नारदपुराणम्- पूर्वार्धः/अध्यायः ११
नारद उवाच ।।
अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम ।।
स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात् ।। ११-१ ।।
वदादितेर्महासत्त्वं विशेषाश्चर्यकारणम् ।।
परोपदेशनिरताः सज्जना हि मुनीश्वराः ।। ११-२ ।।
सनक उवाच ।।
श्रृणु नारद माहात्म्यं हरिभक्तिरतात्मनाम् ।।
हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम् ।। ११-३ ।।
हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ।।
देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टंति सत्तमाः ।। ११-४ ।।
हरिरास्ते महाभाग हृदये शान्तचेतसाम् ।।
हरिनामपराणां च किमु ध्यानरतात्मनाम् ।। ११-५ ।।
शिवपूजारतो वाऽपि विष्णुपूजापरोऽपि वा ।।
यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः ।। ११-६ ।।
यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते ।।
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ।। ११-७ ।।
प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा ।।
डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ।। ११-८ ।।
परपीडारता ये तु भूतवेतालकादयः ।।
नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः ।। ११-९ ।।
जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः ।।
यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः ।। ११-१० ।।
निमिषं निमिषार्द्धं वा यत्र तिष्टन्ति योगिनः ।।
तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम् ।। ११-११ ।।
यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ।।
स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते ।। ११-१२ ।।
एवं तेनाग्निना विप्र दग्धं सासुरकाननम् ।।
सादितिर्नैव दग्धाभूद्विष्णुचक्राभिरक्षिता ।। ११-१३ ।।
ततः प्रसन्नवदनः पह्मपत्रायतेक्षणः ।।
प्रादुरासीत्समीपेऽस्याः शङ्खचक्रगदाधरः ।। ११-१४ ।।
ईषद्वास्यस्फुरद्दन्तप्रभाभाषितदिङ्मुखः ।।
स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम् ।। ११-१५ ।।
श्रीभगवाननवाच ।।
देवमातः प्रसन्नोऽस्मि तपसाराधितस्त्वया ।।
चिरं श्रान्तासि भद्रं ते भविष्यति न संशयः ।। ११-१६ ।।
वरं वरय दास्यामि यत्ते मनसि रोचते ।।
मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति ।। ११-१७ ।।
इत्युक्तादेवमाता सा देवदेवेन चक्रिणा ।।
तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम् ।। ११-१८ ।।
अदितिरुवाच ।।
नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना ।।
सत्त्वादिगुणभेदेन लोकव्यापारकारण ।। ११-१९ ।।
नमस्ते बहुपरुपायारुपाय च महात्मने ।।
सर्वैकरुपरुपाय निर्गुणाय गुणात्मने ।। ११-२० ।।
नमस्ते लोकनाथाय परमज्ञानरुपिणे ।।
सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ।। ११-२१ ।।
यस्यावताररुपाणि ह्यर्चयन्ति मुनीश्वराः ।।
तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये ।। ११-२२ ।।
श्रुतयो यं न जानन्ति न जानन्ति च सूरयः ।।
तं नमामि जगद्धेतुं समायं चाप्यमायिनम् ।। ११-२३ ।।
यस्यावलोकनं चित्रं मायोपद्रवकारणम् ।।
जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम् ।। ११-२४ ।।
यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः ।।
अवापुः परमां सिद्धिं तं वन्दे कमलाधवम् ।। ११-२५ ।।
यस्य ब्रह्मादयो देवा महिमानं न वै विदुः ।।
अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम् ।। ११-२६ ।।
यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः ।।
करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम् ।। ११-२७ ।।
यज्ञेश्वरं यज्ञकर्म यज्ञकर्मसु निष्टितम् ।।
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ।। ११-२८ ।।
अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु ।।
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ।। ११-२९ ।।
हरिरुपी महादेवः शिवरुपी जनार्दनः ।।
इति लोकस्य नेता यस्तं नमामि जगद्गुरुम् ।। ११-३० ।।
ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः ।।
न जानन्ति परं भावं तं वन्दे सर्वनायकम् ।। ११-३१ ।।
ह्यत्पह्मस्थोऽपिञ्योग्यानां दूरस्थ इव भासते ।।
प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम् ।। ११-३२ ।।
यन्मु खाद्ब्राह्यणो जातो बाहुभ्यां क्षत्रियोऽजनि ।।
ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रोऽभ्यजायत ।। ११-३३ ।।
मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।।
मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत ।। ११-३४ ।।
ऋग्यजुःसामरुपाय सत्यस्वरगतात्मने ।।
षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः ।। ११-३५ ।।
त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ।।
त्वमग्निर्निर्ऋतिश्चैव वरुणस्त्वं दिवाकरः ।। ११-३६ ।।
देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ।।
गिरयः सिद्धगंधर्वानद्यो भूमिश्च सागराः ।। ११-३७ ।।
त्वमेव जगतामीशो यत्रासि त्वं परात्परः ।।
त्वद्रूपमखिलं देव तस्मान्नित्यं नमोऽस्तु ते ।। ११-३८ ।।
अनाथानाथ सर्वज्ञ भूतदेवेन्द्रविग्रह ।।
दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन ।। ११-३९ ।।
इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः ।।
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ।। ११-४० ।।
अनुग्राह्यास्मि देवेंश त्वया सर्वादिकारण ।।
अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम् ।। ११-४१ ।।
अन्तर्य्यामिञ्जगद्रूप सर्वज्ञा परमेश्वर ।।
अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो ।। ११-४२ ।।
तथापि तव वक्ष्यामि यन्मे मनसि रोचते ।।
वृथापुत्रास्मि देवेश दैतेयैः परिपीडिता ।। ११-४३ ।।
तान्न हिंसितुमिच्छामि यतस्तेऽपि सुता मम ।।
तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर ।। ११-४४ ।।
इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः ।।
उवाच हर्षयन्विप्र देवमातरमादरात् ।। ११-४५ ।।
श्रीभगवानुवाच ।।
प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् ।।
यतः सपत्निपुत्रेषु वात्सल्यं देवि दुर्लभम् ।। ११-४६ ।।
त्वया तु यत्कृतं स्तोत्रं तत्पठान्ति नरास्तु ये ।।
तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन ।। ११-४७ ।।
त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते ।।
न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः ।। ११-४८ ।।
अदितिरुवाच ।।
ताह वोढुं क्षमा देव त्वामाद्यपुरुषं परम् ।।
असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम् ।। ११-४९ ।।
यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः ।।
तमहं देवदेवेशं धारयामि कथं प्रभो ।। ११-५० ।।
अणोरणीयांसमजं परात्परतरं प्रभुम् ।।
धारयामि कथं देव त्वामहं पुरुषोत्तमम् ।। ११-५१ ।।
महापातकयुक्तोऽपि यन्नामस्मृतिमात्रतः ।।
मुच्यते स कथं देवोग्राम्येषु जनिमर्हति ।। ११-५२ ।।
यथा शूकरमत्स्याद्या अवतारास्तव प्रभो ।।
तथायमपि को वेद तव विश्वेश चेष्टितम् ।। ११-५३ ।।
त्वत्पादपह्मप्रणतात्वन्नामस्मृतितत्परा ।।
त्वामेव चिंतये देव यथेच्छासि तथा कुरु ।। ११-५४ ।।
सनक उवाच ।।
तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः ।।
दत्त्वाभयं देवमातुरिदं वचनमब्रवीत् ।। ११-५५ ।।
श्रीभगवानुवाच ।।
सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः ।।
तथापि श्रृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे ।। ११-५६ ।।
रागद्वेषविहीना ये मद्भक्ता मत्परायणाः ।।
वंहति सततं तें मां गतासूया अदाम्भिकाः ।। ११-५७ ।।
परोपतापविमुखाः शिवभक्तिपरायणः ।।
मत्कथाश्रवणासक्ता वहन्ति सततं हि माम् ।। ११-५८ ।।
पतिव्रताः परिप्राणाः पतिभक्तिपरायणाः ।।
वहन्ति सततं देवि स्त्रियोऽपि त्यक्तप्रत्सराः ।। ११-५९ ।।
मातापित्रोश्च शुश्रूषुर्गुरुभक्तोऽतिथिप्रियः ।।
हितकृद्बाह्यणानां यः स मां वहति सर्वदा ।। ११-६० ।।
पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा ।।
लोकानुग्रहशीलाश्च सततं ते वहन्ति माम् ।। ११-६१ ।।
परोपकारविरताः परद्रव्यपराङ्मुखाः ।।
नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा ।। ११-६२ ।।
तुलस्युपासनरताः सदा नामपरायणाः ।।
गोरक्षणपरा ये च सततं मां वहन्ति ते ।। ११-६३ ।।
प्रतिग्रहनिवृत्ता ये परान्नविमुखास्तथा ।।
अन्नोदकप्रदातारो वहंति सततं हि माम् ।। ११-६४ ।।
त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता ।।
संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम् ।। ११-६५ ।।
इत्युक्त्वा देवेदेवशो ह्यदितिं देवमातरम् ।।
दत्त्वा कण्ठगतां मालामभयं च तिरोदधे ।। ११-६६ ।।
सा तु संहृष्टमनसा देवसूर्दक्षनन्दिनी ।।
प्रणम्य कमलाकान्तं पुनः स्वस्थानमाव्रजत् ।। ११-६७ ।।
ततोऽदितिर्महाभागा सुप्रीता लोकवन्दिता ।।
असूत समये पुत्रं सर्वलोकनमस्कृतम् ।। ११-६८ ।।
