महाभारतम्-06-भीष्मपर्व-059

← भीष्मपर्व-058 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-059
वेदव्यासः
भीष्मपर्व-060 →

स्वप्रतिज्ञां विहाय गृहीतचक्रेम कृष्णेन पादचारेम भीष्मं हन्तुमभियानम् ।। 1 ।। अर्जुनेन कृष्णस्य प्रतिनिवर्तनम् ।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
धृतराष्ट्र उवाच। 6-59-1x
प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे।
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ।।
6-59-1a
6-59-1b
भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत।
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ।।
6-59-2a
6-59-2b
स़ञ्जय उवाच। 6-59-3x
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत।
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ।।
6-59-3a
6-59-3b
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु।
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।।
6-59-4a
6-59-4b
अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् ।
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ।।
6-59-5a
6-59-5b
प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् ।
अस्माकं पाण्डवैः सार्धमनायात्तव भारत ।।
6-59-6a
6-59-6b
घनुषां कूजतां तत्र तलानां चाभिहन्यताम्।
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ।।
6-59-7a
6-59-7b
तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव।
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ।।
6-59-8a
6-59-8b
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च।
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ।।
6-59-9a
6-59-9b
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ।।
6-59-10a
6-59-10b
हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः।
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ।।
6-59-11a
6-59-11b
प्रावर्तत महावेगा नदी रुधिरवाहिनी ।
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ।।
6-59-12a
6-59-12b
वरश्वनरनागानां शरीरप्रभवा तदा।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ।।
6-59-13a
6-59-13b
न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप।
यथा तव सुतानां च पाण्डवानां च भारत ।।
6-59-14a
6-59-14b
नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः ।
गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ।।
6-59-15a
6-59-15b
विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष ।
शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ।।
6-59-16a
6-59-16b
विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः ।
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ।।
6-59-17a
6-59-17b
तात भ्रातः सखे बन्धो वयस्य मम मातुल ।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ।।
6-59-18a
6-59-18b
अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि।
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ।।
6-59-19a
6-59-19b
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ।।
6-59-20a
6-59-20b
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्य भारतर्षभ ।।
6-59-21a
6-59-21b
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ।।
6-59-22a
6-59-22b
तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह।
अनेकशतसाहस्रं समपश्यन्त लाघवात् ।।
6-59-23a
6-59-23b
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ।।
6-59-24a
6-59-24b
उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो।
