महाभारतम्-06-भीष्मपर्व-007
← भीष्मपर्व-006 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-007 वेदव्यासः |
भीष्मपर्व-008 → |
मेरोरुत्तरभागस्थोत्तरकुरुवर्णनम् ।। 1 ।।
तथा मेरोः पूर्वभागस्थभद्राश्वखण्डवर्णनम् ।। 2 ।।
|
धृतराष्ट्र उवाच। | 6-7-1x |
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ।। | 6-7-1a 6-7-1b |
संजय उवाच। | 6-7-2x |
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ।। | 6-7-2a 6-7-2b |
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ।। | 6-7-3a 6-7-3b |
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ।। | 6-7-4a 6-7-4b |
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।। | 6-7-5a 6-7-5b |
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप । पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ।। | 6-7-6a 6-7-6b 6-7-6c |
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः।। | 6-7-7a 6-7-7b |
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ।। | 6-7-8a 6-7-8b |
मिथुनं जायते काले समं तच्च प्रवर्धते। तुल्यरूगुणोपेतं समवेषं तथैव च ।। | 6-7-9a 6-7-9b |
एवमेवानुरूपं च चक्रवाकसमं विभो । निरापगाम ते लोका नित्यं मुदितमानसाः ।। | 6-7-10a 6-7-10b |
दशवर्षसहस्राणि शशवर्षशतानि च । जीवन्ति ते महाराज न चान्योन्यं जहत्युत ।। | 6-7-11a 6-7-11b |
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ।। | 6-7-12a 6-7-12b |
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ।। | 6-7-13a 6-7-13b |
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते । भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ।। | 6-7-14a 6-7-14b |
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ।। | 6-7-15a 6-7-15b |
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ।। | 6-7-16a 6-7-16b |
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः ।। | 6-7-17a 6-7-17b |
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ।। | 6-7-18a 6-7-18b |
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ।। | 6-7-19a 6-7-19b |
सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ।। | 6-7-20a 6-7-20b |
योजनानां सहस्त्रं च शतं च भरतर्षभ । उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर ।। | 6-7-21a 6-7-21b |
अरत्नीनां सहस्रं च शतानि दश पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ।। | 6-7-22a 6-7-22b |
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ।। | 6-7-23a 6-7-23b |
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप । मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ।। | 6-7-24a 6-7-24b |
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप । तस्मिन्फलरसे पीते न जरा बाधते च तान् ।। | 6-7-25a 6-7-25b |
तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् ।। | 6-7-26a 6-7-26b |
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः । तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ।। | 6-7-27a 6-7-27b |
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ । तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ।। | 6-7-28a 6-7-28b |
योजनानां सहस्राणि पञ्चषण्माल्यवानथ । महारजतसंकाशा जायन्ते तत्र मानवाः ।। | 6-7-29a 6-7-29b |
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः । तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः । रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ।। | 6-7-30a 6-7-30b 6-7-30c |
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ।। | 6-7-31a 6-7-31b |
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ।। | 6-7-32a 6-7-32b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सप्तमोऽध्यायाः ।। |
6-7-3 मधुफलाः स्वादुफलाः ।। 6-7-7 शुक्लाभिजनो विष्णुभक्तजनस्तेन संपमास्तत्सङ्गिनः ।। 6-7-10 चक्रवाकौ सहचरौ पक्षिदम्पती ।। 6-7-14 मूर्धाभिषेको मूर्धाभिषिक्तम्। मुख्यमिति यावत् ।। 6-7-28 गण्डिका क्षुद्रपर्वतः ।। 6-7-29 पञ्चषट् पञ्चाधिकाः षट् एकादशेत्यर्थः । महारजतं काञ्चनं तत्संकाशाः ।। 6-7-30 ब्रह्मलोकेति। ये इतः कर्मणा ब्रह्मलोकं गतास्ते ततश्च्युताः सन्तो माल्यवति पर्वते जन्म लब्धा भूतानां रक्षणार्थं तपस्तप्त्वा दिवाकरं प्रविशन्ते तत्समीपं प्राप्नुवन्ति ।।
भीष्मपर्व-006 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-008 |