महाभारतम्-06-भीष्मपर्व-055

← भीष्मपर्व-054 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-055
वेदव्यासः
भीष्मपर्व-056 →

अर्जुनयुद्धवर्णनम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-55-1x
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ।।
6-55-1a
6-55-1b
द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ।।
6-55-2a
6-55-2b
स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ।।
6-55-3a
6-55-3b
ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ।।
6-55-4a
6-55-4b
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ।।
6-55-5a
6-55-5b
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ।।
6-55-6a
6-55-6b
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा।
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ।।
6-55-7a
6-55-7b
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ।।
6-55-8a
6-55-8b
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा ।
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ।।
6-55-9a
6-55-9b
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ।।
6-55-10a
6-55-10b
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा।
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ।।
6-55-11a
6-55-11b
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा।
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ।।
6-55-12a
6-55-12b
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ।।
6-55-13a
6-55-13b
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्।
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ।।
6-55-14a
6-55-14b
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ।।
6-55-15a
6-55-15b
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ।।
6-55-16a
6-55-16b
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः ।
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ।।
6-55-17a
6-55-17b
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ।।
6-55-18a
6-55-18b
उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः ।
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ।।
6-55-19a
6-55-19b
तानि नागसहस्राणि भूमिपालशतानि च।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ।।
6-55-20a
6-55-20b
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः।
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ।।
6-55-21a
6-55-21b
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ।।
6-55-22a
6-55-22b
सादिता रथनागाश्च हताश्वा रथिनो रणे।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ।।
6-55-23a
6-55-23b
विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ।।
6-55-24a
6-55-24b
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ।।
6-55-25a
6-55-25b
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ।।
6-55-26a
6-55-26b
सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते ।
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ।।
6-55-27a
6-55-27b
साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ।।
6-55-28a
6-55-28b
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष ।
प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ।।
6-55-29a
6-55-29b
परश्वथानां पीक्ष्णानां तोमराणां च भारत।
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ।।
6-55-30a
6-55-30b
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां तोमराणां च भारत ।।
6-55-31a
6-55-31b
प्रतोदानां च योक्राणां कशानां चैव मारिष ।
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ।।
6-55-32a
6-55-32b
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ।।
6-55-33a
6-55-33b
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते।
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ।।
6-55-34a
6-55-34b
तेषु विद्रवमाणेषु तव योधेषु सर्वशः।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ।।
6-55-35a
6-55-35b
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव।
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ।।
6-55-36a
6-55-36b
एष पाण्डुसुतो वीर कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः ।।
6-55-37a
6-55-37b
न ह्येष समरे शक्यो विजेतुं हि कथंचन ।
यथास्य दृश्यते रूप कालान्तकयमोपमम् ।।
6-55-38a
6-55-38b
न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ।।
6-55-39a
6-55-39b
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते।
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ।।
6-55-40a
6-55-40b
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ।।
6-55-41a
6-55-41b
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ।।
6-55-42a
6-55-42b
`ततः सरथनागाश्वा जंय प्राप्य समोपकाः।
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ।।
6-55-43a
6-55-43b
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः।
वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ।।'
6-55-44a
6-55-44b
ततोऽवहारः सैन्यानां तव तेषां च भारत।
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ।।
6-55-45a
6-55-45b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
द्वितीयदिवसयुद्धे प़ञ्चपञ्चाशोऽध्यायः ।।
।। इति द्वितीयदिवसयुद्धम् ।।

सम्पाद्यताम्

6-55-8 तव पौत्रमवस्थितं इति कo घo पुस्तकपाठः ।। 6-55-37 यथा कुर्याद्धनंजयः । धनञ्जयोऽग्निः ।। 6-55-43 नरोति वतमानै ।।

भीष्मपर्व-054 पुटाग्रे अल्लिखितम्। भीष्मपर्व-056