महाभारतम्-06-भीष्मपर्व-109
← भीष्मपर्व-108 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-109 वेदव्यासः |
भीष्मपर्व-110 → |
भीष्मदुर्योधनसंवादः ।। 1 ।। भीष्मपराक्रमवर्णनम् ।। 2 ।।
|
धृतराष्ट्र उवाच। | 6-109-1x |
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् । पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ।। | 6-109-1a 6-109-1b |
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः। त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ।। | 6-109-2a 6-109-2b |
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि। अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ।। | 6-109-3a 6-109-3b |
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना । कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ।। | 6-109-4a 6-109-4b |
सञ्जय उवाच। | 6-109-5x |
नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत्। युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ। निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः।। | 6-109-5a 6-109-5b 6-109-5c |
अनेकशतसाहस्रावकानां महारथाः । तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः।। | 6-109-6a 6-109-6b |
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ।। | 6-109-7a |
यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः । पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ।। | 6-109-8a 6-109-8b |
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः । पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ।। | 6-109-9a 6-109-9b |
दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् । कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ।। | 6-109-10a 6-109-10b |
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज । अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ।। | 6-109-11a 6-109-11b |
अथोपायान्महाराज सव्यसाची धनञ्जयः । त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ।। | 6-109-12a 6-109-12b |
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः । शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ।। | 6-109-13a 6-109-13b |
तस्य शब्देन वित्रस्तास्तावका भारतर्षभ । सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ।। | 6-109-14a 6-109-14b |
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् । दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ।। | 6-109-15a 6-109-15b |
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः। दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ।। | 6-109-16a 6-109-16b |
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः । पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ।। | 6-109-17a 6-109-17b |
यथा पशुगणान्पालः संकालयति कानने । तथेदं मामकं सैन्यं काल्यते शत्रुतापन ।। | 6-109-18a 6-109-18b |
धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः । भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ।। | 6-109-19a 6-109-19b |
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ। अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ।। | 6-109-20a 6-109-20b |
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः । व्यद्रावयेतां सहसा सैन्यं मम महारणे ।। | 6-109-21a 6-109-21b |
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः । नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ।। | 6-109-22a 6-109-22b |
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम्। पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ।। | 6-109-23a 6-109-23b |
सञ्जय उवाच। | 6-109-24x |
एवमुक्तो महाराज पिता देवव्रतस्तव। चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ।। | 6-109-24a 6-109-24b |
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः। दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते ।। | 6-109-25a 6-109-25b |
`पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् । प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ।।' | 6-109-26a 6-109-26b |
पूर्वकालं तव मया प्रतिज्ञानं महाबल । हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ।। | 6-109-27a 6-109-27b |
संग्रामादपयास्यामि ह्येतत्कर्म समाहितम् । इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ।। | 6-109-28a 6-109-28b |
अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् । अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ।। | 6-109-29a 6-109-29b |
`अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः।' किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ।। | 6-109-30a 6-109-30b |
अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव। भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ।। | 6-109-31a 6-109-31b |
सञ्जय उवाच। | 6-109-32x |
इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः। आससाद दुराधर्षः पाण्डवानामनीकिनीम् ।। | 6-109-32a 6-109-32b |
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ । आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ।। | 6-109-33a 6-109-33b |
दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः । राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ।। | 6-109-34a 6-109-34b |
पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः । तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ।। | 6-109-35a 6-109-35b |
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् । सारोहाणां महाराज हयानां चायुतं तथा ।। | 6-109-36a 6-109-36b |
पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव पावकः ।। | 6-109-37a 6-109-37b |
न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् । उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ।। | 6-109-38a 6-109-38b |
ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः । वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ।। | 6-109-39a 6-109-39b |
स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा । अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ।। | 6-109-40a 6-109-40b |
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् । महत्या सेनया सार्धं ततो युद्धमवर्तत ।। | 6-109-41a 6-109-41b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे नवाधिकशततमोऽध्यायः ।। |
6-109-8 समितिंजयः संग्रामजित्। समिति युद्धे ।। 6-109-20 द्रवते द्रावयति ।। 6-109-22 गतिं धाम। आश्रयमिति यावत्। स्थाने अवस्थाने ।। 6-109-29 शेष्ये स्वप्स्यामि ।।
भीष्मपर्व-108 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-110 |