महाभारतम्-06-भीष्मपर्व-046
← भीष्मपर्व-045 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-046 वेदव्यासः |
भीष्मपर्व-047 → |
संकुलयुद्धवर्णनम् ।। 1 ।।
|
सञ्जय उवाच। | 6-46-1x |
राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् । निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ।। | 6-46-1a 6-46-1b |
न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् । न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः ।। | 6-46-2a 6-46-2b |
न मातुलं च स्वस्रीयो न सखायं सखा तथा। आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ।। | 6-46-3a 6-46-3b |
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः । अभज्यन्त युगैरेव युगानि भरतर्षभ ।। | 6-46-4a 6-46-4b |
रथेषाश्च रतेषाभिः कूरा रथकूबरैः। संगतैः सहिताः केचित्परस्परजिघांसवः ।। | 6-46-5a 6-46-5b |
न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः । प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ।। | 6-46-6a 6-46-6b |
बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम्। सतोरणपताकैश्च वारणा वरवारणैः ।। | 6-46-7a 6-46-7b |
अभिसृत्य महाराज वेगवद्भिर्महागजैः । दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ।। | 6-46-8a 6-46-8b |
अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः। अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ।। | 6-46-9a 6-46-9b |
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः । क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ।। | 6-46-10a 6-46-10b |
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः । ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ।। | 6-46-11a 6-46-11b |
प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः। प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ।। | 6-46-12a 6-46-12b |
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः । ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ।। | 6-46-13a 6-46-13b |
गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः । आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः । | 6-46-14a 6-46-14b |
प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः। व्यदृश्यन्त महाराज परस्परजिघांसवः ।। | 6-46-15a 6-46-15b |
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ।। | 6-46-16a 6-46-16b |
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः । संजज्ञे तुमुलः शब्दः पततां परमर्मसु ।। | 6-46-17a 6-46-17b |
गदामुसलरुग्णानां भिन्नानां च वरासिभिः । दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ।। | 6-46-18a 6-46-18b |
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् । शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ।। | 6-46-19a 6-46-19b |
हयैरपि हयारोहाश्चामरापीडधारिभिः । हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ।। | 6-46-20a 6-46-20b |
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः । आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ।। | 6-46-21a 6-46-21b |
अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् । शिरांस्याददिरे वीरा रथिनामश्वसादिनः ।। | 6-46-22a 6-46-22b |
बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः । रथी जघान संप्राप्य बाणगोचरमागतान् ।। | 6-46-23a 6-46-23b |
नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः । पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः ।। | 6-46-24a 6-46-24b |
पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः। प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ।। | 6-46-25a 6-46-25b |
साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः । सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ।। | 6-46-26a 6-46-26b |
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः । रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः ।। | 6-46-27a 6-46-27b |
पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः । साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ।। | 6-46-28a 6-46-28b |
अश्वारोहैश्च समरे हस्तिसादिभिरेव च । प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् । आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ।। | 6-46-29a 6-46-29b 6-46-29c |
नराश्वकायान्निर्भिद्य लौहानि कवचानि च। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ।। | 6-46-30a 6-46-30b |
महोल्ककाप्रतिमा घोरास्तत्र तत्र विशांपते। द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ।। | 6-46-31a 6-46-31b |
विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे । अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ।। | 6-46-32a 6-46-32b |
विदर्शयन्तः संपेतुः खङ्गचर्मपरश्वथैः। केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ।। | 6-46-33a 6-46-33b |
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः। शङ्कुभिर्दारिताः केचित्संभिन्नाश्च परश्वथैः ।। | 6-46-34a 6-46-34b |
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः । रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ।। | 6-46-35a 6-46-35b |
व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान्। पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ।। | 6-46-36a 6-46-36b |
मातुलान्भागिनेयांश्च परानपि च संयुगे । विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ।। | 6-46-37a 6-46-37b |
बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः । क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ।। | 6-46-38a 6-46-38b |
तृषापरिगताः केचिदल्पसत्वा विशांपते। भूमौ निपतिताः सङ्ख्ये मृगयांचक्रिरे जलम् ।। | 6-46-39a 6-46-39b |
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत । व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ।। | 6-46-40a 6-46-40b |
अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् । नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष । तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ।। | 6-46-41a 6-46-41b 6-46-41c |
आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् । भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम् ।। | 6-46-42a 6-46-42b |
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः। निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ।। | 6-46-43a 6-46-43b |
अन्ये च विरथाः शूरा रथमन्यस्य संयुगे। प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः । अशोभन्त महाराज सपुष्पा इव किंशुकाः ।। | 6-46-44a 6-46-44b 6-46-44c |
संबभूवुरनीकेषु बहवो भैरवस्वनाः। वर्तमाने महाभीमे तस्मिन्वीरवरक्षये।। | 6-46-45a 6-46-45b |
निजघान पिता पुत्रं पुत्रश्च पितरं रणे। स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ।। | 6-46-46a 6-46-46b |
सखा सखायं च तथा संबन्धी बान्धवं तथा। एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ।। | 6-46-47a 6-46-47b |
वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके । भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ।। | 6-46-48a 6-46-48b |
केतुना पञ्चतारेण तालेन भारतर्षभ । राजतेन महाबाहुरुच्छ्रितेन महारथे । बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ।। | 6-46-49a 6-46-49b 6-46-49c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ।। |
6-46-1 प्रयुद्धानि युद्धं कृतवन्ति ।। 6-46-2 जज्ञे ज्ञातवान् ।। 6-46-3 आविष्टा इव भूतादिना गृहीता इव ।। 6-46-4 युगानि अश्वस्कन्धार्पितानि दारूणि ।। 6-46-5 रथेषा रथदण्डः । कूबरो युगकीलः। संगतैः संमुखागतैः ।। 6-46-6 प्रभिन्नाश्र्योतन्मदाः ।। 6-46-7 विषाणैर्दन्तैः तोरणानि चतुःस्तम्भमण्डपाकारस्य गजपल्याणस्य अम्बारीति भाषया प्रसिद्धस्य। द्वाराणि पताकाश्च तत्रैव स्तम्भशेखरस्थाः ।। 6-46-9 संमुखाभिमुखाः अन्योन्यसंमुखा इत्यर्थः ।। 6-46-17 अवक्षिप्तावधूतानां अधोमुखं पातितानां परेषां मर्मसु पततामसीनामिति संबन्धः ।। 6-46-19 प्रेतानां नारकाणाम् ।। 6-46-26 सहसा बलेन ।। 6-46-28 पुंस्त्वाद्वीर्यवत्त्वात्। अतिमदत्वादुद्भिन्नमदत्वात् ।। 6-46-29 प्रतिमानेषु ललाटेषु ।। 6-46-30 शक्त्यः शक्तयः 6-46-43 निष्कूजा निःशब्दाः ।।
भीष्मपर्व-045 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-047 |