्मं सदाश्रितम् ।। ४५-३ ।।
सनंदन उवाच ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
यथा मोक्षमनुप्राप्तो जनको मिथिलाधिपः ।। ४५-४ ।।
जनको जनदेवस्तु मिथिलाया अधीश्वरः ।।
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिंतने ।। ४५-५ ।।
तस्य श्मशान माचार्या वसति सततं गृहे ।।
दर्शयंतः पृथग्धर्मान्नानापाषंजवादिनः ।। ४५-६ ।।
स तेषां प्रेत्यभावे च प्रेत्य जातौ विनिश्चये ।।
आदमस्थः स भूयिष्टमात्मतत्त्वेन तुष्यति ।। ४५-७ ।।
तत्र पंचशिखो नाम कापिलेयो महामुनिः ।।
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ।। ४५-८ ।।
सर्वसंन्यासधर्माणः तत्त्वज्ञानविनिश्चये ।।
सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः ।। ४५-९ ।।
ऋषीणामाहुरेकं यं कामादवसितं नृषु ।।
शाश्वतं सुखमत्यंतमन्विच्छन्स सुदुर्लभम् ।। ४५-१० ।।
यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम् ।।
स मन्ये तेन रूपेण विख्यापयति हि स्वयम् ।। ४५-११ ।।
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।।
पंचस्रोतसि यः सत्रमास्ते वर्षसहस्रकम् ।। ४५-१२ ।।
पंचस्रोतसमागम्य कापिलं मंडलं महत् ।।
पुरुषावस्थमव्यंक्तं परमार्थं न्यवेदयत् ।। ४५-१३ ।।
इष्टिमंत्रेण संयुक्तो भूयश्च तपसासुरिः ।।
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं विबुधे देहदर्शनः ।। ४५-१४ ।।
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।।
आसुरिर्मंडले तस्मिन्प्रतिपेदे तमव्ययम् ।। ४५-१५ ।।
तस्य पंचशिखः शिष्यो मानुष्या पयसा भृतः ।।
ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ।। ४५-१६ ।।
तस्यः पुत्रत्वमागत्य स्रियाः स पिबति स्तनौ ।।
ततश्च कापिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ।। ४५-१७ ।।
एतन्मे भगवानाह कापिलेयस्य संभवम् ।।
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ।। ४५-१८ ।।
सामात्यो जनको ज्ञात्वा धर्मज्ञो ज्ञानिनं मुने ।।
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ।। ४५-१९ ।।
जनकस्त्वभिसंरक्तः कापि लेयानुदर्शनम् ।।
उत्सृज्य शतमाचार्याम्पृष्टतोऽनुजगाम तम् ।। ४५-२० ।।
तस्मै परमकल्याणं प्रणताय च धर्मतः ।।
अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते ।। ४५-२१ ।।
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् ।।
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ।। ४५-२२ ।।
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ।।
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ।। ४५-२३ ।।
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।।
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ।। ४५-२४ ।।
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः ।।
आत्मानं मन्यते मोहात्तदसम्यक् परं मतम् ।। ४५-२५ ।।
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।।
अजरोऽयममृत्युश्च राजासौ मन्यते यथा ।। ४५-२६ ।।
अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे ।।
किमधिष्टाय तद् ब्रूयाल्लोकयात्राविनिश्चयम् ।। ४५-२७ ।।
प्रत्यक्षं ह्येतयोर्मूलं कृतांत ह्येतयोरपि ।।
प्रत्यक्षो ह्यागमो भिन्नः कृतांतो वा न किंचन ।। ४५-२८ ।।
यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च ।।
अन्योजीवः शरीरस्य नास्तिकानां मते स्थितः ।। ४५-२९ ।।
रेतोवटकणीकायां घृतपाकाधिवासनम् ।।
जातिस्मृतिरयस्कांतः सूर्यकांतोंऽबुभक्षणम् ।। ४५-३० ।।
प्रेतभूतप्रियश्चैव देवता ह्युपयाचनम् ।।
मृतकर्मनिवत्तिं च प्रमाणमिति निश्चयः ।। ४५-३१ ।।
नन्वेते हेतवः संति ये केचिन्मूर्तिसस्थिताः ।।
अमूतस्य हि मूर्तेन सामान्यं नोपलभ्यते ।। ४५-३२ ।।
अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् ।।
तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ।। ४५-३३ ।।
अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् ।।
यदा सरूपतश्चान्यो जातितः श्रुततोऽर्थतः ।। ४५-३४ ।।
कथमस्मिन्स इत्येव संबंधः स्यादसंहितः ।।
एवं सति च का प्रीहिर्ज्ञानविद्यातपोबलैः ।। ४५-३५ ।।
यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते ।।
अपि त्वयमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ।। ४५-३६ ।।
सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः ।।
यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ।। ४५-३७ ।।
वृथा ज्ञानं यदन्यञ्च येनैतन्नोपलभ्यते ।।
ऋमसंवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ।। ४५-३८ ।।
यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः ।।
जरयाभिपरीतस्य मृत्युना च विनाशितम् ।। ४५-३९ ।।
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ।।
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ।। ४५-४० ।।
आनुपूर्व्या विनश्यंति स्वं धातुमुपयाति च ।।
लोकयात्राविधातश्च दानधर्मफलागमे ।। ४५-४१ ।।
तदर्थं वेदंशब्दाश्च व्यवहाराश्च लौकिकाः ।।
इति सम्यङ् मनस्येते बहवः संति हेतवः ।। ४५-४२ ।।
ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते ।।
तेषां विमृशतामेव तत्सम्यगभिधावताम् ।। ४५-४३ ।।
क्वचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् ।।
एवंतुर्थैरनर्थैश्च दुःखिताः सर्वजंतवः ।। ४५-४४ ।।
आगमैरपकृष्यंते हस्तिपैर्हस्तिनो यथा ।। ४५-४५ ।।
अर्थास्तथा हंति सुखावहांश्च लिहत एते बहवोपशुष्काः ।।
महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयांति ।। ४५-४६ ।।
विनाशिनो ह्यध्रुवजीविनः किं किं बंधुभिर्मत्रपरिग्रहैश्च ।।
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ।। ४५-४७ ।।
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयंति ।।
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनाप्यस्य न शम विद्यते ।। ४५-४८ ।।
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ।।
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ।। ४५-४९ ।।
जनक उवाच ।।
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ।।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ।। ४५-५० ।।
सर्वमुच्छेदनिष्टस्यात्पश्य चैतद्द्विजोत्तम ।।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ।। ४५-५१ ।।
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।।
कस्मै क्रियत कल्पेत निश्चयः कोऽत्र तत्त्वतः ।। ४५-५२ ।।
सनंदन उवाच।।
तमसा हि मतिच्छत्रं विभ्रांतमिव चातुरम् ।।
पुनः प्रशमयन्वाक्यैः कविः पंचशिखोऽब्रवीत् ।। ४५-५३ ।।
पंचशिख उवाच ।।
उच्छेदनिष्टा नेहास्ति भावनिष्टा न विद्यते ।।
अयं ह्यपि समाहारः शरीरेंद्रियचेतसाम् ।। ४५-५४ ।।
वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु ।।
धातवः पंचधा तोयं खे वायुर्ज्योतिषो धरा ।। ४५-५५ ।।
तेषु भावेन तिष्टंति वियुज्यंते स्वभावतः ।।
आकाशं वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ।। ४५-५६ ।।
एष पञ्चसमाहारः शरीरमपि नैकधा ।।
ज्ञानमूष्मा च वायुश्च त्रिविधः कायसंग्रहः ।। ४५-५७ ।।
इंद्रियाणींद्रियार्थाश्च स्वभावश्चेतनामनः ।।
।। प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ।। ४५-५८ ।।
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।।
इंद्रियाणीति पंचैते चित्तपूर्वंगमा गुणाः ।। ४५-५९ ।।
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ।।
सुखदुःखेति यामाहुरनदुःखासुखेति च ।। ४५-६० ।।
शब्दः स्पर्शश्च रूपं च मूर्त्यर्थमेव ते त्रयः ।।
