प्रमुखा विकल्पसूचिः उद्घाट्यताम्
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् ।।
सर्वपापप्रशमनं सर्वकामफलप्रदम् ।। २३ -१ ।।

ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम् ।।
मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ।। २३-२ ।।

एकादशीव्रतं नाम सर्वाभीष्टप्रदं नृणाम् ।.
कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः ।। २३-३ ।।

एकादश्यां न भुञ्जीत पक्षयोरुभयोपरि ।।
यो भुंक्ते सोऽत्र पापीयान्परत्र नरकं व्रजेत् ।। २३-४ ।।

उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् ।।
पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे ।। २३-५ ।।

एकादशीदिने यस्तु भोक्तुमिच्छति मानवः ।।
स भोक्तुं सर्वपापानि स्पृहयालुर्नसंशयः ।। २३-६ ।।

भवेद्दशम्यामेकाशीद्वादश्यां च मुनीश्वर ।।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ।। २३-७ ।।

यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेश्वर ।।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ।। २३-८ ।।

यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
अन्नमाश्रित्य तिष्ठन्ति तानि च मुनीश्वर ।।
एकादश्यां निराहारो यदि मुक्तिमभीप्सति ।। २३-९ ।।

महापातकयुक्तो वायुक्तो वा सर्व पातकैः ।।
एकादश्यां निराहारः स्थित्वा याति परां गतिम् ।। २३-१० ।।

एकादशी महापुण्या विष्णोः प्रियतमा तिथिः ।।
संसेव्या सर्वथा विप्रैः संसारच्छेदलिप्सुभिः ।। २३-११ ।।

दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् ।।
स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः ।। २३-१२ ।।

एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् ।।
शयीत सन्निधौ विष्णोर्नारायणपरायणः ।। २३-१३ ।।

एकादश्यां तथा स्नात्वा संपूज्य च जनार्दनम् ।।
गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुदीरयेत् ।। २३-१४ ।।

एकादश्यां निराहारः स्थित्वाद्याहं परेऽहनि ।।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ।। २३-१५ ।।

इमं मन्त्रं समुच्चाय देव देवस्य चक्रिणः ।।
भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत् ।। २३-१६ ।।

देवस्य पुरतः कुर्याज्जागरं नियतो व्रती ।।
गीतैर्वाद्यैश्च नृत्यैश्च पुराणश्रवणादिभिः ।। २३-१७ ।।

ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ।।
स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः ।। २३-१८ ।।

पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् ।।
द्वादश्यां पयसा विप्र हरिसारुपप्यमश्नुते ।। २३-१९ ।।

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।।
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ।। २३-२० ।।

एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः ।।
ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा ।। २३-२१ ।।

ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः ।।
कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ।। २३-२२ ।।

एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् ।।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ।। २३-२३ ।।

उपवासव्रतपरो धर्मकार्यपरायणः ।।
चाण्डालान्पतितांश्चैव नेक्षेदपि कदाचन ।। २३-२४ ।।

नास्तिकान्भिन्नमर्योदान्निन्दकान्पिशुनांस्तथा ।।
उपवास व्रतपरो नालपेच्च कदाचन ।। २३-२५ ।।

वृषलीसूतिपोष्टारं वृषलीपतिमेव च ।।
अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती ।। २३-२६ ।।

कुण्डाशिनं गायकं च तथा देवलकाशिनम् ।।
भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम् ।। २३-२७ ।।

परान्नलोलुपं चैव परस्त्रीनिरतं तथा ।।
व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत् ।। २३-२८ ।।

इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ।।
उपवासपरो भूत्वा परां सिद्धिमवान्पुयात् ।। २३-२९ ।।

नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः ।।
नास्तु विष्णुसमं दैवं तपो नानशनात्परम् ।। २३-३० ।।

नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् ।।
नास्ति ज्ञानसमो लाभो न च धर्म समः पिता ।। २३-३१ ।।

न विवेकसमो बन्धुनैकादश्याः परं व्रतम् ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।। २३-३२ ।।

संवादं भद्रशीलस्य तत्पितुर्गालवस्य च ।।
पुरा हिगालवो नाम मुनिः सत्यपरायणः ।। २३-३३ ।।

उवास नर्मदातीरे शान्तो दान्तस्तपोनिधिः ।।
बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ।। २३-३४ ।।

सिद्धचारणगन्धर्व यक्षविद्याधरान्विते ।।
कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते ।। २३-३५ ।।

गालवो नाम विप्रेन्द्रो निवासमकरोच्चिरम् ।।
तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ।। २३-३६ ।।

जांतिस्मरो महाभागो नारायणपरायणः ।।
बालक्रीडनकालेऽपि भद्रशीलो महामतिः ।। २३-३७ ।।

मृदा च विष्णोः प्रतिमां कृत्वा पूजयते क्षणम् ।।
वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ।। २३-३८ ।।

एकादशीव्रतं चैव कर्त्तव्यमपि पण्डितैः ।।
एवं ते बोधितास्तेन शिशवोऽपि मुनीश्वर ।। २३-३९ ।।

