महाभारतम्-06-भीष्मपर्व-034
← भीष्मपर्व-033 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-034 वेदव्यासः |
भीष्मपर्व-035 → |
चतुस्त्रिंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 10 ।।
|
श्रीभगवानुवाच। | 6-34-1x |
भूय एव महाबाहो श्रृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ।। | 6-34-1a 6-34-1b |
न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः ।। | 6-34-2a 6-34-2b |
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।। | 6-34-3a 6-34-3b |
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो भवो भयं चाभयमेव च ।। | 6-34-4a 6-34-4b |
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।। | 6-34-5a 6-34-5b |
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भाव मानसा जाता येषां लोक इमाः प्रजाः ।। | 6-34-6a 6-34-6b |
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ।। | 6-34-7a 6-34-7b |
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।। | 6-34-8a 6-34-8b |
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ।। | 6-34-9a 6-34-9b |
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। | 6-34-10a 6-34-10b |
तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। | 6-34-11a 6-34-11b |
अर्जुन उवाच। | 6-34-12x |
परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। | 6-34-12a 6-34-12b |
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथाक । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ।। | 6-34-13a 6-34-13b |
सर्वतेमदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ।। | 6-34-14a 6-34-14b |
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते ।। | 6-34-15a 6-34-15b |
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ।। | 6-34-16a 6-34-16b |
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ।। | 6-34-17a 6-34-17b |
विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ।। | 6-34-18a 6-34-18b |
श्रीभगवनुवाच। | 6-34-19x |
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ।। | 6-34-19a 6-34-19b |
अहमात्मा गुडाकेश सर्वभूताशयस्थितःक । अहमादिश्च मध्यं च भूतानामन्त एव च ।। | 6-34-20a 6-34-20b |
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ।। | 6-34-21a 6-34-21b |
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ।। | 6-34-22a 6-34-22b |
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ।। | 6-34-23a 6-34-23b |
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः ।। | 6-34-24a 6-34-24b |
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ।। | 6-34-25a 6-34-25b |
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ।। | 6-34-26a 6-34-26b |
उच्चैः श्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ।। | 6-34-27a 6-34-27b |
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ।। | 6-34-28a 6-34-28b |
अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितॄणामर्यमा चास्मि यमः संयमतामहम् ।। | 6-34-29a 6-34-29b |
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च परिणाम् ।। | 6-34-30a 6-34-30b |
पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ।। | 6-34-31a 6-34-31b |
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ।। | 6-34-32a 6-34-32b |
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ।। | 6-34-33a 6-34-33b |
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक्क नारीणां स्मृतिर्मेधा धृतिः क्षमा ।। | 6-34-34a 6-34-34b |
बृहत्साम कतथा साम्नां गायत्री छन्दसामहम्। मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ।। | 6-34-35a 6-34-35b |
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ।। | 6-34-36a 6-34-36b |
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ।। | 6-34-37a 6-34-37b |
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ।। | 6-34-38a 6-34-38b |
यच्चापि सर्वभूतानां बीजं तदहमर्जुन। न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ।। | 6-34-39a 6-34-39b |
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ।। | 6-34-40a 6-34-40b |
यद्यद्विभूतितत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ।। | 6-34-41a 6-34-41b |
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।। | 6-34-42a 6-34-42b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुस्त्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगोनाम दशमोऽध्यायः ।। |
भीष्मपर्व-033 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-035 |