महाभारतम्-06-भीष्मपर्व-014

← भीष्मपर्व-013 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-014
वेदव्यासः
भीष्मपर्व-015 →

धृतराष्ट्रेण भीष्महननश्रवणात्परिशोचनपूर्वकं संजयंप्रति विस्तरेण भीष्मादियुद्धवर्णनचोदना ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
धृतराष्ट्र उवाच। 6-14-1x
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना।
कथं रथार्त्स न्यपतित्पिता मे वासवोपमः ।।
6-14-1a
6-14-1b
कथमाचक्ष्व मे योधा हीना भीष्मेण संजय ।
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ।।
6-14-2a
6-14-2b
तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले ।
महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव ।।
6-14-3a
6-14-3b
आर्तिं परामाविशति मनः शंससि मे हतम् ।
कुरूणामृषभं वीरमकम्पं पुरुषर्षभम् ।।
6-14-4a
6-14-4b
के तं यान्तमनुप्राप्ताः के वास्यसन्पुरोगमाः।
केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय ।।
6-14-5a
6-14-5b
के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् ।
तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ।।
6-14-6a
6-14-6b
यस्तमोर्क इवापोहन्परसैन्यममित्रहा ।
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ।।
6-14-7a
6-14-7b
अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः ।
ग्रसमानमनीकानि य एनं पर्यवारयन् ।।
6-14-8a
6-14-8b
कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके ।
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ।।
6-14-9a
6-14-9b
निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् ।
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ।।
6-14-10a
6-14-10b
अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् ।
पातयामास कौन्तेयः कथं तमजितं युधि ।।
6-14-11a
6-14-11b
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।
परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः ।।
6-14-12a
6-14-12b
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे ।
कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः ।।
6-14-13a
6-14-13b
परिकृष्य स सेनां तु दशरात्रमनीकहा ।
दगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ।।
6-14-14a
6-14-14b
यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ।।
6-14-15a
6-14-15b
स शेते निहतो भूमौ वातभुग्न इव द्रुमः ।
मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः ।।
6-14-16a
6-14-16b
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी ।
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ।।
6-14-17a
6-14-17b
कथं भीष्मेण संग्रामं प्राकुर्वन्पाण्डुनन्दनाः।
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ।।
6-14-18a
6-14-18b
कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा।
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ।।
6-14-19a
6-14-19b
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना।
भीष्मो विनिहतो युद्धे देवैरपि दुरासदः ।।
6-14-20a
6-14-20b
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् ।
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ।।
6-14-21a
6-14-21b
तं हतं समरे भीष्मं महारथकुलोदितम् ।
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ।।
6-14-22a
6-14-22b
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् ।
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ।।
6-14-23a
6-14-23b
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।
कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम् ।।
6-14-24a
6-14-24b
अश्मसारमयं नूनं हृदयं मुदृढं मम।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ।।
6-14-25a
6-14-25b
यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ।।
6-14-26a
6-14-26b
मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् ।
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ।।
6-14-27a
6-14-27b
योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान्।
निघ्नन्परथान्वीरो दानवानिव वज्रभृत् ।।
6-14-28a
6-14-28b
इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् ।
कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम् ।।
6-14-29a
6-14-29b
गदासिमकरावासं हयावर्त्तं गजाकुलम् ।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ।।
6-14-30a
6-14-30b
हयान्गजपदातींश्च रथांश्च तरसा बहून् ।
निमञ्जयन्तं समरे परवीरापहारिणम् ।।
6-14-31a
6-14-31b
विदह्यमानं कोपेन तेजसा च परंतपम् ।
वेलेव मकरावासं के वीराः पर्यवारयन् ।।
6-14-32a
6-14-32b
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा ।
दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन् ।।
6-14-33a
6-14-33b
के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।
पृष्ठतः के परान्वीरानपासेधन्यतव्रताः ।।
6-14-34a
6-14-34b
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके।
के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः ।।
6-14-35a
6-14-35b
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान्।
अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम् ।।
6-14-36a
6-14-36b
पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्।
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ।।
6-14-37a
6-14-37b
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते।
दुर्जयानामनीकानि नाजयंस्तरसा युधि ।।
6-14-38a
6-14-38b
सर्वलोकेश्वरस्येव परमस्य प्रजापतेः।
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ।।
6-14-39a
6-14-39b
यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः ।
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ।।
6-14-40a
6-14-40b
यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः ।
न पाण्डवानगणयत्कथं स निहतः परैः ।।
6-14-41a
6-14-41b
यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः ।
काङ्क्षितो दानवान्ध्नद्भिः पिता मम महाव्रतः ।।
6-14-42a
6-14-42b
यस्मिज्जाते महावीर्ये शान्तनुर्लोकविश्रुतः ।
शोकं दैन्यं च दुःस्वं च प्राजहात्स च तत्क्षणे ।।
6-14-43a
6-14-43b
प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्।
वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम् ।।
6-14-44a
6-14-44b
सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्।
हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम् ।।
6-14-45a
6-14-45b
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ।।
6-14-46a
6-14-46b
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ।।
6-14-47a
6-14-47b
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्।
हतं शंससि मे भीष्मं किं नु दुःखमतः परम् ।।
6-14-48a
6-14-48b
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः ।
जामदग्न्येन वीरेण परवीरनिघातिना।
न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना ।।
6-14-49a
6-14-49b
6-14-49c
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात्।
तेजोवीर्यबलैर्यूयाञ्शिखण्डी द्रुपदात्मजः ।।
6-14-50a
6-14-50b
यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम्।
परमास्त्रविदं वीरं जघान भग्तर्षभम् ।।
6-14-51a
6-14-51b
के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि ।
शंस मे तद्यथा चासीद्युद्भं भीष्मस्य पाण्डवैः ।।
6-14-52a
6-14-52b
योषेव हतवीरा मे सेन्म पुत्रस्य सञ्जय ।
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ।।
6-14-53a
6-14-53b
पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे।
परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ।।
6-14-54a
6-14-54b
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय।
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ।।
6-14-55a
6-14-55b
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ।।
6-14-56a
6-14-56b
अद्रिसारमयं नूनं हृदयं मम सञ्जय।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ।।
6-14-57a
6-14-57b
यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ।।
6-14-58a
6-14-58b
न चास्त्रेण न शौर्येण तपसा मेधया न च।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ।।
6-14-59a
6-14-59b
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ।।
6-14-60a
6-14-60b
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।
आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात् ।।
6-14-61a
6-14-61b
यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय ।
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत ।।
6-14-62a
6-14-62b
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् ।
शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ।।
6-14-63a
6-14-63b
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ।।
6-14-64a
6-14-64b
वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम्।
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ।।
6-14-65a
6-14-65b
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय ।
पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम् ।।
6-14-66a
6-14-66b
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् ।
कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन् ।।
6-14-67a
6-14-67b
यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः।
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ।।
6-14-68a
6-14-68b
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ।।
6-14-69a
6-14-69b
यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् ।
शरशक्तिमहाखङ्गतोमराक्षां महाभयाम्।
प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम् ।।
6-14-70a
6-14-70b
6-14-70c
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ।
के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः ।
अन्ये भीष्माच्चान्तनवात्तन्ममाचक्ष्व सञ्जय ।।
6-14-71a
6-14-71b
6-14-71c
न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्।
पितरं भीमकर्माणं भीष्ममाहवशोभिनम् ।।
6-14-72a
6-14-72b
आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम्।
त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय ।।
6-14-73a
6-14-73b
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्।
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ।।
6-14-74a
6-14-74b
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ।।
6-14-75a
6-14-75b
यद्वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसंभवम् ।
अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय ।।
6-14-76a
6-14-76b
यत्कृतं तत्र संग्रामे भीष्मेण जयमिच्छता ।
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ।।
6-14-77a
6-14-77b
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।
क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत् ।।
6-14-78a
6-14-78b
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि चतुर्दशोऽध्यायः ।।

सम्पाद्यताम्

6-14-1 अस्य त्वमन्तिके स्थित्वा सर्वं दृष्टवानसीति शेषः ।। 6-14-12 प्रचिन्वन्तं पुष्पवदाददानम् ।। 6-14-13 समचेष्टत म्रियमाणपशुवद्धस्तपादविक्षेपं कृतवत् ।। 6-14-23 अजुस्त्यक्तवन्तः ।। 6-14-27 मौर्वीघोषेण स्तनयित्नुर्गर्जन्मेघ इव । पृषत्कपृषतो बाणबिन्दुः ।। 6-14-34 अपासेधन् न्यवारयन् ।। 6-14-44 प्रोक्त लोके ख्याढम् ।। 6-14-45 सर्वास्त्रविनयोपेतं सर्वास्त्रशिक्षायुक्तम् ।। 6-14-54 परासक्ते परलोकप्रिये ।।

भीष्मपर्व-013 पुटाग्रे अल्लिखितम्। भीष्मपर्व-015