हरिं मृदैव निर्माय पृथक्संभूय वा मुदा ।।
अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः ।। २३-४० ।।

नमस्कुर्वन्भद्रमतिर्विष्णवे सर्वविष्णवे ।।
सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम् ।। २३-४१ ।।

क्रीडाकाले मुहूर्तं वा मुहूर्तार्द्धमथापि वा ।।
एकादशीति संकल्प्यव्रतं यच्छति केशवे ।। २३-४२ ।।

एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः ।।
अपृच्छद्विस्मयाविष्टः समालिंग्य तपोनिधिः ।। २३-४३ ।।

गालव उवाच ।।
भद्रशील महाभाग भद्रशीलोऽसि सुव्रत ।।
चरितं मंगलं यत्ते योगिनामपि दुर्लभम् ।। २३-४४ ।।

हरिपूजापरो नित्यं सर्वभूतहितेरतः ।।
एकादशीव्रतपरो निषिद्धाचारवर्जितः ।।
निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः ।। २३-४५ ।।

एवमेतादृशी बुद्धिः कथं जातार्भकस्यते ।।
विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा ।। २३-४६ ।।

स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु ।।
प्रवर्त्तते मतिर्वत्स कथं तेऽलौकिकी कृतिः ।। २३-४७ ।।

सत्सङ्गेऽपि मनुष्याणां पूर्वपुण्यातिरेकतः ।।
जायते भगवद्भक्तिस्तदहं विस्मयं गतः ।। २३-४८ ।।

पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति ।।
भद्रशीलो मुनिश्रेष्टः पित्रैवं सुविकल्पितैः ।। २३-४९ ।।

जातिस्मरः सुकृतात्मा हृष्टप्रहसिताननः ।।
स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत् ।। २३-५० ।।

भद्रशील उवाच ।।
श्रृणु तात मुनिश्रेष्ट ह्यनुभूतं मया पुरा ।।
जातिस्मरत्वाज्जानामि यमेन परिभाषितम् ।। २३-५१ ।।

एतच्छ्रत्वा महाभागो गालवो विस्मयोन्वितः ।।
उवाच प्रीतिमापन्नो भद्रशीलं महामतिम् ।। २३-५२ ।।

गालव उवाच ।।
कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते ।।
कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि ।। २३-५३ ।।

भद्रशील उवाच ।।
अहमासं पुरा तात राजा सोमकुलोद्भवः ।।
धर्मकीर्तिरिति ख्यातो दत्तात्रेयेण शासितः ।। २३-५४ ।।

नव वर्षसहस्त्राणि महीं कृत्स्त्रमपालयम् ।।
अधर्माश्च तथा धर्मा मया तु बहवः कृताः ।। २३-५५ ।।

ततः श्रिया प्रमत्तोऽहं बह्वधर्मम कारिषम् ।।
पाषण्डजनसंसर्गात्पाषण्डचरितोऽभवम् ।। २३-५६ ।।

पुरार्जितानि पुण्यानि मया तु सुबहून्यपि ।।
पाषण्डैर्बाधितोऽहं तु वेदमार्गं समत्यजम् ।। २३-५७ ।।

मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया ।।
अधर्मनिरतं मां तु दृष्ट्वा महेशजाः प्रजाः।। २३-५८ ।।

सदैव दुष्कृतं चक्रुः षष्टांशस्तत्रमेऽभवत् ।।
एवं पापसमाचारो व्यसनाभिरतः सदा ।। २३-५९ ।।

मृगयाभिररतो भूत्वा ह्येकदा प्राविशं वनम् ।।
ससैन्योऽहं वने तत्र हत्वा बहुविधान्मृगान् ।। २३-६० ।।

क्षुत्तृट्परिवृतः श्रांतो रेवातीरमुपागमम् ।।
रवितीक्ष्णातपक्लांतो रेवायां स्नानमाचरम् ।। २३-६१ ।।

अदृष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम् ।। २३-६२ ।।
समेतास्तत्र ये केचिद्रेवातीरनिवासिनः ।।

एकादशीव्रतपरा मया दृष्ट्वा निशामुखे ।। २३-६३ ।।
निराहारश्च तत्राहमेकाकी तज्जनैः सह ।।

जागरं कृतवांश्वापि सेनया रहितो निशि ।। २३-६४ ।।
अध्वश्रमपरिश्रांतः क्षुत्पिपासाप्रपीडितः ।।

तत्रैव जागरान्तेऽहं तातपंचत्वमागतः ।। २३-६५ ।।
ततो यमभटैर्बद्धो महादंष्ट्राभयंकरैः ।।

अनेकक्लेशसंपन्नमार्गेणाप्तो यमांतिकम् ।।
दंष्ट्राकरालवदनमपश्यं समवर्तिनम् ।। २३-६६ ।।

अथ कालिश्चित्रगुप्तमाहूयेदमभाषत ।।
अस्य शिक्षाविधानं च यथावद्वद पंडित ।। २३-६७ ।।

एवमुक्तश्चित्रगुप्तो धर्मराजेन सत्तम ।।
चिरं विचारयामास पुनश्चेदमभाषत ।। २३-६८ ।।

