महाभारतम्-06-भीष्मपर्व-038
← भीष्मपर्व-037 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-038 वेदव्यासः |
भीष्मपर्व-039 → |
अष्टत्रिंशोऽध्यायः ।। भगवद्गीताध्यायः ।। 14 ।।
|
श्रीभगवानुवाच। | 6-38-1x |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ।। | 6-38-1a 6-38-1b |
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। | 6-38-2a 6-38-2b |
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ।। | 6-38-3a 6-38-3b |
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्तिः याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ।। | 6-38-4a 6-38-4b |
सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।। | 6-38-5a 6-38-5b |
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ।। | 6-38-6a 6-38-6b |
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ।। | 6-38-7a 6-38-7b |
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।। | 6-38-8a 6-38-8b |
सत्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ।। | 6-38-9a 6-38-9b |
रजस्तमश्चाभिभूय सत्वं भवति भारत। रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा ।। | 6-38-10a 6-38-10b |
सर्वद्वारेषु देहेऽस्मिन्प्राकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्वमित्युत ।। | 6-38-11a 6-38-11b |
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।। | 6-38-12a 6-38-12b |
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ।। | 6-38-13a 6-38-13b |
यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ।। | 6-38-14a 6-38-14b |
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ।। | 6-38-15a 6-38-15b |
कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।। | 6-38-16a 6-38-16b |
सत्वात्संजायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ।। | 6-38-17a 6-38-17b |
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अघो गच्छन्ति तामसाः ।। | 6-38-18a 6-38-18b |
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ।। | 6-38-19a 6-38-19b |
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्रुते ।। | 6-38-20a 6-38-20b |
अर्जुन उवाच। | 6-38-21x |
कैर्लिङ्गैस्त्रीन्गुणानेतानीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ।। | 6-38-21a 6-38-21b |
श्रीभगवानुवाच। | 6-38-22x |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।। | 6-38-22a 6-38-22b |
उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।। | 6-38-23a 6-38-23b |
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।। | 6-38-24a 6-38-24b |
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ।। | 6-38-25a 6-38-25b |
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्म भूयाय कल्पते ।। | 6-38-26a 6-38-26b |
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ।। | 6-38-27a 6-38-27b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टत्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्दुनसंवादे गुणत्रयविभागयोगोनाम चतुर्दशोऽध्यायः ।। |
6-38-18 जघन्यगुणवृत्तिस्थाः इति माध्यपाठः ।।
भीष्मपर्व-037 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-039 |