महाभारतम्-06-भीष्मपर्व-045

← भीष्मपर्व-044 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-045
वेदव्यासः
भीष्मपर्व-046 →

कुरुपाण्डवसेनयोर्द्वन्द्वयुद्धवर्णनम् ।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
सञ्जय उवाच। 6-45-1x
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशांपते।
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ।।
6-45-1a
6-45-1b
कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् ।
सिंहानामिव संह्रादो दिवमुर्वी च नादयन् ।।
6-45-2a
6-45-2b
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह ।
जझिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ।।
6-45-3a
6-45-3b
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ।
पत्तीनां पादशब्दश्च वाजिनां च महास्वनः ।।
6-45-4a
6-45-4b
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः।
घण्टाशब्दश्च नागानामन्योन्यमभिधावताम् ।।
6-45-5a
6-45-5b
तस्मिन्समुदिते शब्दे तुगुले रोमहर्षणे ।
बभूव रथनिर्घोषः पर्जन्यनिनदोपमःक ।।
6-45-6a
6-45-6b
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ।।
6-45-7a
6-45-7b
अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् ।
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ।।
6-45-8a
6-45-8b
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् ।
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ।।
6-45-9a
6-45-9b
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ।
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ।।
6-45-10a
6-45-10b
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि।
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्यात् ।।
6-45-11a
6-45-11b
तयोः समभयवद्युद्धं तुमुलं रोमहर्षणम् ।
सात्यकिः कृतवर्माणं कृतवार्मा च सात्यकिम् ।।
6-45-12a
6-45-12b
आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम्।
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ।।
6-45-13a
6-45-13b
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ।
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ।।
6-45-14a
6-45-14b
ततः कोसलराजाऽसावभिमन्योर्विशांपते ।
ध्वजं चिच्छेद समरे सारथिं च व्यपातयत् ।।
6-45-15a
6-45-15b
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ।
बृहद्बलं महाराज विव्याध नवभिः शरैः ।।
6-45-16a
6-45-16b
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः ।
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ।।
6-45-17a
6-45-17b
अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् ।
मानिनं समरे दृप्तं कृतवैरं महारथम्।।
6-45-18a
6-45-18b
भीमसेनस्तव सुतं दुर्योधनमयोधयत् ।
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ।।
6-45-19a
6-45-19b
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे।
तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ ।।
6-45-20a
6-45-20b
विस्मयः सर्वभूतानां समपद्यत भारत।
दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम् ।।
6-45-21a
6-45-21b
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ।
तस्य माद्रीसुतः केतुं सशरं च शरासनम् ।।
6-45-22a
6-45-22b
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।।
6-45-23a
6-45-23b
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे ।
तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत् ।।
6-45-24a
6-45-24b
दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् ।
विव्याध शरवर्षेण यतमानं महाहवे ।।
6-45-25a
6-45-25b
सहदेवस्ततो वीरो दुर्मुखस्य महारणे।
शरेण भृतशीक्ष्णेन पातयामास सारथिम् ।।
6-45-26a
6-45-26b
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ ।
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ।।
6-45-27a
6-45-27b
युधिष्टिरः स्वयं राजा मद्रराजानमभ्ययात्।
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ।।
6-45-28a
6-45-28b
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः ।
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ।।
6-45-29a
6-45-29b
ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः ।
छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ।।
6-45-30a
6-45-30b
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत।
तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् ।।
6-45-31a
6-45-31b
त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् ।
शरं चैव महाघोरं कालदण्डमिवापरम् ।।
6-45-32a
6-45-32b
प्रेषयामास समरे सोऽस्य काये न्यमञ्जत।
अथान्यद्धनुरादाय सायकांश्च चतुर्दश ।।
6-45-33a
6-45-33b
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ।
तावन्योन्यं सुसंक्रुद्धौ चक्रतुः शुभृशं रणम् ।।
6-45-34a
6-45-34b
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि ।
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत् ।।
6-45-35a
6-45-35b
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् ।
समदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ।।
6-45-36a
6-45-36b
तयोस्तदभवद्युद्धं घोररूपं विशांपते ।
दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव ।।
6-45-37a
6-45-37b
बाह्लीकं तु रणे क्रुद्ध क्रुद्धरूपो विशांपते।
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ।।
6-45-38a
6-45-38b
बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः ।
शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् ।।
6-45-39a
6-45-39b
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः ।
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ।।
6-45-40a
6-45-40b
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः ।
समीयतुः सुसंक्रुद्धावङ्गारवबुधाविव ।।
6-45-41a
6-45-41b
राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः ।
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ।।
6-45-42a
6-45-42b
घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् ।
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ।।
6-45-43a
6-45-43b
अलम्बुसस्तु समरे भैमसेनिं महाबलम् ।
बहुधा दारयामास शरैः सन्नतपर्वभिः ।।
6-45-44a
6-45-44b
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ।।
6-45-45a
6-45-45b
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली ।
अश्वत्थामा ततः क्रुद्दः शिखण्डिनमुपस्थितम् ।।
6-45-46a
6-45-46b
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् ।
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ।।
6-45-47a
6-45-47b
सायकेन सुपीतेन तीक्ष्णेन निशितेन च।
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ।।
6-45-48a
6-45-48b
भगदत्तं रणे शूरं विराटो वाहिनीपतिः।
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ।।
6-45-49a
6-45-49b
विराटो भगदत्तं तु शरवर्षण भारत।
अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ।।
6-45-50a
6-45-50b
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ।।
6-45-51a
6-45-51b
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ ।
तं कृपः शरवर्षेण च्छादयामास भारत ।।
6-45-52a
6-45-52b
गौतमं कैकयः क्रुद्धः शरवृष्ट्याऽभ्यपूरयत् ।
तावन्योन्यं हयान्हत्वा धनुश्छित्वा च भारत ।।
6-45-53a
6-45-53b
विरथावसियुद्धाय समीयतुरमर्षणौ ।
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ।।
6-45-54a
6-45-54b
द्रुपदस्तु ततो राजन्सैन्धवं वै जयद्रथम् ।
अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः ।।
6-45-55a
6-45-55b
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।
ताजयामास समरे स च तं प्रत्यबिध्यत ।।
6-45-56a
6-45-56b
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ।
ईक्षणप्रीतिजननं शुक्राङ्गरकयोरिव ।।
6-45-57a
6-45-57b
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् ।
अभ्ययाञ्जवनैरश्वैस्ततो युद्धमवर्तत ।।
6-45-58a
6-45-58b
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः ।
सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ।।
6-45-59a
6-45-59b
सुशर्माणं नरव्याघ्रश्चेकितानो महारथः ।
अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ।।
6-45-60a
6-45-60b
शुशर्मा तु महाराज चेकितानं महारथम् ।
महता शरवर्षेण वारयामास संयुगे ।।
6-45-61a
6-45-61b
चेकितानोऽपि संरब्धः सुशर्माणां महाहवे ।
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ।।
6-45-62a
6-45-62b
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी ।
अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम् ।।
6-45-63a
6-45-63b
यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः ।
व्यदारयत संग्रामे मघवानिव दानवम् ।।
6-45-64a
6-45-64b
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे।
व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः ।।
6-45-65a
6-45-65b
सुदक्षिणं तु राजेन्द्र काम्भोजानां महारथम् ।
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ।।
6-45-66a
6-45-66b
सुदक्षिणस्तु समरे साहदेविं महारथम् ।
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ।।
6-45-67a
6-45-67b
श्रुतकर्मा ततः क्रुद्धः काम्भोजानां महारथम् ।
शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः ।।
6-45-68a
6-45-68b
इरावानथ संक्रुद्धः श्रुतायुषमरिन्दमम् ।
प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः ।।
6-45-69a
6-45-69b
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः ।
ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत् ।।
6-45-70a
6-45-70b
श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान्।
निजघान गदाग्रेण ततो युद्धमवर्तत ।।
6-45-71a
6-45-71b
विन्दानिविन्दावावन्त्यौ कुन्तिभोजं महारथम् ।
ससेनं ससुतं वीरं संसस?ञ्जतुराहवे ।।
6-45-72a
6-45-72b
तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् ।
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह ।।
6-45-73a
6-45-73b
अनुविन्दस्तु गदया कुन्तिभोजमताडयत्।
कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत् ।।
6-45-74a
6-45-74b
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः ।
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ।।
6-45-75a
6-45-75b
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ।
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ।।
6-45-76a
6-45-76b
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् ।
उत्तरं योधयामास विव्याध निशितैः शरैः ।।
6-45-77a
6-45-77b
उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः ।
चेदिराट् समरे राजन्नुलूकं समभिद्रवत् ।।
6-45-78a
6-45-78b
तथैव शरवर्षेण उलूकं समविद्ध्यत ।
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ।।
6-45-79a
6-45-79b
तयोर्युद्धं समभवद्धोररूपं विशांते ।
दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ।।
6-45-80a
6-45-80b
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् ।
पदातीनां च समरे तव तेषां च संकुले ।।
6-45-81a
6-45-81b
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन ।।
6-45-82a
6-45-82b
गजो गजेन समरे रथिनं च रथी ययौ ।
अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम् ।।
6-45-83a
6-45-83b
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत।
शूराणां समरे तत्र समासाद्येतरेतरम् ।।
6-45-84a
6-45-84b
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः ।
प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि ।।
6-45-85a
6-45-85b
ततो दन्तिसहस्राणि र्थानां चापि मारिष।
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ।।
6-45-86a
6-45-86b
तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः ।
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ।।
6-45-87a
6-45-87b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
प्रथमदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः ।।