शङ्गचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् ।।
सुधाकलशदध्यन्नकरं वामनसंज्ञितम् ।। ११-६९ ।।
सहस्त्रादित्यसंकाशं व्याकोशकमलेक्षणम् ।।
सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम् ।। ११-७० ।।
स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् ।।
आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः ।।
प्रणम्य प्रञ्जलिर्भूत्वा स्तोतुं समुपचक्रमे ।। ११-७१ ।।
कश्यप उवाच ।।
नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखइलपालकाय ।।
नमोनमस्तेऽमरनायकाय नमोनमो दैतेयविनाशनाय ।। ११-७२ ।।
नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरंजिताय ।।
नमोनमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय ।। ११-७३ ।।
नमोनमः कारणवामनाय नारायणायामितविक्रमाय ।।
सशार्ङ्गचक्रासिगदाधाराय नमोऽस्तु तस्मै पुरुषोत्तमाय ।। ११-७४ ।।
नमः पयोराशिनिवासनाय नमोऽस्तु सद्धृत्कमलस्थिताय ।।
नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय ।। ११-७५ ।।
नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ।।
नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ।। ११-७६ ।।
नमो जगत्कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ।।
नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ।। ११-७७ ।।
नमोऽस्तु ते ध्वान्तविनाशकाय नमोऽस्तु शब्दादिविवर्जिताय ।।
नमोऽस्तु ते ध्वान्तविनाशकाय मन्दरधारकाय ।।
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ।। ११-७८ ।।
नमोऽस्तु ते वामनरुपभाजे नमोऽस्तु ते क्षत्र्रकुलान्तकाय ।।
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ।। ११-७९ ।।
नमस्ते कमलाकान्त नमस्ते सुखदायिने ।।
स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः ।। ११-८० ।।
यज्ञेश यज्ञविन्यास यज्ञविन्घविनाशन ।।
यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ।। ११-८१ ।।
इति स्तुतः स देवेशो वामनो लोकपावनः ।।
उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः ।। ११-८२ ।।
श्रीभगवानुवाच ।।
तात तुष्टोऽस्मि भद्रं ते भविष्यति सुरार्चिता ।।
अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम् ।। ११-८३ ।।
अहं जन्मद्वये त्वेवं युवयोः पुत्रतां गतः ।।
अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम् ।। ११-८४ ।।
अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् ।।
आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः ।। ११-८५ ।।
तस्मिन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः ।।
हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्यवादिभिः ।। ११-८६ ।।
प्रवृद्धैश्वर्यर्दैत्यस्य वर्त्तमाने महाक्रतौ ।।
आमंत्र्य मातापितरौ स बटुर्वामनो ययौ ।। ११-८७ ।।
स्मितेन मोहयँल्लोकं वामनो भक्तवत्सलः ।।
हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः ।। ११-८८ ।।
दुर्वृत्तो वा सुवृत्तो वा जडो वायं हितोऽपि वा ।।
यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः ।। ११-८९ ।।
आयान्तं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षुषः ।।
ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः ।। ११-९० ।।
एतज्ज्ञात्वा दैत्यगुरुरेकांते बलिमब्रवीत् ।।
स्वसारमविचार्यैव खलाः कार्याणि कुर्वते ।। ११-९१ ।।
शुक्र उवाच ।।
भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् ।।
विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः ।। ११-९२ ।।
तवाध्वरं स आयाति त्वया तस्यासुरेश्वर ।।
न किंचिदपि दातव्यं मन्मतं श्रृणु पण्डित ।। ११-९३ ।।
आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः ।।
परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयंकरी ।। ११-९४ ।।
शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः ।। ११-९५ ।।
बलिरुवाच ।।
एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः ।।
यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम् ।। ११-९६ ।।
कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् ।।
स चेत्साक्षाद्धविर्भोगी मत्तः कोऽभ्यधिको भुवी ।। ११-९७ ।।
दरिद्रेणापि यत्किंचिद्दीयते विष्णवे गुरो ।।
तदेव परमं दानं दत्तं भवति चाक्षयम् ।। ११-९८ ।।
स्मृतोऽपि परया भक्त्या पुनाति पुरुषोत्तमः ।।
येन केनाप्यर्चितश्वेद्ददाति परमां गतिम् ।। ११-९९ ।।
