महाभारतम्-06-भीष्मपर्व-041
← भीष्मपर्व-040 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-041 वेदव्यासः |
भीष्मपर्व-042 → |
एकचत्वारिंशोऽध्यायः ।। भगवद्गीताध्यायः ।। 17 ।।
|
अर्जुन उवाच। | 6-41-1x |
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता। तेषां निष्ठा तु का कृष्ण सत्वमाहो सजस्तमः ।। | 6-41-1a 6-41-1b |
श्रीभगवानुवाच। | 6-41-2x |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्विकी राजसी चैव तामसी चेति तां श्रृणु ।। | 6-41-2a 6-41-2b |
सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ।। | 6-41-3a 6-41-3b |
यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः। प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ।। | 6-41-4a 6-41-4b |
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ।। | 6-41-5a 6-41-5b |
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ।। | 6-41-6a 6-41-6b |
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु ।। | 6-41-7a 6-41-7b |
आयुःसत्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याःस्रिग्धाः स्थिरा हृद्या आहाराःसात्विकप्रियाः ।। | 6-41-8a 6-41-8b |
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।। | 6-41-9a 6-41-9b |
यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।। | 6-41-10a 6-41-10b |
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्विकः ।। | 6-41-11a 6-41-11b |
अभिसंघाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। | 6-41-12a 6-41-12b |
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। | 6-41-13a 6-41-13b |
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। | 6-41-14a 6-41-14b |
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्भयं तप उच्यते ।। | 6-41-15a 6-41-15b |
मनःप्रसादः सम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ।। | 6-41-16a 6-41-16b |
श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते ।। | 6-41-17a 6-41-17b |
सत्कारमानपूजाराथं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। | 6-41-18a 6-41-18b |
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ।। | 6-41-19a 6-41-19b |
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ।। | 6-41-20a 6-41-20b |
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।। | 6-41-21a 6-41-21b |
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ।। | 6-41-22a 6-41-22b |
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृताः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ।। | 6-41-23a 6-41-23b |
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।। | 6-41-24a 6-41-24b |
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ।। | 6-41-25a 6-41-25b |
सद्भावे साधुभावे च सदित्येतत्प्रुयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ।। | 6-41-26a 6-41-26b |
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सादित्येवाभिधीयते ।। | 6-41-27a 6-41-27b |
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ।। | 6-41-28a 6-41-28b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकचत्वारिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयबिभागयोगोनाम सप्तदशोऽध्यायः ।। |
6-41-27 तदर्थोयं इति माध्वपाठः ।।
भीष्मपर्व-040 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-042 |