महाभारतम्-06-भीष्मपर्व-087
← भीष्मपर्व-086 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-087 वेदव्यासः |
भीष्मपर्व-088 → |
उभयसेनयोर्व्यूहरचनापूर्वकं परस्पराभियानम् ।। 1 ।।
|
सञ्जय उवाच। | 6-87-1x |
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः। कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ।। | 6-87-1a 6-87-1b |
ततः शब्दो महानासीत्सेनयोरुभयोर्नृप । निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव ।। | 6-87-2a 6-87-2b |
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः। भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ।। | 6-87-3a 6-87-3b |
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् । व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान् ।। | 6-87-4a 6-87-4b |
कूर्मव्यूहं ततः कृत्वा पिता तव विशांपते । सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ।। | 6-87-5a 6-87-5b |
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ । मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ।। | 6-87-6a 6-87-6b |
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान । पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ।। | 6-87-7a 6-87-7b |
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् । मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते ।। | 6-87-8a 6-87-8b |
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः । मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः ।। | 6-87-9a 6-87-9b |
बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः। काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ।। | 6-87-10a 6-87-10b |
द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत। प्रययौ सिंहनादेन नादयानो धरातलम् ।। | 6-87-11a 6-87-11b |
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा। द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ।। | 6-87-12a 6-87-12b |
दुर्योधनादनु ततः कृपः शारद्वतो ययौ। एवमेष महाव्यूहः प्रययौ सागरोपमः ।। | 6-87-13a 6-87-13b |
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत । अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ।। | 6-87-14a 6-87-14b |
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः । युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ।। | 6-87-15a 6-87-15b |
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् । प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ ।। | 6-87-16a 6-87-16b |
ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् । श्रृङ्गाटकं महाराज परव्यूहविनाशनम् ।। | 6-87-17a 6-87-17b |
श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः । रथैरनेकसाहस्रैस्तथा हयपदातिभिः ।। | 6-87-18a 6-87-18b |
नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः । मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।। | 6-87-19a 6-87-19b |
अथेतरे महेष्वासाः सहसैन्या नराधिपाः । व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ।। | 6-87-20a 6-87-20b |
अभिमन्युस्ततः पश्चाद् विराटश्च महारथः । द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ।। | |
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ।। | 6-87-21a 6-87-21b |
भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः । क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः ।। | 6-87-22a 6-87-22b |
ततः शूराः समासाद्य समरे ते परस्परम। नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ।। | 6-87-23a 6-87-23b |
`मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे ।' पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे ।। | 6-87-24a 6-87-24b |
ततः प्रववृते युद्धं घोररूपं भयावहम् । तावकानां परेषां च निघ्नतामितरेतरम् ।। | 6-87-25a 6-87-25b |
नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत । व्यात्तानना भयकरा उरगा इव सङ्घशः ।। | 6-87-26a 6-87-26b |
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः । अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ।। | 6-87-27a 6-87-27b |
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः। पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः ।। | 6-87-28a 6-87-28b |
निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः । आर्षभाणि च चर्माणि शतचन्द्राणि भारतत ।। | 6-87-29a 6-87-29b |
अशोभन्त रणे राजन्पात्यमानानि सर्वशः । तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ।। | 6-87-30a 6-87-30b |
अशोभेतां यथा देवदैत्यसेने समुद्यते। अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ।। | 6-87-31a 6-87-31b |
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे। युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ।। | 6-87-32a 6-87-32b |
दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् । दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम् ।। | 6-87-33a 6-87-33b |
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः । पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ।। | 6-87-34a 6-87-34b |
पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् । चित्ररूपधराः शूरा नखरप्रासयोधिनः ।। | 6-87-35a 6-87-35b |
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः । अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ।। | 6-87-36a 6-87-36b |
ततः शान्तनवो भीष्मो रथघोषेण नादयन् । अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन् ।। | 6-87-37a 6-87-37b |
पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् । अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ।। | 6-87-38a 6-87-38b |
ततः प्रववृते युद्धं तव तेषां च भारत। नराश्वरथनागानां व्यतिषक्तं परस्परम् ।। | 6-87-39a 6-87-39b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे सप्ताशीतितमोऽध्यायः ।। |
भीष्मपर्व-086 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-088 |