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ।।
6-59-25a
6-59-25b
न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ।।
6-59-26a
6-59-26b
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ।।
6-59-27a
6-59-27b
अमानुषेण रूपेण चरन्तं पितरं तव।
शलभा इव राजानः पतन्ति विधिचोदिताः ।।
6-59-28a
6-59-28b
भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः ।
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ।।
6-59-29a
6-59-29b
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।
भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ।।
6-59-30a
6-59-30b
गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् ।
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ।।
6-59-31a
6-59-31b
नाराचेन सुमुक्तेन निजघान पिता तव।
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ।।
6-59-32a
6-59-32b
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते।
एवं सा धर्मराजस्य वध्यमाना महाचमूः ।।
6-59-33a
6-59-33b
भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा।
प्राकम्पत महासेना शरवर्षेण तापिता ।।
6-59-34a
6-59-34b
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः।
यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ।।
6-59-35a
6-59-35b
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।।
6-59-36a
6-59-36b
अभज्यत महाराज न च द्वौ सह धावतः।
आविद्धरनागाश्वं पतितध्वजकूबरम् ।।
6-59-37a
6-59-37b
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।।
6-59-38a
6-59-38b
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ।
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ।।
6-59-39a
6-59-39b
विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत।
तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ।।
6-59-40a
6-59-40b
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।।
6-59-41a
6-59-41b
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्।
असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ।।
6-59-42a
6-59-42b
प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे।
यत्त्वया कथितं वीर पुरा राज्ञां समागमे ।
6-59-43a
6-59-43b
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ।।
6-59-44a
6-59-44b
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ।।
6-59-45a
6-59-45b
द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले।
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ।।
6-59-46a
6-59-46b
भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव।
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ।।
6-59-47a
6-59-47b
नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् ।
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ।।
6-59-48a
6-59-48b
सञ्जय उवाच। 6-59-49x
ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः।
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ।।
6-59-49a
6-59-49b
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे।।
6-59-50a
6-59-50b
ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः ।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ।।
6-59-51a
6-59-51b
क्षणेन स रथस्तस्य सहयः कसहसारथिः ।
शरवर्षेण महता संछन्नो न प्रकाशते ।।
6-59-52a
6-59-52b
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् ।
चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ।।
6-59-53a
6-59-53b
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ।।
