महाभारतम्-06-भीष्मपर्व-077
← भीष्मपर्व-076 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-077 वेदव्यासः |
भीष्मपर्व-078 → |
भीमद्रोणपराक्रमवर्णनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-77-1x |
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् । न हि दुर्योधनस्तानि पश्यते भरतर्षभ ।। | 6-77-1a 6-77-1b |
यानि त्वं पश्यसे राजन्धर्मसंकरकारणात्। तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते ।। | 6-77-2a 6-77-2b |
तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः । त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ।। | 6-77-3a 6-77-3b |
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते। इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ।। | 6-77-4a 6-77-4b |
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्। शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप ।। | 6-77-5a 6-77-5b |
भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् । आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ।। | 6-77-6a 6-77-6b |
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्। जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ।। | 6-77-7a 6-77-7b |
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च । एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान् ।। | 6-77-8a 6-77-8b |
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः । भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ।। | 6-77-9a 6-77-9b |
अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु । जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ।। | 6-77-10a 6-77-10b |
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः । प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ।। | 6-77-11a 6-77-11b |
संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत्। यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् । | 6-77-12a 6-77-12b |
ततः शतसहस्राणि रथिनां सर्वशः प्रभो । उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ।। | 6-77-13a 6-77-13b |
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः । जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ।। | 6-77-14a 6-77-14b |
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्। समस्तानां वधे राजन्मतिं चक्रे महामनाः ।। | 6-77-15a 6-77-15b |
ततो रथं समुत्सृज्य गदामादाय पाण्डवः । उवाच सारथिं भीमं स्थीयतामिति भारत ।। | 6-77-16a 6-77-16b |
यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् । इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् । जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम् ।। | 6-77-17a 6-77-17b 6-77-17c |
गदया भिमसेनेन ताडिता वारणोत्तमाः । भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच ।। | 6-77-18a 6-77-18b |
भिन्नगात्राः सहारोहैः शेरते पर्वता इव। रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे ।। | 6-77-19a 6-77-19b |
अश्वाश्च सादिनश्चैव पादातैः सह भारत । तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।। | 6-77-20a 6-77-20b |
यदेकः समरे राजन्बहुभिः समयोधयत् । अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः ।। | 6-77-21a 6-77-21b |
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः ।। | 6-77-22a 6-77-22b |
विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे ।। | 6-77-23a 6-77-23b |
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ।। | 6-77-24a 6-77-24b |
अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ।। | 6-77-25a 6-77-25b |
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ।। | 6-77-26a 6-77-26b |
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ।। | 6-77-27a 6-77-27b |
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्। यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः । अभ्यधावद्गदापाणिस्तद्बलं स महाबलः ।। | 6-77-28a 6-77-28b 6-77-28c |
ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् । सर्वेषामेव सैन्यानां संहर्षः समजायत ।। | 6-77-29a 6-77-29b |
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ।। | 6-77-30a 6-77-30b |
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः ।। | 6-77-31a 6-77-31b |
न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् । भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ।। | 6-77-32a 6-77-32b |
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति। एकायनगते भीमे मयि चावस्थिते युधि ।। | 6-77-33a 6-77-33b |
तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः । यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ।। | 6-77-34a 6-77-34b |
`रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।' मम भीमः सखा चैव संबन्धी च महाबलः । भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ।। | 6-77-35a 6-77-35b 6-77-35c |
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः । निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम् ।। | 6-77-36a 6-77-36b |
एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् । भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ।। | 6-77-37a 6-77-37b |
स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्। वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून् ।। | 6-77-38a 6-77-38b |
ते वध्यमानाः समरे रथिनः सादिनस्तथा । पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत् ।। | 6-77-39a 6-77-39b |
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष । वध्यतो भीमसेनेन कृतिना चित्रयोधिना ।। | 6-77-40a 6-77-40b |
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् । अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप ।। | 6-77-41a 6-77-41b |
अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः। सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम् ।। | 6-77-42a 6-77-42b 6-77-42c 6-77-42d |
अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम्। आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले ।। | 6-77-43a 6-77-43b 6-77-43c 6-77-43d |