हरिर्हरति पापानिदुष्टचित्तैरपि स्मृतः ।।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ।। ११-१०० ।।
जिह्वाग्रे वसते यस्य हरिरित्यक्षरद्वयम् ।।
स विष्णुलोकमाप्नोति पुनरावृत्तिदुर्लभम् ।। ११-१ ।।
गोविंदेति सदा ध्यायेद्यस्तु रागादिवर्जितः ।।
स याति विष्णुभवनमिति प्राहुर्मनीषिणः ।। ११-२ ।।
अग्नौ वा ब्राह्मणे वापिहूयते यद्वविर्गुरो ।।
हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति ।। ११-३ ।।
अहं तु हरितुष्यद्यर्थं करोम्यध्वरमुत्तमम् ।।
स्वयमायाति चेद्विष्णुः कृतार्थोऽस्मि न संशयः ।। ११-४ ।।
एवं वदति दैत्यन्द्रे विष्णुर्वामनरुपधृक् ।।
प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम् ।। ११-५ ।।
तं दृष्ट्वा कोटिसूर्याभं योग्यावयवसुन्दरम् ।।
वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः ।। ११-६ ।।
दत्त्वासनं च प्रक्षाल्य पादौ वामनरुपिणम् ।।
सकुटुंबो वहन्मूर्ध्ना परमां मुदमाप्तवान् ।। ११-७ ।।
विष्णवेऽस्मै जगद्धान्मे दत्त्वार्घ्यं विधिवद्कलिः ।।
रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनोऽब्रवीत् ।।
बलिरुवाच ।। ११-८ ।।
अद्य मे सफलं जन्म अद्य मे सफलो मरवः ।।
जीवितं सफलं मेऽद्य कृतार्थोऽस्मि न संशयः ।। ११-९ ।।
अमोघामृतवृष्टिर्मे समायातातिदुर्लभा ।।
त्वदागमनमात्रेण ह्यनायासो महोत्सवः ।। ११-११० ।।
एते च ऋषयः सर्वे कृतार्थां नात्र संशयः ।।
यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो ।। ११-११ ।।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।।
तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।। ११-१२ ।।
त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः ।।
अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो ।। ११-१३ ।।
एवमुर्को दीक्षितेन प्रहसन्वामनोऽब्रवीत् ।।
देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम् ।। ११-१४ ।।
एतच्छॄत्वा बलिः प्राह राज्यं याचितवान्नहि ।।
ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया ।। ११-१५ ।।
तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् ।।
आसन्नभ्रष्टराज्यस्य वैराग्यं जनयन्निवा ।। ११-१६ ।।
श्रीभगवानुवाचा ।।
श्रृणु दैत्यन्द्र वक्ष्यामि गुह्याद्गुह्यतमं परम् ।।
सर्वसंगविहीनानां किमर्थैः साध्यतेवद ।। ११-१७ ।।
अहं तु सर्वभूतानामन्तर्यामीति भावय ।।
मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद ।। ११-१८ ।।
रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् ।।
नित्यानंदस्वरुपाणां किमन्यैः साध्यते धनैः ।। ११-१९ ।।
आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् ।।
अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ।। ११-१२० ।।
पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् ।।
तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम् ।। ११-२१ ।।
दातव्यो मुनिभिश्चापि षष्टांशो भूभुजे बले ।।
महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः ।। ११-२२ ।।
भूमिदानस्य माहात्म्यं न भूतं न भविष्यति ।।
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ।। ११-२३ ।।
स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ।।
ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ।। ११-२४ ।।
भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ।।
अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम् ।। ११-२५ ।।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।।
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते ।। ११-२६ ।।
सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ।।
भूमिदानसमं नान्यत्त्रिषु लोकेषु विद्यते ।। ११-२७ ।।
द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले ।।
तस्य पुण्यफलं वक्तुं न क्षमोऽब्दशतैरहम् ।। ११-२८ ।।
सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप ।।
स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः ।। ११-२९ ।।
इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता ।।
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ।। ११-१३० ।।
वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने ।।
स्वल्पामपि महींदत्त्वा विष्णुसायुज्यमान्पुयात् ।। ११-३१ ।।
सक्ताय देवपूजासु विप्रायाढकिकां महीम् ।।
दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम् ।। ११-३२ ।।
विप्राय वृत्तिहीनाय सदाचाररताय च ।।
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते श्रृणु ।। ११-३३ ।।
गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः ।।
कृत्वा यत्फलमाप्वोति तदाप्नोति स पुष्कलम् ।। ११-३४ ।।
ददाति खारिकां भूमिं दरिद्राय द्विजाय यः ।।
तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय ।। ११-३५ ।।
अश्वमेधसहस्त्राणि वाजपेयशतानि च ।।
विधाय जाह्नवीतीरे यत्फलं तल्लभेद्धुवम् ।। ११-३६ ।।
भूमिदानं महादानमतिदानं प्रकीर्त्तितम् ।।
सर्वपापप्रशमनमपवर्गफलप्रदम् ।। ११-३७ ।।
अत्रोतिहासं वक्ष्यामि श्रृणु दैत्यकुलेश्वर ।।
यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ।। ११-३८ ।।
आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः ।।
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले ।। ११-३९ ।।
श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् ।।
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ।। ११-१४० ।।
अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती ।।
कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः ।। ११-४१ ।।
आसु पत्नीषु तस्यासञ्चत्वरिंशच्छतद्वयम् ।।
पुत्राणामसुरश्रेष्ट सर्वे नित्यं बुभुक्षिताः ।। ११-४२ ।।
अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः ।।
पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः ।। ११-४३ ।।
धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ।।
धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम् ।। ११-४४ ।।
नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवार्जितम् ।।
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ।। ११-४५ ।।
दारिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ।।
प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा ।। ११-४६ ।।
शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवार्जितम् ।।
चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ।। ११-४७ ।।
दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ।।
अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः ।। ११-४८ ।।
गुणहीनोऽपि गुणवान्मूर्खो वाप्यथ पण्डितः ।।
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ।। ११-४९ ।।
अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ।।
आशाभिभूताः पुरुषा दुःखमश्नुवतेऽक्षयम् ।। ११-१५० ।।
आशयादासा ये दासास्ते सर्वलोकस्य ।।
आशा दासी येषां तेषां दासायते लोकः ।। ११-५१ ।।
मानो हि महतां लोके धनमक्षयमुच्यते ।।
तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता ।। ११-५२ ।।
सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ।।
नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचकः ।। ११-५३ ।।
अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ।।
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम् ।। ११-५४ ।।
एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ।।
अन्यमैश्वर्यदं धर्मं मनसाऽचिन्तयत्तदा ।। ११-५५ ।।
भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ।।
दानेन योऽनुमंताति स एव कृतवान्पुरा ।। ११-५६ ।।
प्रापकं परमं धर्मं सर्वकामफलप्रदम् ।।
दानानामुत्तमं दानं भूदानं परिकीर्तितम् ।। ११-५७ ।।
यद्दत्त्वा समवान्पोति यद्यदिष्टतमं नरः ।।
इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले ।। ११-५८ ।।
कौशाम्बींनाम नगरीं कलत्रापत्ययुग्ययौ ।।
सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्एविलितम् ।। ११-५९ ।।
गत्वा याचितवान्भूमिं पञ्चहस्तायतां बले ।।
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम् ।। ११-१६० ।।
मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् ।।
कृतार्थोऽहं भद्रमते सफलं मम जन्म च ।। ११-६१ ।।
मत्कुल पावनं जातं त्वदनुग्रहतो द्विज ।।
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ।। ११-६२ ।।
पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः ।।
पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता ।। ११-६३ ।।
पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ।।
मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम् ।। ११-६४ ।।
विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ।।
सोऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम् ।। ११-६५ ।।
दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने ।।
सुघोषो भूमिदानेन कोटिवंशसमन्वितः ।। ११-६६ ।।
प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ।।
बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम् ।। ११-६७ ।।
स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् ।।
तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम् ।। ११-६८ ।।
ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् ।।
ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः ।। ११-६९ ।।
जातिस्मरो महाभागो बुभुजे भोगमुत्तमम् ।।
ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः ।। ११-१७० ।।
पृथिवीं वृत्तिहीनेभ्यो ब्राह्मणेभ्यः प्रदत्तवान् ।।
तस्य विष्णुः प्रसन्नात्मा तत्त्वैश्वर्यमनुत्तमम् ।। ११-७१ ।।
कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् ।।
तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण ।। ११-७२ ।।
तपश्चरिष्येमोक्षाय देहि मे त्रिपदां महीम् ।।
वैरोचनिस्ततो दृष्टः कलशं जलपूरितम् ।। ११-७३ ।।
आददे पृथिवीं दातुं वर्णिने वामनाय ।।
विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम् ।। ११-७४ ।।
काव्यं हस्तस्थदर्भाग्रं तच्छरे संन्यवेशयत् ।।
दर्भाग्रेऽभून्महाशस्त्रं कोटिसूर्यसमप्रभम् ।। ११-७५ ।।
अमोघं ब्राह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् ।।
आयाय भार्गवसुरानसुरानेकचक्षुषा ।। ११-७६ ।।
पश्येति वांदिदेशे च दर्भाग्रं शस्त्रसन्निभम् ।।
बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम् ।। ११-७७ ।।
ववृधे सोऽपि विश्वात्मा आब्रह्यभुवनं तदा ।।
अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः ।। ११-७८ ।।
स आब्रह्मकटाहांतपदान्येतानि सप्रभः ।।
पादाङ्गुष्ठाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा ।। ११-७९ ।।
तद्दारा बाह्यसलिलं बहुधारं समागतम् ।।
धौतविष्णुपदं तोयं निर्मलं लोकपावनम् ।। ११-१८० ।।
अजाण्डबाह्यनिलयं धारारुपमवर्त्तत ।।
तज्जलं पावनं श्रेष्टं ब्रह्मादीन्पावयत्सुरान् ।। ११-८१ ।।
सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि ।। ११-८२ ।।
एतद्दष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः ।।
ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः ।। ११-८३ ।।
देव ऊचुः ।।
नमः परेशाय परात्मरुपिणे परात्परायापररुपधारिणे ।।
ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमोऽस्तु तेऽव्याहतकर्मशीलिने ।। ११-८४ ।।
परेश परमानन्द परमात्मन्परात्पर ।।
सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः ।। ११-८५ ।।
विश्वतश्चक्षुषे तुभ्यं विश्वतो बाहवे नमः ।।
विश्वतः शिरसे चैव विश्वतो गतये नमः ।। ११-८६ ।।
एवं स्तुतो महाविष्णुर्ब्रह्याद्यैः स्वर्द्दवौकसाम् ।।
दत्त्वाभयं च मुमुदे देवदेवः सनातनः ।। ११-८७ ।।
विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह ।।
ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् ।।
ददौ तद्वारपालश्च भक्तवश्यो बभूव ह ।। ११-८८ ।।
नारद उवाच ।।
रसातले महाविष्णुर्विरोचनसुतस्य वै ।।
किं भोज्यं कल्पयामास घोरे सर्पभयाकुले ।। ११-८९ ।।
सनक उवाच ।।
अमन्त्रितं हविर्यत्तु हूयते जातवेदसि ।।
अपात्रे दीयते यच्च तद्धोरं भोगसाधनम् ।। ११-१९० ।।
हुतं हविरशुचिना दृत्तं सत्कर्म यत्कृतम् ।।
तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम् ।। ११-९१ ।।
एवं रसातलं विष्णुर्बलये सासुराय तु ।।
दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ ।। ११-९२ ।।
पूज्यमानोऽमरगणैः स्तूयमानो महर्षिभिः ।।
गंधर्वैर्गीयमानश्च पुनर्वामनतां गतः ।। ११-९३ ।।
एतद्दृष्ट्वा महत्कर्ममुनयो ब्रह्मवादिनः ।।
परस्परं स्मितमुखाः प्रणेभुः पुरुषोत्तमम् ।। ११-९४ ।।
सर्वभूतात्मको विष्णुर्वामनत्वमुपागतः ।।
मोहयन्निखिलं लोकं प्रपेदे तपसे वनम् ।। ११-९५ ।।
एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा ।।
यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः ।। ११-९६ ।।
इदं तु गङ्गामाहात्म्यं यः पठेच्छृणुयादपि ।।
देवालये नदीतीरे सोऽश्वमेधफलं लभेत् ।। ११-९७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैकादशोऽध्यायः ।।