6-59-54a
6-59-54b
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ।।
6-59-55a
6-59-55b
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।।
6-59-56a
6-59-56b
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः।
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ।।
6-59-57a
6-59-57b
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय ।
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ।।
6-59-58a
6-59-58b
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।
मुमोच समरे वीरः शरान्पार्थरथं प्रति।।
6-59-59a
6-59-59b
अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ।।
6-59-60a
6-59-60b
तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ।।
6-59-61a
6-59-61b
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ।।
6-59-62a
6-59-62b
पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः ।
कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः ।
`पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ।।'
6-59-63a
6-59-63b
6-59-63c
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।
मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ।।
6-59-64a
6-59-64b
ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्।
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ।।
6-59-65a
6-59-65b
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।।
6-59-66a
6-59-66b
वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।।
6-59-67a
6-59-67b
अमृष्यमाणो भगवान्केशवः परवीरहा।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ।।
6-59-68a
6-59-68b
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्।
किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ।।
6-59-69a
6-59-69b
द्रवते च महासैन्यं पाण्डवस्य महात्मनः ।
एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ।।
6-59-70a
6-59-70b
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् ।
सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ।।
6-59-71a
6-59-71b
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ।
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ।।
6-59-72a
6-59-72b
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्।
तथा चिन्तयतस्तस्य भूय एव पितामहः ।
प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ।।
6-59-73a
6-59-73b
6-59-73c
तेषां बहुत्वासु भृसं शराणां
दिशश्च सर्वाः पिहिता बभूवुः ।
न चान्तरिक्षं न दिशो न भूमि-
र्न भास्करोऽदृश्यत रश्मिमालीक ।।
6-59-74a
6-59-74b
6-59-74c
6-59-74d
ववुश्च वातास्तुमुलाः सधूमा
दिशश्च सर्वाः क्षुभिता बभूवुः।
द्रोणो विकर्णोऽथ जयद्रथश्च
भूरिश्रवाः कृतवर्मा कृपश्च ।।
6-59-75a
6-59-75b
6-59-75c
6-59-75d
श्रुतायुरम्बष्ठपतिश्च राजा
विन्दानुविन्दौ च सुदक्षिणश्च।
प्राच्याश्च सौवीरगणाश्च सर्वे
वसातयः क्षुद्रकमालवाश्च।।
6-59-76a
6-59-76b
6-59-76c
6-59-76d
किरीटिनं त्वरमाणाभिस्रु-
र्निदेशगाः शान्तनवस्य राज्ञः।
तं वाजिपादातरथौघजालै-
रनेकसाहस्रशतैर्ददर्श ।।
6-59-77a
6-59-77b
6-59-77c
6-59-77d
किरीटिनं संपरिवार्यमाणं
शिनेर्नप्ता वारणयूथपैश्च।
ततस्तु दृष्ट्वार्जुनवासुदेवौ
पदातिनागाश्वरथैः समन्तात् ।।
6-59-78a
6-59-78b
6-59-78c
6-59-78d
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ
शिनिप्रवीरोऽभिससार तूर्णम्।
स तान्यनीकानि महाधनुष्मान्
शिनिप्रवीरः सहसाऽभिपत्य ।।
6-59-79a
6-59-79b
6-59-79c
6-59-79d
चकार साहाय्यमथार्जुनस्य
विष्णुर्यथा वृत्रनिषूदनस्य।
