महाभारतम्-06-भीष्मपर्व-005
← भीष्मपर्व-004 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-005 वेदव्यासः |
भीष्मपर्व-006 → |
संजयेन धृतराष्ट्रंप्रति भूतपञ्चकगुणवर्णनपूर्वकं संक्षेपेण जम्बूद्वीपवर्णनम् ।। 1 ।
|
धृतराष्ट्र उवाच। | 6-5-1x |
नदीनां पर्वतानां च नामधेयानि संजय । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ।। | 6-5-1a 6-5-1b |
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः । निखिलेन समाचक्ष्व काननानि च संजय ।। | 6-5-2a 6-5-2b |
संजय उवाच। | 6-5-3x |
पञ्चेमानि महाराज महाभूतानि संग्रहात्। जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ।। | 6-5-3a 6-5-3b |
भूमिरापस्तथा वायुरग्निराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ।। | 6-5-4a 6-5-4b |
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक ।। | 6-5-5a 6-5-5b |
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते। शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः । शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु ।। | 6-5-6a 6-5-6b 6-5-6c |
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु। वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ।। | 6-5-7a 6-5-7b |
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ।। | 6-5-8a |
यदा तु विषमीभावमाविशन्ति परस्परम् । तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ।। | 6-5-9a 6-5-9b |
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः । सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम् ।। | 6-5-10a 6-5-10b |
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ।। | 6-5-11a 6-5-11b |
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्। प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ।। | 6-5-12a 6-5-12b |
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन। परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ।। | 6-5-13a 6-5-13b |
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः । पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ।। | 6-5-14a 6-5-14b |
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् । लवणेन समुद्रेण समन्तात्परिवारितः ।। | 6-5-15a 6-5-15b |
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः । एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ।। | 6-5-16a 6-5-16b |
द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् । द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान्। सर्वौषधिसमापन्नः पर्वतैः परिवारितः ।। | 6-5-17a 6-5-17b 6-5-17c |
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते। ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु ।। | 6-5-18a 6-5-18b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि पञ्चमोऽध्यायः ।। |
6-5-13 किमस्य प्रमाणं का वा आकृतिस्तवाभिमतेत्याशङ्क्याह सुदर्शनमिति। सुदर्शनो नाम जम्बूवृक्षविशेषस्तन्नामाङ्कितोऽयं द्वीपः सुदर्शनद्वीपः तं प्रमाणत आकृतितश्च प्रकर्षेण वक्ष्यामि। तुशब्दः पक्षान्तरव्यावृत्त्यर्थः । चक्रसंस्थितः चक्रवत् संस्थितं उस्थंनमाकारो यस्य सः ।। 6-5-16 नन्वेवंविधस्य कथमतिसूक्ष्मत्वमुच्यतेऽत आह यथा हीति ।।
भीष्मपर्व-004 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-006 |