महाभारतम्-06-भीष्मपर्व-088
← भीष्मपर्व-087 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-088 वेदव्यासः |
भीष्मपर्व-089 → |
भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम् ।। 1 ।।
|
सञ्जय उवाच। | 6-88-1x |
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः। न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ।। | 6-88-1a 6-88-1b |
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ।। | 6-88-2a 6-88-2b |
स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् । पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ।। | 6-88-3a 6-88-3b |
ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह। भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ।। | 6-88-4a 6-88-4b |
स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि । चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ।। | 6-88-5a 6-88-5b |
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव। पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ।। | 6-88-6a 6-88-6b |
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् । अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ।। | 6-88-7a 6-88-7b |
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशांपते। अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ।। | 6-88-8a 6-88-8b |
स हि भीष्मं समासाद्य छादयामास सायकैः । ततो निष्टानको घोरो भीष्मभीमसमागमे ।। | 6-88-9a 6-88-9b |
बभूव सर्वसैन्यानां घोररूपो भयानकः । तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ।। | 6-88-10a 6-88-10b |
ततो दुर्योधनो राजा सोदर्यैः परिवारितः। भीष्मं जुगोप समरे वर्तमाने जनक्षये ।। | 6-88-11a 6-88-11b |
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः। प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ।। | 6-88-12a 6-88-12b |
सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत । क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ।। | 6-88-13a 6-88-13b |
हते तस्मिन्महाराज तव पुत्रे महारथे । नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ।। | 6-88-14a 6-88-14b |
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ।। | 6-88-15a 6-88-15b |
पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः । अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ।। | 6-88-16a 6-88-16b |
महोदरस्तु समरे भीमं विव्याध पत्रिभिः । नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा ।। | 6-88-17a 6-88-17b |
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः । नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ।। | 6-88-18a 6-88-18b |
अपराजितो महाराज पराजिष्णुर्महारथम् । शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ।। | 6-88-19a 6-88-19b |
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्। स तं न ममृषे भीमः शत्रुभिर्वधमाहवे।। | 6-88-20a 6-88-20b |
धनुः प्रपीड्य वामेन करेणामित्रकर्सनः । शिरश्चिच्छेद समरे शरेणानतपर्वणा ।। | 6-88-21a 6-88-21b |
अपराजितस्य सुनसं तव पुत्रस्य संयुगे । पराजितस्य भीमेन कृत्तं गामपतच्छिरः ।। | 6-88-22a 6-88-22b |
अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ।। | 6-88-23a 6-88-23b |
ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् । प्रेषयामास समरे पण्डितं प्रति भारत।। | 6-88-24a 6-88-24b |
स शरः पण्डितं हत्वा विवेश धरणीतलम् । यथा नरं निहत्याशु भुजगः कालचोदितः ।। | 6-88-25a 6-88-25b |
विशालाक्षशिरश्छित्त्वा पातयामास भूतले। त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ।। | 6-88-26a 6-88-26b |
महोदरं महेष्वासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतद्भुवि ।। | 6-88-27a 6-88-27b |
आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे । भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ।। | 6-88-28a 6-88-28b |
बह्वाशिनं तत भीमः शरेणानतर्वणा । प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ।। | 6-88-29a 6-88-29b |
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ।। | 6-88-30a 6-88-30b |
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः। अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ।। | 6-88-31a 6-88-31b |
एवमेते महेष्वासाः पुत्रास्त्व विशांपते । भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ।। | 6-88-32a 6-88-32b |
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् । तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ।। | 6-88-33a 6-88-33b |
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप। न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ।। | 6-88-34a 6-88-34b |
तथैव च वधार्थाय पुत्राणां पाण्डवो बली। नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ।। | 6-88-35a 6-88-35b |
ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे। दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ।। | 6-88-36a 6-88-36b |
निहता भ्रातरः शूरा भीमसेनेन मे युधि। यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ।। | 6-88-37a 6-88-37b |
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते। सोऽहं कुपथमारूढः पश्य दैवमिदं मम ।। | 6-88-38a 6-88-38b |
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव। दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ।। | 6-88-39a 6-88-39b |
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च । गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ।। | 6-88-40a 6-88-40b |
समयश्च मया पूर्वं कृतो वै शत्रुकर्शन । नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना ।। | 6-88-41a 6-88-41b |
यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ।। | 6-88-42a 6-88-42b |
स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् । योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ।। | 6-88-43a 6-88-43b |
न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः । तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ।। | 6-88-44a 6-88-44b |
।। इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे अष्टाशीतितमोऽध्यायः ।। |
भीष्मपर्व-087 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-089 |