महाभारतम्-06-भीष्मपर्व-036
← भीष्मपर्व-035 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-036 वेदव्यासः |
भीष्मपर्व-037 → |
षट्त्रिंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 12 ।।
|
अर्जुन उवाच। | 6-36-1x |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ।। | 6-36-1a 6-36-1b |
श्रीभगवानुवाच। | 6-36-2x |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ।। | 6-36-2a 6-36-2b |
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ।। | 6-36-3a 6-36-3b |
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताःक ।। | 6-36-4a 6-36-4b |
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गदिर्दुःखं देहवद्भिरवाप्यते ।। | 6-36-5a 6-36-5b |
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ।। | 6-36-6a 6-36-6b |
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ।। | 6-36-7a 6-36-7b |
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न शंशकयः ।। | 6-36-8a 6-36-8b |
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनंजय ।। | 6-36-9a 6-36-9b |
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्य्यसि ।। | 6-36-10a 6-36-10b |
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ।। | 6-36-11a 6-36-11b |
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते। ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ।। | 6-36-12a 6-36-12b |
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहंकारः समदुःखसुखः क्षमी ।। | 6-36-13a 6-36-13b |
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ।। | 6-36-14a 6-36-14b |
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ।। | 6-36-15a 6-36-15b |
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ।। | 6-36-16a 6-36-16b |
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ।। | 6-36-17a 6-36-17b |
समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ।। | 6-36-18a 6-36-18b |
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केन चित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ।। | 6-36-19a 6-36-19b |
ये तु धर्मामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ।। | 6-36-20a 6-36-20b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि षट्त्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः ।। |
भीष्मपर्व-035 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-037 |