एते ह्यामरणात्पंच सद्गुणा ज्ञानसिद्धये ।। ४५-६१ ।।
तेषु कर्मणि सिद्धिश्च सर्वतत्त्वार्थनिश्चयः ।।
तमाहुः परमं शुद्धिं बुद्धिरित्यव्ययं महत् ।। ४५-६२ ।।
इमं गुणसमाहारमात्मभावेन पश्यतः ।।
असम्यग्दर्शनैर्दुःखमनंतं नोपशाम्यति ।। ४५-६३ ।।
अनात्मेति च यदृष्टं तेनाहं न ममेत्यपि ।।
वर्तते किमधिष्टानात्प्रसक्ता दुःखसंततिः ।। ४५-६४ ।।
तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् ।।
श्रृणुयात्तच्च मोक्षाय भाष्यमाणं भविष्यति ।। ४५-६५ ।।
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।।
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो तमः ।। ४५-६६ ।।
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतानि च ।।
सुखत्यागा तपो योगं सर्वत्यागे समापना ।। ४५-६७ ।।
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।।
विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ।। ४५-६८ ।।
पंच ज्ञानेंद्रियाण्युक्त्वा मनः षष्टानि चेतसि ।।
बसषष्टानि वक्ष्यामि पंच कर्मेद्रियाणि तु ।। ४५-६९ ।।
हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतींद्रियम् ।।
प्रजनान दयोमेढ्रो विसर्गो पायुरिंद्रियम् ।। ४५-७० ।।
वाक्च शब्दविशेषार्थमिति पंचान्वितं विदुः ।।
एवमेकादशेतानि बुद्ध्या त्ववसृजन्मनः ।। ४५-७१ ।।
कर्णो शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।।
तथा स्पर्शे तथा रूपे तथैव रसगंधयोः ।। ४५-७२ ।।
एवं पंच त्रिका ह्येते गुणस्तदुपलब्धये ।।
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ।। ४५-७३ ।।
सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः ।।
त्रिविधा वेदाना येषु प्रसृता सर्वसाधिनी ।। ४५-७४ ।।
प्रहर्षः प्रीतिरानंदः सुखं संशान्तचित्तता ।।
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ।। ४५-७५ ।।
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।।
लिंगानि रजसस्तानि दृश्यंते हेत्वहेतुतः ।। ४५-७६ ।।
अविवेकस्तथा मोहः प्रमादः स्वप्नतंद्रिता ।।
कथंचिदपि वर्तंते विविधास्तामसा गुणाः ।। ४५-७७ ।।
इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ।।
न लिप्यते कर्मपलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ।। ४५-७८ ।।
दृढैर्हि पाशैर्विविधैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।।
यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाऽग्र्यां गतिमेत्यलिंगः ।। ४५-७९ ।।
श्रुतिप्रमाणगममंगलैश्च शेति जरामृत्युभयादतीतः ।।
क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ।। ४५-८० ।।
अलेपमाकाशमलिंगमेवमास्थाय पश्यंति महत्यशक्ता ।।
यथोर्णनाभिः परिवर्तमानस्तंतुक्षये तिष्टति यात्यमानः ।। ४५-८१ ।।
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्टमिवादिमृच्छन् ।।
यथा रुरुः शृंगमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ।। ४५-८२ ।।
विहाय गच्छन्ननवेक्षघमाणस्तथा विमुक्तो विजहाति दुःखम् ।।
मत्स्यं यथा वाप्युदके पतंतमुत्सृज्य पक्षी निपतत्सशक्तः ।। ४५-८३ ।।
तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः परार्द्ध्या गतिमेत्यलिंगः ।। ४५-८४ ।।
इदममृतपदं निशम्य राजा स्वयमिहपंचशिखेन भाष्यमाणम् ।।
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ।। ४५-८५ ।।
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ।।
न खलु मम हि दह्यतेऽत्र किंचित्स्वयमिदमाह किल स्म भूमिपालः ।। ४५-८६ ।।
इमं हि यः पठति विमोक्षनिश्चयं महामुने सततमवेक्षते तथा ।।
उपद्रवाननुभवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ।। ४५-८७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चचत्वारिंशत्तमोऽध्यायः ।।