विशल्यमेनं च चकार तूर्ण- मारोपयच्चात्मरथे महात्मा। भृशं परिष्वज्य च भीमसेन- माश्वासयामास स शत्रुमध्ये ।। | 6-77-44a 6-77-44b 6-77-44c 6-77-44d |
तथा तस्मिन्वर्तमानेऽतिवेगं भ्रातॄनथोपेत्य तवापि पुत्रः । तस्मिन्विमर्दे तव संप्रवृत्ते दृष्ट्वा रणे वाक्यमिदं बभाषे ।। | 6-77-45a 6-77-45b 6-77-45c 6-77-45d |
अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् ।। | 6-77-46a 6-77-46b |
तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम्। श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठज्ञया नोदिता धार्तराष्ट्राः ।। | 6-77-47a 6-77-47b 6-77-47c 6-77-47d |
वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः। प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः ।। | 6-77-48a 6-77-48b 6-77-48c 6-77-48d |
शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः । निहत्य तांश्चापि शरैः सुतीक्ष्णै- र्न विव्यथे समरे चित्रयोधी ।। | 6-77-49a 6-77-49b 6-77-49c 6-77-49d |
न्दैत्येषु यद्वत्समरे महेन्द्रः ।। | 6-77-50f |
`स वै ततोऽस्त्रं सुमहाप्रभावं' प्रमोहनं द्रोणदत्तं महात्मा। प्रयोजयामास उदारकर्मा तस्मिन्रणे तव सैन्यस्य राजन्।।' | 6-77-51a 6-77-51b 6-77-51c 6-77-51d |
न्मोहोपेतांस्तव पुत्रान्निशम्य ।। | 6-77-52f |
एतस्मिन्नेव काले तु भीमः प्रहरतां वरः। विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम् ।। | 6-77-53a 6-77-53b |
पुनः सन्नह्य संक्रुद्धो योधयामास संयुगे। धृष्टद्यम्नेन सहितः कालयामास भारत ।। | 6-77-54a 6-77-54b |
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः। द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ।। | 6-77-55a 6-77-55b |
सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः । अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् । | 6-77-56a 6-77-56b |
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् । तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ।। | 6-77-57a 6-77-57b |
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः। प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ।। | 6-77-58a 6-77-58b |
ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात्। तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ।। | 6-77-59a 6-77-59b |
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे । मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ।। | 6-77-60a 6-77-60b |
ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् । ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः ।। | 6-77-61a 6-77-61b |
पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः । ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ।। | 6-77-62a 6-77-62b |
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि। सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ।। | 6-77-63a 6-77-63b |
प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः । प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे ।। | 6-77-64a 6-77-64b |
विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् । गच्छन्तु परया शक्त्या भवन्त इति मे मतिः ।। | 6-77-65a 6-77-65b |
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः । बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः । मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ।। | 6-77-66a 6-77-66b 6-77-66c |
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् । अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ।। | 6-77-67a 6-77-67b |
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् । बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ।। | 6-77-68a 6-77-68b |
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्। भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ।। | 6-77-69a 6-77-69b |
न संवारयितुं शक्ता तव सेना जनाधिप । मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता ।। | 6-77-70a 6-77-70b |
तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः । परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ ।। | 6-77-71a 6-77-71b |
तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् । बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम् ।। | 6-77-72a 6-77-72b |
`द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्।' दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः । नाशंसत वधं वीरः पुत्राणां तव पार्षतः ।। | 6-77-73a 6-77-73b 6-77-73c |
ततो रथं समारोप्य कैकेयस्य वृकोदरम् । अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ।। | 6-77-74a 6-77-74b |
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्। क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ।। | 6-77-75a 6-77-75b |
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते । दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ।। | 6-77-76a 6-77-76b |
अथान्यद्धनुरादाय पार्षतः परवीरहा । द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ।। | 6-77-77a 6-77-77b |
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक । हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ।। | 6-77-78a 6-77-78b |
वैवस्वतक्षयं घोरं प्रेषयामास भारत । सारथिं चास्य भल्लेन प्रेषयामास भारत । | 6-77-79a 6-77-79b |
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः । आरुरोह महाबाहुरभिमन्योर्महारथम् ।। | 6-77-80a 6-77-80b |
ततः सरथनागाश्वा समकम्पत वाहिनी । पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ।। | 6-77-81a 6-77-81b |
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा । नाशक्रुवन्वारयितुं समस्तास्ते महारथाः ।। | 6-77-82a 6-77-82b |
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः । व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः ।। | 6-77-83a 6-77-83b |
तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् । दृष्ट्वाचार्यं सुसंक्रुद्धं तपन्तं रिपुवाहिनीम् । तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत ।। | 6-77-84a 6-77-84b 6-77-84c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ।। |
भीष्मपर्व-076 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-078 |