महाभारतम्-06-भीष्मपर्व-064

← भीष्मपर्व-063 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-064
वेदव्यासः
भीष्मपर्व-065 →

भीमेन दुर्योधनानुजाष्टकवधः ।। 1 ।। घटोत्कचभयेन कुरुभिः सेनावहारः ।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः।
प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम् ।।
6-64-1a
6-64-1b
कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः।
अवारयदमेयात्मा सर्वलोकस्य पश्यतः।।
6-64-2a
6-64-2b
ततो दुर्योधनो राजा सोदर्यैः परिवारितः।
सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ।।
6-64-3a
6-64-3b
तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे।
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ।।
6-64-4a
6-64-4b
भीमसेनस्तु संक्रुद्धो गजामुद्यम्य भारत ।
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ।।
6-64-5a
6-64-5b
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ।।
6-64-6a
6-64-6b
विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः ।
दुर्योधनस्तदा राजन्भीमसेनं महारथम् ।।
6-64-7a
6-64-7b
आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः ।
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ।।
6-64-8a
6-64-8b
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ।
एते महारथाः शूरा धार्तराष्ट्राः समागताः ।।
6-64-9a
6-64-9b
मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि।
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ।।
6-64-10a
6-64-10b
सफलः सूत चाद्येह योऽहं पश्यामि सोदरान्।
यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ।।
6-64-11a
6-64-11b
प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे ।
तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ।।
6-64-12a
6-64-12b
भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः ।
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ।।
6-64-13a
6-64-13b
तस्मान्ममाश्वान्संग्रमे यत्तः संयच्छ सारथे।
एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते ।।
6-64-14a
6-64-14b
विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः।
नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ।।
6-64-15a
6-64-15b
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्।
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ।।
6-64-16a
6-64-16b
भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् ।
मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ।।
6-64-17a
6-64-17b
समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः ।
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ।।
6-64-18a
6-64-18b
अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् ।
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ।।
6-64-19a
6-64-19b
समादधत्सुसंक्रुद्धः क्षुरप्रं रोमवाहिनम् ।
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ।।
6-64-20a
6-64-20b
सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः ।
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ।।
6-64-21a
6-64-21b
संदधे विशिखं घोर कालमृत्युसमप्रभम् ।
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ।।
6-64-22a
6-64-22b
स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत्।
स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ।।
6-64-23a
6-64-23b
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ।।
6-64-24a
6-64-24b
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ।।
6-64-25a
6-64-25b
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।।
6-64-26a
6-64-26b
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः।
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ।।
6-64-27a
6-64-27b
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ।।
6-64-28a
6-64-28b
उद्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ।।
6-64-29a
6-64-29b
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ।।
6-64-30a
6-64-30b
पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।
सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ।।
6-64-31a
6-64-31b
अभिपत्य महाबाहुर्गरुत्मानिव वेगितः।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ।।
6-64-32a
6-64-32b
संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः ।
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ।।
6-64-33a
6-64-33b
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे।
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ।।
6-64-34a
6-64-34b
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्।
वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ।।
6-64-35a
6-64-35b
निनाय समरे वीरः परलोकाय पाण्डवः।
भीमं भीमरथं चोभौ भीमसेनो हसन्निव ।।
6-64-36a
6-64-36b
पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् ।
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ।।
6-64-37a
6-64-37b
मिषतां सर्वसैन्यानामनयद्यमसादनम्।
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ।।
6-64-38a
6-64-38b
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः।
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ।।
6-64-39a
6-64-39b
ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्।
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ।।
6-64-40a
6-64-40b
यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च संगतान्।
निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ।।
6-64-41a
6-64-41b
एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः।
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ।।
6-64-42a
6-64-42b
भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते ।
अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ।।
6-64-43a
6-64-43b
आपतन्नेव च रणे भीमसेनं शिलीमुखैः ।
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ।।
6-64-44a
6-64-44b
अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः ।
भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ।।
6-64-45a
6-64-45b
त एनं शरवर्षेण समन्तात्पर्यवारयन् ।
गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ।।
6-64-46a
6-64-46b
स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः।
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ।।
6-64-47a
6-64-47b
संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ।।
6-64-48a
6-64-48b
संचोदितो मदस्रावी भगदत्तेन वारणः।
अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ।।
6-64-49a
6-64-49b
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्।
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ।।
6-64-50a
6-64-50b
असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् ।
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ।।
6-64-51a
6-64-51b
आजघान महाराज शरेणानतपर्वणा।
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः ।
6-64-52a
6-64-52b
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्।
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ।।
6-64-53a
6-64-53b
ननाद बलवन्नादं भगदत्तः प्रतापवान्।
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं ।।
6-64-54a
6-64-54b
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत।
स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ।।
6-64-55a
6-64-55b
अदृश्यत निमेषार्धाद्धोररूपं समास्थितः।
ऐरावतं समारूढः स वै मायाकृतं स्वयम् ।।
6-64-56a
6-64-56b
तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः।
अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ।।
6-64-57a
6-64-57b
त्रय एते महानागा राक्षसैः समधिष्ठिताः।
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ।।
6-64-58a
6-64-58b
तेजोवीर्यबलोपेता महाबलपराक्रमाः।
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ।।
6-64-59a
6-64-59b
सगजं भगदत्तं तु हन्तुकामः परंतपः।
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ।।
6-64-60a
6-64-60b
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्।
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ।।
6-64-61a
6-64-61b
स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः।
अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ।।
6-64-62a
6-64-62b
`व्यवर्तत महाघोषो भैमसेनिशरार्दितः ।
मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत'।।
6-64-63a
6-64-63b
तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् ।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ।।
6-64-64a
6-64-64b
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना।
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ।।
6-64-65a
6-64-65b
राक्षसश्च महामायः स च राजाऽतिकोपनः ।
एतौ समेतौ समरे कालमृत्युसमावुभौ ।।
6-64-66a
6-64-66b
श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः ।
हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ।।
6-64-67a
6-64-67b
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ।।
6-64-68a
6-64-68b
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।
महान्हि वर्तते रौद्रः संग्रामो रोमहर्षणः ।।
6-64-69a
6-64-69b
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ।।
6-64-70a
6-64-70b
भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः ।
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ।।
6-64-71a
6-64-71b
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्।
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ।।
6-64-72a
6-64-72b
पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्।
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ।।
6-64-73a
6-64-73b
ननाद सुमहानादं विस्फोटमशनेरिव ।
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ।।
6-64-74a
6-64-74b
भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ।
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना ।।
6-64-75a
6-64-75b
बलवीर्यमसाविष्टः ससहायश्च सांप्रतज् ।
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ।।
6-64-76a
6-64-76b
लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः।
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ।।
6-64-77a
6-64-77b
इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः ।
अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते।
अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ।।
6-64-78a
6-64-78b
6-64-78c
पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः ।
उपायेनापयानं ते घटोत्कचभयार्दिताः ।।
6-64-79a
6-64-79b
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ।।
6-64-80a
6-64-80b
एवं तदभवद्युद्धं दिवसं भरतर्षभ ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ।।
6-64-81a
6-64-81b
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्।
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ।।
6-64-82a
6-64-82b
शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः।
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ।।
6-64-83a
6-64-83b
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ।
पूजयन्तस्तदान्योन्यं मुदा परमया युताः ।।
6-64-84a
6-64-84b
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।
सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ।।
6-64-85a
6-64-85b
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ।
6-64-86a
6-64-86b
प्रयाताः शिबिरायैव निशाकाले परंतप ।
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ।।
6-64-87a
6-64-87b
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः।
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ।।
6-64-88a
6-64-88b
6-64-88c
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे चतुःषष्टितमोऽध्यायः ।।
।। इति चतुर्थदिवसयुद्धं समाप्तम् ।।

सम्पाद्यताम्

6-64-47 सुतेजनैर्बाणैरिति शेषः ।। 6-64-85 घट्टयन्तः स्पृशन्तः ।।

भीष्मपर्व-063 पुटाग्रे अल्लिखितम्। भीष्मपर्व-065