असौ पापरतः सत्यं तथापि श्रृणु धर्मप ।।
एकादश्यां निराहारः सर्वपापैः प्रमुच्यते ।। २३-६९ ।।

एष रेवातटे रम्ये निराहारो हरेर्दिने ।।
जागरं चोपवासं च कृत्वा निष्पापतां गतः ।। २३-७० ।।

यानि कानि च पापानि कृतानि सुबहूनि च ।।
तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः ।। २३-७१ ।।

एवमुक्तो धर्मराजश्चित्रगुप्तेन धीमता ।
ननाम दंडवद्भूमौ ममाग्रे सोऽनुकंपितः ।। २३-७२ ।।

पूजयामास मां तत्र भक्तिभावेन धर्मराट् ।।
ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह ।। २३-७३ ।।

धर्मराज उवाच ।।
श्रृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तममम् ।।
धर्ममार्गरतान्मर्त्यान्मानयध्वं ममान्तिकम् ।। २३-७४ ।।

ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च ।।
नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसा त्यजध्वम् ।। २३-७५ ।।

नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शंकरेति ।।
नित्यं वदंत्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा ।। २३-७६ ।।

नारायणार्पितकृतान्हरिभक्तिभजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च ।।
सत्पात्रदान निरतांश्च सुदीनपालान्दूतास्त्यजध्वमनिशं हरिनामसक्तान् ।। २३-७७ ।।

पाषंडसङ्गरहितान्द्विजभक्तिनिष्ठान्सत्संगलोलुपतरांश्च तथातिथेयान् ।।
शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम् ।। २३-७८ ।।

ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ।।
विप्रेद्रपादजलसेचनतोऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम् ।। २३-७९ ।।

ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च ।।
देवस्वलोभनिरताञ्जननाशकर्तॄनत्रानयध्वमपराधपरांश्च दूताः ।। २३-८० ।।

एकादशीव्रतपराङ्मुखमुग्रशीलं लोकापवादनिरतं परनिंदकं च ।।
ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम् ।। २३-८१ ।।

ये विष्णुभक्तिविमुखाः प्रणमंति नैव नारायणं हि शरणागतपालकं च ।।
विष्ण्वालयं च नहि यांति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य ।। २३-८२ ।।

एवं श्रुतं यदा तत्र यमेन परिभाषितम् ।।
मयानुतापदग्धेन स्मृतं तत्कर्म निंदितम् ।। २३-८३ ।।

असत्कर्मानुतापेन सद्धर्मश्रवणेन च ।।
तत्रैव सर्वपापानि निःशेषाणि गतानि मे ।। २३-८४ ।।

पापशेषाद्विनिर्मुक्तं हरिसारुप्यतां गतम् ।।
सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम् ।। २३-८५ ।।

एवं दृष्ट्वा विस्मितास्ते यमदूता भयोत्कटाः ।।
विश्वासं परमं चक्रुर्यमेन परिभाषिते ।। २३-८६ ।।

ततः संपूज्य मां कालो विमानशतसंकुलम् ।।
सद्यः संप्रेषयामास तद्विष्णोः परमं पदम् ।। २३-८७ ।।

विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः ।।
कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ।। २३-८८ ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
स्थित्वा विष्णुपदं पश्चादिंद्रलोकमुपगमम् ।। २३-८९ ।।

तत्रापि सर्वभोगाढ्यः सर्वदेवनमस्कृतः ।।
तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः ।। २३-९० ।।

अत्रापि विष्णुभक्तानां जातोऽहं भवतां कुले ।।
जातिस्मरत्वाडज्जानामि सर्वमेतन्मुनीश्वर ।। २३-९१ ।।

तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः ।।
एकादशीव्रतमिदमिति न ज्ञातवान्पुरा ।। २३-९२ ।।

जातिस्मृतिप्रभावेण तज्ज्ञातं सांप्रतं मया ।।
अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम् ।। २३-९३ ।।

एकादशीव्रतं भक्त्या कुर्वतां किमुत प्रभो ।।
तस्माच्चरिष्ये विप्रेंद्र शुभमेकादशीव्रतम् ।। २३-९४ ।।

विष्णुपूजां चाहरहः परमस्थानकांक्षया ।।
एकादशीव्रतं यत्तु कुर्वंति श्रद्धया नराः ।। २३-९५ ।।

तेषां तु विष्णुभवनं परमानंददायकम् ।।
एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः ।। २३-९६ ।।

अवाप परमां तुष्टिं मनसा चातिहर्षितः ।।
मज्जन्म सफलं जातं मद्धंशः पावनीकृतः ।। २३-९७ ।।

यतस्त्वं मद्गृहे जातो विष्णुभक्तिपरायणः ।।
इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा ।। २३-९८ ।।

हरिपूजाविधानं च यथावत्समबोधयत् ।।
इत्येतत्ते मुनिश्रेष्ट यथावत्कथितं मया ।।
संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि ।। २३-९९ ।।

इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे ब्रताख्याने एकादशीव्रतमहिमानुवर्णनं नाम त्रयोविंशोऽध्यायः ।।