विशीर्णनागाश्वरथध्वजौघं
भीष्मेण वित्रासितसर्वयोधम् ।।
6-59-80a
6-59-80b
6-59-80c
6-59-80d
युधिष्ठिरानीकमभिद्रवन्तं
प्रोवाच संदृश्य शिनिप्रवीरः ।
क्व क्षत्रिया यास्यथ नैष धर्मः
सतां पुरस्तात्कथितः पुराणैः ।।
6-59-81a
6-59-81b
6-59-81c
6-59-81d
मा स्वां प्रतिज्ञां त्यजत प्रवीराः
स्वं वीरधर्मं परिपालयध्वम्।
तान्वासवानन्तरजो निशाम्य
नरेन्द्रमुख्यान्द्रवतः समन्तात् ।।
6-59-82a
6-59-82b
6-59-82c
6-59-82d
पार्थस्य दृष्टवा मृदुयुद्धातां च
भीष्मं च सङ्ख्ये समुदीर्यमाणम्।
अमृष्यमाणः स ततो महात्मा
यशस्विनं सर्वदशार्हभर्ता ।।
6-59-83a
6-59-83b
6-59-83c
6-59-83d
उवाच शैनेयमभिप्रशंसन्
दृष्ट्वा कुरूनापततः समग्रान्।
ये यान्ति ते यान्तु शिनिप्रवीर
येऽपि स्थिताः सात्वत तेऽपि यान्तु ।।
6-59-84a
6-59-84b
6-59-84c
6-59-84d
भीष्मं रथात्पश्य निपात्यमानं
द्रोणं च सङ्ख्ये सगणं मयाऽद्य।
न सारथेः सात्वत कौरवाणां
क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ।।
6-59-85a
6-59-85b
6-59-85c
6-59-85d
तस्मादहं गृह्य रथाङ्गमुग्रं
प्राणं हरिष्यामि महाव्रतस्य।
निहत्य भीष्मं सगणं तथाजौ
द्रोणं च शैनेय रथप्रवीरौ ।।
6-59-86a
6-59-86b
6-59-86c
6-59-86d
संपादयिष्याम्यहमद्य हृष्टः ।। 6-59-87f
` इतीदमुक्त्वा स महानुभावः
सस्मार चक्रं निशितं पुराणम्।
सुदर्शनं चिन्तितमात्रमेव
तस्याग्रहस्तं स्वयमारुरोह ।।
6-59-88a
6-59-88b
6-59-88c
6-59-88d
तच्चक्रपद्मं प्रगृहीतमाजौ
रराज नारायणबाहुनालम्।
यथादिपद्मं तरुणार्कवर्णं
रराज नारायणनाभिजातमक् ।।
6-59-89a
6-59-89b
6-59-89c
6-59-89d
तत्कृष्णकोपोदयसूर्यबुद्धं
क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्।
तेस्यैव देहोरुसरःप्ररूढं
रराज नारायणबाहुनालम् ।।'
6-59-90a
6-59-90b
6-59-90c
6-59-90d
वेगेन कृष्मः प्रससार भीष्मम् ।। 6-59-91f
घनो यथा खे तडितावनद्धः ।। 6-59-92f
तमात्तचक्रं प्रणदन्तमुच्चैः
क्रुद्धं महेन्द्रावरजं समीक्ष्य ।
सर्वाणि भूतानि भृशं विनेदुः
क्षयं कुरूणामिव चिन्तयित्वा ।।
6-59-93a
6-59-93b
6-59-93c
6-59-93d
स वासुदेवः प्रगृहीतचक्रः
संवर्तयिष्यन्निव सर्वलोकम्।
अभ्युत्पतँल्लोकगुरुर्बभासे
भूतानि धक्ष्यन्निव धूमकेतुः ।।
6-59-94a
6-59-94b
6-59-94c
6-59-94d
गोविन्दमाजावविमूढचेताः ।। 6-59-95f
एह्येहि देवेश जगन्निवास
नमोस्तु ते माधव चक्रपाणे।
प्रसह्य मां पातय लोकनाथ
रथोत्तमात्सर्वशरण्य सङ्ख्ये ।।
6-59-96a
6-59-96b
6-59-96c
6-59-96d
त्वया हतस्यापि ममाऽद्य कृष्ण
श्रेयः परिस्मिन्निह चैव लोके।
संभावितोऽस्म्यन्धकवृष्णिनाथ
लोकैस्त्रिभिर्वीर तवाभियानात् ।।
6-59-97a
6-59-97b
6-59-97c
6-59-97d
रथादवप्लुत्य ततस्त्वरावान्
पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्।
जग्राह पीनोत्तमलम्बबाहुं
बाह्वोर्हरिं व्यायतपीनबाहुः ।।
6-59-98a
6-59-98b
6-59-98c
6-59-98d
निगृह्यमणाश्च तदाऽऽदिदेवो
भृश सरोषः किल नाम योगी ।
आदाय वेगेन जगाम विष्णु-
र्जिष्णुं महावात इवैकवृक्षम् ।।
6-59-99a
6-59-99b
6-59-99c
6-59-99d
पार्थस्तु विष्टभ्य बलेन पादौ
भीष्मान्तिकं तूर्णमभिद्रवन्तम्।
बलान्निजग्राह हरिं किरीटी
पदेऽथ राजन्दशमे कथंचित् ।।
6-59-100a
6-59-100b
6-59-100c
6-59-100d
अवस्थितं च प्रणिपत्य कृष्णं
प्रीतोऽर्जुनः काञ्चनचित्रमाली।
उवाच कोपे प्रतिसंहरेति
गतिर्भवान्केशव पाण्डवानाम् ।।
6-59-101a
6-59-101b
6-59-101c
6-59-101d
न हास्यते कर्म यथाप्रतिज्ञं
पुत्रैः शपे केशव सोदरैश्च ।
अन्तं करिष्यामि यथा कुरूणां
त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ।।
6-59-102a
6-59-102b
6-59-102c
6-59-102d
ततः प्रतिज्ञां समयं च तस्य
जनार्दनः प्रीतमना निशम्य।
स्थितः प्रिये कौरवसत्तमस्य
रथं सचक्रः पुनरारुरोह ।।