सम्पाद्यताम्

6-45-1 पूर्वाह्णे पूर्वभागे ।। 6-45-5 तोत्रं गजदमनं वेणुकाख्यं वेणुवुध्नसमाकारम् ।। 6-45-13 आनर्च्छतुः पीडितवन्तौ। तक्षमाणौ तनूकुर्वाणौ ।। 6-45-14 पुष्पैः शबलौ विचित्रौ ।। 6-45-17 एकेन प्राष्णि पृष्ठगोपं एकेन सारथिमिति च ।। 6-45-23 क्षुद्रकाणां बाणविशेषाणाम् ।। 6-45-31 परासुकरणं मारणसाधनम् ।। 6-45-36 वीरः शङ्खः। जत्रुदेशे अंससंधौ ।। 6-45-38 धृष्टकेतुः शिशुपालसुतः ।। 6-45-44 सन्नतपर्वभिः अलक्षितग्रन्थिभिः ।। 6-45-48 तीक्ष्णेन सूक्ष्मधारेण । निशिते शाणोल्लीढेन । मृधे संग्रामे ।। 6-45-58 तुभ्यं तव। सुतसोमं भैमसेनिम् ।। 6-45-60 चेकितानो यादवः ।। 6-45-69 इरावानर्जुनपुत्रः ।। 6-45-72 संससज्जतुः संसक्तावभूताम् ।। 6-45-81 द्वन्द्वं द्वयोर्द्वयोर्युद्धम् ।। 6-45-86 विपरीतं अतीतक्रमम् ।।

भीष्मपर्व-044 पुटाग्रे अल्लिखितम्। भीष्मपर्व-046