महाभारतम्-06-भीष्मपर्व-074
← भीष्मपर्व-073 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-074 वेदव्यासः |
भीष्मपर्व-075 → |
भूरिश्रवसा सात्यकिपुत्रदशकवधः ।। 1 ।। सात्यकिभूरिश्रवसोयुर्द्धम् ।। 2 ।।
|
सञ्जय उवाच। | 6-74-1x |
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः। विकृष्य चापं समरे भारसाहमनुत्तमम् ।। | 6-74-1a 6-74-1b |
यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् । प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम्। प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ।। | 6-74-2a 6-74-2b 6-74-2c |
तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः। आददानस्य भूयश्च संदधानस्य चापरान् ।। | 6-74-3a 6-74-3b |
क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः। ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ।। | 6-74-4a 6-74-4b |
तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः । रथानामयुतं तस्य प्रेषयामास भारत ।। | 6-74-5a 6-74-5b |
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः । जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ।। | 6-74-6a 6-74-6b |
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः। आससाद ततो वीरो भूरिश्रवसमाहवे।। | 6-74-7a 6-74-7b |
स हि संदृश्य सेनां ते युयुधानेन पातिताम् । अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ।। | 6-74-8a 6-74-8b |
इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः । सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान् ।। | 6-74-9a 6-74-9b |
सहस्रशो माहाराज दर्शयन्पाणिलाघवम् । शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ।। | 6-74-10a 6-74-10b |
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः । विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ।। | 6-74-11a 6-74-11b |
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः । महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ।। | 6-74-12a 6-74-12b |
समासाद्य महेष्वासं भूरिश्रवसमाहवे। ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ।। | 6-74-13a 6-74-13b |
भोभो कौरवादायाद सहास्माभिर्महाबल । एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ।। | 6-74-14a 6-74-14b |
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ।। | 6-74-15a 6-74-15b |
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः । वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ।। | 6-74-16a 6-74-16b |
साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः। युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ।। | 6-74-17a 6-74-17b |
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः । महता शरवर्षेण अभ्यधावन्नरिन्दमम् ।। | 6-74-18a 6-74-18b |
सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत्। एकस्य च बहूनां च समेतानां रणाजिरे ।। | 6-74-19a 6-74-19b |
तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् । प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ।। | 6-74-20a 6-74-20b |
तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् । असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः ।। | 6-74-21a 6-74-21b |
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् । यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ।। | 6-74-22a 6-74-22b |
विसृज्य शरवृष्टिं तां दश राजन्महारथाः । परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ।। | 6-74-23a 6-74-23b |
समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत । चिच्छेद समरे राजन्युध्यमानो महारथैः ।। | 6-74-24a 6-74-24b |
अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः । चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ।। | 6-74-25a 6-74-25b |
ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः । तान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ।। | 6-74-26a 6-74-26b |
वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात्। रथं रथेन समरे पीडयित्वा महाबलौ ।। | 6-74-27a 6-74-27b |
तावन्योन्यं हि समरे निहत्य रथवाजिनः । विरथावभिवल्गन्तौ समेयातां महारथौ ।। | 6-74-28a 6-74-28b |
प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ । शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ।। | 6-74-29a 6-74-29b |
असह्यमसियुद्धाय भूरिश्रवसमाहवे। मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ।। | 6-74-30a 6-74-30b |
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् । भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ।। | 6-74-31a 6-74-31b |
तवापि तनयो राजन्भूरिश्रवसमाहवे। आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ।। | 6-74-32a 6-74-32b |
तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम्। अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ।। | 6-74-33a 6-74-33b |
लोहितायति चादित्ये त्वरमाणो धनञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ।। | 6-74-34a 6-74-34b |
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे । संप्राप्यैव गता नाशं शलभा इव पावकम् ।। | 6-74-35a 6-74-35b |
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः । परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ।। | 6-74-36a 6-74-36b |
एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति। सर्वेषां चैव सैन्यानां प्रमोहः समजायत ।। | 6-74-37a 6-74-37b |
अवहारं ततश्चक्रे पिता देवव्रतस्तव । संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ।। | 6-74-38a 6-74-38b |
पाण्डवानां कुरूणां च परस्परसमागमे। ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ।। | 6-74-39a 6-74-39b |
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत। पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ।। | 6-74-40a 6-74-40b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प?ञ्चमदिवसयुद्धए चतुःसप्ततितमोऽध्यायः ।। |
भीष्मपर्व-073 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-075 |