6-59-103a
6-59-103b
6-59-103c
6-59-103d
`ततः प्रतिज्ञां समवाप्य भीष्मः
कृताञ्चलिः स्तुत्यमथाकरोद्वै ।
त्रैविक्रमे यस्य वपुर्बभासे
तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ।।
6-59-104a
6-59-104b
6-59-104c
6-59-104d
प्रगृह्य शङ्खं द्विषताकं निहन्ता
स तानभूषून्पुनराददानः ।
भीष्मं शरैः संपरिवार्य सङ्ख्ये
चिच्छेद भूरिश्रवसश्च चापम् ।।
6-59-105a
6-59-105b
6-59-105c
6-59-105d
शल्यं च विद्ध्वा नवभिः पृषत्कै-
र्दुर्योधं वक्षसि निर्बिभेद।'
विनादयामास ततो दिशश्च
स पाञ्चजन्यस्य रवेण शौरिः ।।
6-59-106a
6-59-106b
6-59-106c
6-59-106d
व्याविद्धनिष्काङ्गदकुण्डलं तं
रजोविकीर्णाञ्चितपद्मनेत्रम् ।
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं
विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ।।
6-59-107a
6-59-107b
6-59-107c
6-59-107d
मृदङ्गभेरीपणवप्रणादा
नेमिस्वना दुन्दुभिनिःस्वनाश्च।
ससिंहनादाश्च बभूवुरुग्राः
सर्वेष्वनीकेषु ततः कुरूणाम् ।।
6-59-108a
6-59-108b
6-59-108c
6-59-108d
गाण्डीवघोषः स्तनयित्नुकल्पो
जगाम पार्थस्य नभो दिशश्च।
जग्मुश्च बाणा विमलाः प्रसन्नाः
सर्वा दिशः पाण्डवचापमुक्ताः ।।
6-59-109a
6-59-109b
6-59-109c
6-59-109d
तं कौरवाणामधिपो जवेन
भीष्मेण भूरिश्रवसा च सार्धम्।
अभ्युद्ययावुद्यतबाणपाणिः
कक्षं दिधक्षन्निव धूमकेतुः ।।
6-59-110a
6-59-110b
6-59-110c
6-59-110d
अथार्जुनाय प्रजिघाय भल्लान्
भूरिश्रवाः सप्त सुवर्णपुङ्खान्।
दुर्योदनस्तोमरमुग्रवेगं
शल्यो गदां शान्तनवश्च शक्तिम् ।।
6-59-111a
6-59-111b
6-59-111c
6-59-111d
स सप्तभिः सप्त शरप्रवेकान्
संवार्य भीरिश्रवसा विसृष्टान् ।
शितेन दुर्योधनबाहुमुक्तं
क्षुरेण तत्तोमरमुन्ममाथ ।।
6-59-112a
6-59-112b
6-59-112c
6-59-112d
ततः शुभामापततीं स शक्तिं
विद्युत्प्रभां शान्तनवेन मुक्ताम्।
गदां च मद्राधिपबाहुमुक्तां
द्वाभ्यां शराभ्यां निचर्त वीरः ।।
6-59-113a
6-59-113b
6-59-113c
6-59-113d
ततो भुजाभ्यां बलवद्विकृष्य
चित्रं धनुर्गाण्डिवमप्रमेयम् ।
माहेन्द्रमस्रं विधिवत्सुघोरं
प्रादुश्चकाराद्भुतमन्तरिक्षे ।।
6-59-114a
6-59-114b
6-59-114c
6-59-114d
तेनोत्तमास्त्रेण ततो महात्मा
सर्वाण्यनीकानि महाधनुष्मान्।
शरौघजालैर्विमलाग्निवर्णै-
र्निवारयामास किरीटमाली ।।
6-59-115a
6-59-115b
6-59-115c
6-59-115d
शिलीमुखाः पार्थधनुःप्रमुक्ता
रथान्ध्वजाग्राणि धनूंषि बाहून् ।
निकृत्य देहान्विविशुः परेषां
नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ।
6-59-116a
6-59-116b
6-59-116c
6-59-116d
ततो दिशः सोऽनुदिशश्च पार्थः
शरैः सुधारैः समरे वितत्य ।
गाण्डीवशब्देन मनांसि तेषां
किरीटमाली व्यथयांचकार ।।
6-59-117a
6-59-117b
6-59-117c
6-59-117d
तस्मिंस्तथा घोरतमे प्रवृत्ते
शङ्खस्वना दुन्दुभिनिःस्वनाश्च।
अन्तर्हिता गाण्डिवनिःस्वनेन
बभूवुरुग्राश्वरथप्रणादाः ।।
6-59-118a
6-59-118b
6-59-118c
6-59-118d
गाण्डीवशब्दं तमथो विदित्वा
विराटराजप्रमुखाः प्रवीराः।
पाञ्चालराजो द्रुपदश्च वीर-
स्तं देशमाजग्मुरदीनसत्त्वाः ।।
6-59-119a
6-59-119b
6-59-119c
6-59-119d
सर्वाणि सैन्यानि तु तावकानि
यतोयतो गाण्डिवजः प्रणादः ।
ततस्ततः सन्नतिमेव जग्मु-
र्न तं प्रतीपोऽभिससार कश्चित् ।।
6-59-120a
6-59-120b
6-59-120c
6-59-120d
तस्मिन्सुघोरे कनृप संप्रहारे
हताः प्रवीराः सरथाश्वसूताः।
गजाश्च नाराचनिपाततप्ता
महापताकाः शुभरुक्मकक्ष्याः ।।
6-59-121a
6-59-121b
6-59-121c
6-59-121d
परीतसत्वाः सहसा निपेतुः
किरीटिना भिन्नतनुत्रकायाः ।
दृढं हताः पात्रिभिरुग्रवेगैः
पार्थेन भल्लैर्विमलैः शिताग्नैः ।।
6-59-122a
6-59-122b
6-59-122c
6-59-122d
निकृत्तयन्त्रा निहतेन्द्रकीला
ध्वजा महान्तो ध्वजिनिमुखेषु।
