महाभारतम्-06-भीष्मपर्व-018
← भीष्मपर्व-017 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-018 वेदव्यासः |
भीष्मपर्व-019 → |
कुरुसेनावर्णनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-18-1x |
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम् ।। | 6-18-1a 6-18-1b |
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः । नोमिघोषै रथानां च दीर्यतीव वसुन्धरा ।। | 6-18-2a 6-18-2b |
हयानां हेषमाणानां योधानां चैव गर्जताम्। क्षणेनैव नभो भूमिः शब्देनापूरितं तदा ।। | 6-18-3a 6-18-3b |
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च । समकम्पन्त सैन्यानि परस्परसमागमे ।। | 6-18-4a 6-18-4b |
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ।। | 6-18-5a 6-18-5b |
ध्वजा बहुविधाकारास्तावकानां नराधिप । काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ।। | 6-18-6a 6-18-6b |
स्वेषां चैव परेषां च समदृश्यन्त भारत। महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।। | 6-18-7a 6-18-7b |
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः। सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः ।। | 6-18-8a 6-18-8b |
कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः । उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः ।। | 6-18-9a 6-18-9b |
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः । पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप । दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ।। | 6-18-10a 6-18-10b 6-18-10c |
विविंशतिश्चित्रसेनो विकर्णश्च महारथः । सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ।। | 6-18-11a 6-18-11b |
रथा विंशतिसाहस्रास्तथैषामनुयायिनः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।। | 6-18-12a 6-18-12b |
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा। सौवीराः कैतवाः प्राच्याः प्रतीच्येदीच्यवासिनः ।। | 6-18-13a 6-18-13b |
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः । महता रथवंशेन ते ररक्षुः पितामहम् ।। | 6-18-14a 6-18-14b |
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् । मागधो यत्र नृपतिस्तद्रथानीकमन्वयात् ।। | 6-18-15a 6-18-15b |
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्। अभवन्वाहिनीमध्ये शतानामयुतानि षट् ।। | 6-18-16a 6-18-16b |
पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः । अनेकशतसाहस्रा नखरप्रासयोधिनः ।। | 6-18-17a 6-18-17b |
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। अदृश्यत महाराज गङ्गेव यमुनान्तरा ।। | 6-18-18a 6-18-18b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टादशोऽध्यायः ।। |
6-18-16 शतानागयुतानि षट् षट्शतान्ययुतगुणानि। षष्टिलक्षाणीति यावत् ।।
भीष्मपर्व-017 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-019 |