महाभारतम्-06-भीष्मपर्व-110
← भीष्मपर्व-109 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-110 वेदव्यासः |
भीष्मपर्व-111 → |
अर्जुनदुःशासनयुद्धम् ।। 1 ।।
|
सञ्जय उवाच। | 6-110-1x |
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् । शिखण्डिनमथोवाच समभ्योहि पितामहम् ।। | 6-110-1a 6-110-1b |
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन । अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ।। | 6-110-2a 6-110-2b |
सञ्जय उवच। | 6-110-3x |
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ।। | 6-110-3a 6-110-3b |
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः । हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ।। | 6-110-4a 6-110-4b |
विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः। अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः । नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ।। | 6-110-5a 6-110-5b 6-110-5c |
तथेतराणि सैन्यानि सर्वाम्येव विशांपते । समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ।। | 6-110-6a 6-110-6b |
प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् । यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ।। | 6-110-7a 6-110-7b |
चित्रसेनो महाराज चेकितानं समभ्यायात् । भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ।। | 6-110-8a 6-110-8b |
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् । त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत् ।। | 6-110-9a 6-110-9b |
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् । त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ।। | 6-110-10a 6-110-10b |
तथैव नकुलं शूरं किरन्तं सायकान्बहून् । विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ।। | 6-110-11a 6-110-11b |
सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति। वारयामास संक्रुद्धः कृपः शारद्वतो युधि ।। | 6-110-12a 6-110-12b |
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् । भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली ।। | 6-110-13a 6-110-13b |
सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् । `भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया' | 6-110-14a 6-110-14b |
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति। सुदक्षिणो महाराज काम्भोज प्रत्यवारयत् ।। | 6-110-15a 6-110-15b |
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ । अश्वत्थामा ततः क्रुद्धो वारयामास भारत ।। | 6-110-16a 6-110-16b |
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् । भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ।। | 6-110-17a 6-110-17b |
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् । भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ।। | 6-110-18a 6-110-18b |
दुःशासनो महेष्वासो वारयामास संयुगे। अन्ये च तावका योधाः पाण्डवानां महारथान् ।। | 6-110-19a 6-110-19b |
भीष्मस्याभिमुखान्यातान्वारयामासुराहवे । धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ।। | 6-110-20a 6-110-20b |
अभ्यद्रवत संरब्धो भीष्ममेकं महारथः । एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ।। | 6-110-21a 6-110-21b |
अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः । अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ।। | 6-110-22a 6-110-22b |
किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः। इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ।। | 6-110-23a 6-110-23b |
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति। आगच्छतस्तान्समरे वार्योघानचला इव ।। | 6-110-24a 6-110-24b |
अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः । दुःशासनो महाराज भयं त्यक्त्वा महारथः ।। | 6-110-25a 6-110-25b |
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् । तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ।। | 6-110-26a 6-110-26b |
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथाः । तत्राद्भुतमपश्याम चित्ररूपं विशांपते ।। | 6-110-27a 6-110-27b |
दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत । यथा वारयते वेला क्षुब्धतोयं महार्णवम् ।। | 6-110-28a 6-110-28b |
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्। उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ ।। | 6-110-29a 6-110-29b |
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत। तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ।। | 6-110-30a 6-110-30b |
समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा। दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ।। | 6-110-31a 6-110-31b |
वासुदेवं च विंशत्या ताडयामास संयुगे। ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ।। | 6-110-32a 6-110-32b |
दुःशासनं शतेनाजौ नाराचानां समार्पयत्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।। | 6-110-33a 6-110-33b |
` यथैव पन्नगा राजंस्तटाकं तृषितास्तथा।' दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः। ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ।। | 6-110-34a 6-110-34b 6-110-34c |
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे। यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ।। | 6-110-35a 6-110-35b |
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना। व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ।। | 6-110-36a 6-110-36b |
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः। पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम् ।। | 6-110-37a 6-110-37b |
पीड्यमानो बलवता पुत्रस्तव विशांपते । विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ।। | 6-110-38a 6-110-38b |
तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः । आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः ।। | 6-110-39a 6-110-39b |
सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः। अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत् ।। | 6-110-40a 6-110-40b |
तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः । अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ।। | 6-110-41a 6-110-41b |
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव । यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ।। | 6-110-42a 6-110-42b |
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव । ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ।। | 6-110-43a 6-110-43b |
प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् । न्यमञ्जंस्ते महाराज तस्य काये महात्मनः ।। | 6-110-44a 6-110-44b |
यथा हंसा महाराज तटाकं प्राप्य भारत। पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ।। | 6-110-45a 6-110-45b |
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत्। अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ।। | 6-110-46a 6-110-46b |
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते । अवारयत्ततः शूरो भूय एव पराक्रमी ।। | 6-110-47a 6-110-47b |
शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः। निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ।। | 6-110-48a 6-110-48b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे दशाधिकशततमोऽध्यायः ।। |
6-110-18 रभसं कृतोत्साहम् ।। 6-110-24 प्रलयानिव इति पाठे प्रलयाकालीनानिव।। 6-110-27 अद्भुतं अभूतपूर्वम् ।। 6-110-31 यमशक्रौ इति पाठान्तरम् ।। 6-110-41 अप्रैषीत्। उपसर्गात्पूर्वोऽडगामस्तु छान्दसः। एवमन्यत्रापि ।। 6-110-46 द्वीप आश्रयः ।।
भीष्मपर्व-109 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-111 |