महाभारतम्-06-भीष्मपर्व-027
← भीष्मपर्व-026 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-027 वेदव्यासः |
भीष्मपर्व-028 → |
सप्तविंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 3 ।।
|
अर्जुन उवाच। | 6-27-1x |
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव ।। | 6-27-1a 6-27-1b |
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ।। | 6-27-2a 6-27-2b |
श्रीभगवानुवाच। | 6-27-3x |
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोप्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ।। | 6-27-3a 6-27-3b |
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते। न च संन्यसनादेव सिद्धिं समधिगच्छति ।। | 6-27-4a 6-27-4b |
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ।। | 6-27-5a 6-27-5b |
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचाराः स उच्यते ।। | 6-27-6a 6-27-6b |
यस्त्विन्द्रियाणि पनसा नियम्यारमभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ।। | 6-27-7a 6-27-7b |
नियतं कुरु कर्म त्वं ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रतिद्ध्येदकर्मणः ।। | 6-27-8a 6-27-8b |
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ।। | 6-27-9a 6-27-9b |
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।। | 6-27-10a 6-27-10b |
देवान्भावयताऽनेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।। | 6-27-11a 6-27-11b |
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ।। | 6-27-12a 6-27-12b |
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ।। | 6-27-13a 6-27-13b |
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ।। | 6-27-14a 6-27-14b |
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माऽक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।। | 6-27-15a 6-27-15b |
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ।। | 6-27-16a 6-27-16b |
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ।। | 6-27-17a 6-27-17b |
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।। | 6-27-18a 6-27-18b |
तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पुरूषः ।। | 6-27-19a 6-27-19b |
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ।। | 6-27-20a 6-27-20b |
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।। | 6-27-21a 6-27-21b |
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। | 6-27-22a 6-27-22b |
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्न्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। | 6-27-23a 6-27-23b |
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ।। | 6-27-24a 6-27-24b |
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ।। | 6-27-25a 6-27-25b |
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ।। | 6-27-26a 6-27-26b |
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।। | 6-27-27a 6-27-27b |
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणाऽनुणेषु वर्तन्त इति मत्वा न सञ्जते ।। | 6-27-28a 6-27-28b |
प्रकृतेर्गुणसंमूढाः सञ्जन्ते गुणकर्मसु। तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ।। | 6-27-29a 6-27-29b |
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ।। | 6-27-30a 6-27-30b |
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ।। | 6-27-31a 6-27-31b |
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ।। | 6-27-32a 6-27-32b |
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। | 6-27-33a 6-27-33b |
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ।। | 6-27-34a 6-27-34b |
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।। | 6-27-35a 6-27-35b |
अर्जुन उवाच। | 6-27-36x |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ।। | 6-27-36a 6-27-36b |
श्रीभगवानुवाच। | 6-27-37x |
काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ।। | 6-27-37a 6-27-37b |
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ।। | 6-27-38a 6-27-38b |
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ।। | 6-27-39a 6-27-39b |
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्त्य देहिनम् ।। | 6-27-40a 6-27-40b |
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ।। | 6-27-41a 6-27-41b |
इन्द्रियामि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।। | 6-27-42a 6-27-42b |
एवं बुद्धेः परं बुद्धाः संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ।। | 6-27-43a 6-27-43b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि सप्तविंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोनाम तृतीयोऽध्यायः ।। |
भीष्मपर्व-026 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-028 |