पदातिसङ्घाश्च रथाश्च सङ्ख्ये
हयाश्च नागाश्च धनञ्जयेन ।।
6-59-123a
6-59-123b
6-59-123c
6-59-123d
बाणाहतास्तूर्णमपेतसत्वा
विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।
ऐन्द्रेण तेनास्त्रवरेण राजन्
महाहवे भिन्नतनुत्रदेहाः ।।
6-59-124a
6-59-124b
6-59-124c
6-59-124d
ततः शरौघैर्निशितैः किरीटिना
नृदेहशस्त्रक्षतलोहितोदा।
नदी सुघोरा नरमेदफेना
प्रवर्तिता तत्र रणाजिरे वै ।।
6-59-125a
6-59-125b
6-59-125c
6-59-125d
वेगेन साऽतीव पृथुप्रवाहा
परेतनागाश्वशरीररोधाः।
नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः
प्रभूतरक्षोगणभूतसेविता ।।
6-59-126a
6-59-126b
6-59-126c
6-59-126d
शिरःकपालाकुलकेशशाद्वला
शरीरसङ्घातसहस्रवाहिनी ।
विशीर्णनानाकवचोर्मिसंकुला
नराश्वनागास्थिनिकृत्तशर्करा ।।
6-59-127a
6-59-127b
6-59-127c
6-59-127d
श्वकङ्कशालावृकगृध्रकाकैः
क्रव्यादसङ्घैश्च तरक्षुभिश्च।
उपेतकूलां ददृशुर्मनुष्याः
क्रूरां महावैतरणीप्रकाशाम् ।।
6-59-128a
6-59-128b
6-59-128c
6-59-128d
प्रवर्तितामर्जुनबाणसङ्घै-
र्मेदोवसासृकप्रवहां सुभीमाम्।
हतप्रवीरां च तथैव दृष्ट्वा
सेनां कुरूणामथ फल्गुनेन ।।
6-59-129a
6-59-129b
6-59-129c
6-59-129d
ते चेदिपाञ्चालकरूषमत्स्याः
पार्थाश्च सर्वे सहिताः प्रणेदुः ।
जयप्रगल्भाःक पुरुषप्रवीराः
संत्रासयन्तः कुरुवीरयोधान् ।।
6-59-130a
6-59-130b
6-59-130c
6-59-130d
हतप्रवीराणि बलानि दृष्ट्वा
किरीटिना शत्रुभयावहेन ।
वित्रास्य सेनां ध्वजिनीपतीनां
सिंहो मृगाणामिव यूथसङ्घान् ।।
6-59-131a
6-59-131b
6-59-131c
6-59-131d
विनेदतुस्तावतिहर्षयुक्तौ
गाण्डीवधन्वा च जनार्दनश्च।
ततो रविं संवृतरश्मिजालं
दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ।।
6-59-132a
6-59-132b
6-59-132c
6-59-132d
तदैन्द्रमस्त्रं विततं च घोर-
मसह्यमुद्वीक्ष्य युगान्तकल्पम् ।
अथापयानं कुरवः सभीष्माः
सद्रोणदुर्योधनबाह्लिकाश्च।।
6-59-133a
6-59-133b
6-59-133c
6-59-133d
चक्रुर्निशां सन्धिगतां समीक्ष्य
विभावसोर्लोहितरागयुक्ताम्।
अवापय कीर्ति च यशश्च लोके
विजित्य शत्रूंश्च धनंजयोऽपि ।।
6-59-134a
6-59-134b
6-59-134c
6-59-134d
ययौ नरेन्द्रैः सहसोदरैश्च
समाप्तकर्मा शिबिरं निशायाम्।
ततः प्रजज्ञे तुमुलः कुरूणां
निशामुखे घोरतमः प्रणादः ।।
6-59-135a
6-59-135b
6-59-135c
6-59-135d
रणे रथानामयुतं निहत्य
हता गजाः सप्तशतार्जुनेन ।
प्राज्याश्च सौवीरगणाश्च सर्वे
निपातिताः क्षुद्रकमालवाश्च ।।
6-59-136a
6-59-136b
6-59-136c
6-59-136d
महत्कृतं कर्म धनञ्जयेन
कर्तुं यथा नार्हति कश्चिदन्यः।
श्रुतायुरम्बष्ठपतिश्च राजा
तथैव दुर्मर्षणचित्रसेनौ ।।
6-59-137a
6-59-137b
6-59-137c
6-59-137d
द्रोणः कृपः सैन्धवबाह्लिकौ च
भूरिश्रवाः शल्यशलौ च राजन्।
अन्ये च योधाः शतशः समेताः
क्रुद्धेन पार्थेन रणस्य मध्ये।।
6-59-138a
6-59-138b
6-59-138c
6-59-138d
स्वबाहुवीर्येण जिताः सभीष्माः
किरीटिना लोकमहारथेन।
इति ब्रुवन्तः शिबिराणि जग्मुः
सर्वे गणा भारत ये त्वदीयाः ।।
6-59-139a
6-59-139b
6-59-139c
6-59-139d
उल्कासहस्रैश्च सुसंप्रदीप्तै-
र्विभ्राजमानैश्च तथा प्रदीप्रैः।
किरीटिवित्रासितसर्वयोधा
चक्रे निवेशं ध्वजिनी कुरूणाम् ।।
6-59-140a
6-59-140b
6-59-140c
6-59-140d
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
तृतीयदिवसयुद्धे एकोनषष्टितमोऽध्यायः ।।

सम्पाद्यताम्

6-59-31 पिण्डितान् एकस्थान्। वर्मितान् कवचिनः ।। 6-59-39 आक्रन्दे युद्धे ।। 6-59-83समुदीर्यमाणं वर्धमानप्रयत्नम् ।। 6-59-87 अश्विनोरश्विपुत्रयोर्नकुलसहदेवयोः ।। 6-59-111 प्रजिघाय प्रेषयामास ।। 6-59-112 शरप्रवेकान् बाणश्रेष्ठान् ।।

भीष्मपर्व-058 पुटाग्रे अल्लिखितम्। भीष्मपर्व-060