महाभारतम्-06-भीष्मपर्व-002
← भीष्मपर्व-001 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-002 वेदव्यासः |
भीष्मपर्व-003 → |
श्रीव्यासेन धृतराष्ट्रंप्रति युद्धदर्शनाय चक्षुर्दानकथनम् ।। 1 ।।
धृतराष्ट्रेण युद्धश्रवणमात्रे प्रार्थिते व्यासेन सञ्जयंप्रति युद्धिविषये सार्वज्ञदानपूर्वकं युद्धप्रकारकथननियोगः ।। 2 ।
व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ।। 3 ।।
|
वैशंपायन उवाच। | 6-2-1x |
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः। सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ।। | 6-2-1a 6-2-1b |
भविष्यति रणे घोरे भरतानां पितामहः । प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ।। | 6-2-2a 6-2-2b |
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् । शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ।। | 6-2-3a 6-2-3b |
व्यास उवाच। | 6-2-4x |
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः। ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ।। | 6-2-4a 6-2-4b |
तेषु कालपरीतेषु विनश्यत्स्वेव भारत । कालपर्यायमाहाय मा स्म शोके मनः कृथा ।। | 6-2-5a 6-2-5b |
यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते । चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ।। | 6-2-6a 6-2-6b |
धृतराष्ट्र उवाच। | 6-2-7x |
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम। | 6-2-7a |
युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ।। | 6-2-7a |
वैशंपायन उवाच। | 6-2-8x |
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति। वराणामीश्वरो व्यासः संजयाय वरं ददौ ।। | 6-2-8a 6-2-8b |
व्यास उवाच। | 6-2-9x |
एष ते संजयो राजन्युद्धमेतद्वदिष्यति। एतस्य सर्वं संग्रामे न परोक्षं भविष्यति ।। | 6-2-9a 6-2-9b |
चक्षुषा संजयो राजन्दिव्येनैव समन्वितः । कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ।। | 6-2-10a 6-2-10b |
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि । मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ।। | 6-2-11a 6-2-11b |
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः । गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ।। | 6-2-12a 6-2-12b |
अहं तु कीर्तिमेतेषां करूणां भरतर्षभ । पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ।। | 6-2-13a 6-2-13b |
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि । न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ।। | 6-2-14a 6-2-14b |
वैशंपायन उवाच। | 6-2-15x |
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः । पुनरेव महाभागो धृतराष्ट्रमुवाच ह ।। | 6-2-15a 6-2-15b |
इह युद्धे महाराज भविष्यति महान्क्षयः । तथेह च निमित्तानि भयदान्युपलक्षये ।। | 6-2-16a 6-2-16b |
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः । संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ।। | 6-2-17a 6-2-17b |
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः । क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ।। | 6-2-18a 6-2-18b |
कटाकटेति वाशन्तो भैरवा भयवेदिनः । कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ।। | 6-2-19a 6-2-19b |
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत । उदयास्तमने सूर्यं कबन्धैः परिवारितम् ।। | 6-2-20a 6-2-20b |
श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः । त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ।। | 6-2-21a 6-2-21b |
ज्वलितार्के .......त्रं निर्विशेषदिनक्षपम् । चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले । | 6-2-22a 6-2-22b |
आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् । चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ।। | 6-2-23a 6-2-23b |
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः । राजानो राजपुत्राश्च शूराः परिघबाहवः ।। | 6-2-24a 6-2-24b |
अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः। प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ।। | 6-2-25a 6-2-25b |
देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च। वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च।। | 6-2-26a 6-2-26b |
अनाहता दुन्दुभयः प्रणदन्ति विशांपते । अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ।। | 6-2-27a 6-2-27b |
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा । सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ।। | 6-2-28a 6-2-28b |
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः । अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ।। | 6-2-29a 6-2-29b |
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते। पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ।। | 6-2-30a 6-2-30b |
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता। अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ।। | 6-2-31a 6-2-31b |
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः । व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ।। | 6-2-32a 6-2-32b |
अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् । वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ।। | 6-2-33a 6-2-33b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि द्वितीयोऽध्यायः ।। |
6-2-2 भविष्यति भाविनि ।। 6-2-4 हिंसन्तीव नाशयिष्यन्त्येव ।। 6-2-5 पर्यायं वैपरीत्यम् ।। 6-2-6 निशामय पश्य ।। 6-2-17 समवायान् संघान् ।। 6-2-18 अभ्यग्रं समीपम् । क्रव्यादामांसभक्षकाः ।। 6-2-19 वाशन्तः शब्दं कुर्वन्तः ।। 6-2-21 परिघाः परिवेषाः कृष्णग्रीवाः मध्ये कृष्णाः श्वेतलोहितपर्यन्ताश्च संधौ संध्यायाम् आवारयन्ति वेष्टयन्ति ।। 6-2-22 निर्विशेषदिनक्षयं इति झo पाठे निर्विशेषदिनक्षयं अहोरात्रम्। निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् । सूर्योदयद्वयस्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम्। तदेव विशिनष्टि ज्वलितेति। अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन्। दर्से क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ।। 6-2-23 पद्मवर्णे रक्तपद्मवर्णे ।। 6-2-27 अयुक्ताः अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति। महान्तो रथाः महारथाः । मनोरथा इति कo पाठः ।। 6-2-29 गृहीतशस्त्रः आत्तलोहाः लोहतुण्डा इति यावत् शस्त्रमायुधलोहयोरित्यमरः। चर्मिणो भृङ्गरिटिसंज्ञाः कृष्णशलभविशेषाः ।।
भीष्मपर्व-001 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-003 |